॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ षड्विंशोऽध्यायः ॥

श्रीपराशर उवाच
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मीतस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ १ ॥
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनि ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ २ ॥
ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ ३ ॥
विवाहार्यं ततः सर्वे जरासन्धमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः ॥ ४ ॥
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५ ॥
श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ६ ॥
ततश्च पैण्ड्रकः श्रीमान्दन्तवक्रो विदूरथः ।
शिशुपालजरासन्धशाल्वाद्याश्च महीभृतः ॥ ७ ॥
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्योर्यदुपुङ्‍गवैः ॥ ८ ॥
कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ९ ॥
हत्वा बलं सनागाश्‍वं पत्तिस्यन्दनसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥
निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन सम्प्राप्तां मधुसुदनः ॥ ११ ॥
तस्यां जज्ञे च प्रद्युम्नो मदनांशः सवीर्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १२ ॥
इति श्रिविष्णुमहापुराणे पञ्चमेंऽशे षड्विशोध्यायः (२६)

GO TOP