|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ त्रयस्त्रिंशोऽध्यायः ॥
श्रीपराशर उवाच
बाणोऽपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् । देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना ॥ १ ॥ कच्चिन्ममैषां बाहूनां साफल्यजनको रणः । भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २ ॥ श्रीशङ्कर उवाच मयूरध्वजभङ्गस्ते यदा बाण भविष्यति । पिशिताशिजनानन्दं प्राप्स्यसे त्वं तदा रणम् ॥ ३ ॥ श्रीपराशर उवाच ततः प्रणम्य वरदं शम्भुमभ्यागतो गृहम् । सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ॥ ४ ॥ एतस्मिन्नेव काले तु योगविद्याबलेन तम् । अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ॥ ५ ॥ कन्यान्तःपुरमभ्येत्य रममाणं सहोषया । विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते ॥ ६ ॥ व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । जघान परिघं घोरमादाय परवीरहा ॥ ७ ॥ हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः । युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ॥ ८ ॥ मायया युयुधे तेन स तदा मन्त्रिचोदितः । ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ ९ ॥ द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् । यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ १० ॥ तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया । योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ॥ ११ ॥ ततो गरुडमारुह्य स्मृतमात्रागतं हरिः । बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ १२ ॥ पुरप्रवेशे प्रमथैर्युद्धमासीन्महात्मनः । ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥ १३ ॥ ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् । बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना ॥ १४ ॥ तद्भस्मस्पर्शसम्भूततापः कृष्णाङ्गसङ्गमात् । अवाप बलदेवोऽपि श्रममामीलितेक्षणः ॥ १५ ॥ ततः स युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा । वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ १६ ॥ नारायणभुजाघातपारिपीडनविह्वलम् । तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ १७ ॥ ततश्च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् । आत्मन्येव लयं निन्ये भगवान्मधुसूदनः ॥ १८ ॥ ज्वर उवाच मम त्वाय समं युद्धं ये स्मरीष्यन्ति मानवाः । विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ ज्वरः ॥ १९ ॥ ततोग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् । दानवानां बलं कृष्णश्चूर्णयामास लीलया ॥ २० ॥ ततःसमस्तसैन्येन दैतेयानां बलेःसुतः । युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ २१ ॥ हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् । चुक्षुभुः स कला लोकाः शस्त्रास्त्रांशुप्रतापितिः ॥ २२ ॥ प्रलयोऽयमशेषस्य जगतो नूनमागतः । मेनिरे त्रिदशास्तत्र वर्तमाने महारणे ॥ २३ ॥ जृम्भकास्त्रेण गोविन्दो जृम्भयामास शङ्करम् । ततः प्रणेमुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २४ ॥ जृम्भाभिभूतस्तु हरो रथोपस्थ उपाविशत् । न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २५ ॥ गरुडक्षतवाहश्च प्रद्युम्नास्त्रेण पीडितः । कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः ॥ २६ ॥ जृम्भिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते । नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ २७ ॥ नन्दिना सङ्गृहीताश्वमधिरूढो महारथम् । बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २८ ॥ बलभद्रो महावीर्यो बाणसैन्यमनेकधा । विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत ॥ २९ ॥ आकृष्य लाङ्गलाग्रेण मुकलेनाशु ताडितम् । बलं बलेन ददृशे बाणो बाणैश्च चक्रिणा ॥ ३० ॥ ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ॥ ३१ ॥ समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः । कृष्णश्चिच्छेद बाणैस्तान् बाणेन प्रहिताञ्छितान् । विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ॥ ३२ ॥ मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । परस्परं क्षतिकरौ लाघवादनिशं द्विज ॥ ३३ ॥ भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति । प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः ॥ ३४ ॥ ततोर्कशतसङ्घाततेजसा सदृशद्युति । जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ ३५ ॥ मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः । नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ ३६ ॥ तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् । मुमोच बाणमुद्दिश्यच्छेत्तुं बाहुवनं रिपोः ॥ ३७ ॥ क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् । चेदं चक्रेऽसुरापास्तशस्त्रौघक्षपणादृतम् ॥ ३८ ॥ चिन्ने बाहुवने तत्तु करस्थं मधुसूदनः । मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ ३९ ॥ समुपेत्याह गोविन्दं सामपूर्वमुमापतिः । विलोक्य बाणं दोर्दण्डच्छेदासृक्स्राववर्षिणम् ॥ ४० ॥ शङ्कर उवाच कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । परेशं परमात्मानमनादिनिधनं हरिम् ॥ ४१ ॥ देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ ४२ ॥ तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ४३ ॥ अस्मत्संश्रयदृप्तोऽयं नापराधी तवाव्यय । मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ ४४ ॥ श्रीपराशर उवाच इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् । प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ ४५ ॥ श्रीभगवानुवाच युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर । त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ ४६ ॥ त्वया यदभयं दत्तं तद्दत्तमखिलं मया । मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ ४७ ॥ योहं स त्वं जगच्चेदं सदेवासुरमानुषम् । मत्तो नान्यदशेषं यत्तत्त्वं ज्ञातुमिहार्हसि ॥ ४८ ॥ अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः । वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर ॥ ४९ ॥ प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥ ५० ॥ श्रीपराशर उवाच इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति । तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः ॥ ५१ ॥ ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति । आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ ५२ ॥ पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः । देवीभिः सततं विप्र भूभारतरमेच्छया ॥ ५३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे त्रयस्त्रिंशोऽध्यायः (३३) |