|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ एकत्रिंशोऽध्यायः ॥
श्रीपराशर उवाच
संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगम्भीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥ श्रीकृष्ण उवाच देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥ वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया । तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥ इन्द्र उवाच विमोहयसि मामीश मर्त्योऽहमिति किं वदन् । जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५ ॥ योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः । जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ ६ ॥ नीयतां पारीजातोऽयं कृष्ण द्वारवतीम्पुरीम् । मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ७ ॥ देवदेव जगन्नाथ कृष्ण विष्णो महाभुज । शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ ८ ॥ श्रीपराशर उवाच तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः । प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ९ ॥ ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः । हर्षमुत्पादयामास द्वारकावासिनां द्वज ॥ १० ॥ अवतीर्याथ गरुडात्सत्यभामा सहायवान् । निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ११ ॥ यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् । वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ १२ ॥ ततस्ते यादवाःसर्वे देहबन्धानमानुषान् । ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ १३ ॥ किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् । विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ १४ ॥ कन्याश्च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ १५ ॥ ततः काले शुभे प्राप्ते उपयेमे जनार्दनः । ताः कन्या नरकेणासन्सर्वतो याःसमाहृताः ॥ १६ ॥ एकस्मिन्नेव गोविन्दः काले तासां महामुने । जग्राह विधिवत्पाणीन्पृथग्गेहेषु धर्मतः ॥ १७ ॥ षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् । तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ॥ १८ ॥ एकैकमेव ताः कन्या मेनिरे मधुसूदनः । ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ १९ ॥ निशासु च जगत्स्रष्टा तासां गेहेषु केशवः । उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ २० ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे एकत्रिंशोऽध्यायः (३१) |