|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ सप्तविंशोऽध्यायः ॥
श्रीमैत्रेय उवाच
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं मुने । शम्बरः स महावीर्यः प्रद्युम्नेन कथं हतः ॥ १ ॥ यस्तेनापहृतः पूर्वं स कथं विजघान तम् । एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो ॥ २ ॥ श्रीपराशर उवाच षष्ठेह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् । ममैष हन्तेति मुने हृतवान्कालशम्बरः ॥ ३ ॥ हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे । कल्लोलजनितावर्ते सुघोरे मकारालये ॥ ४ ॥ पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् । न ममार च तस्यापि जठराग्निप्रदीपितः ॥ ५ ॥ मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्विज । घातितोऽसुरवर्याय शम्बराय निवेदितः ॥ ६ ॥ तस्य माया वती नामपत्नी सर्वगृहेश्वरी । कारयामास सूदानामाधिपत्यमनिन्दिता ॥ ७ ॥ दारिते मत्स्यजठरे सा ददर्शातिशोभनम् । कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ ८ ॥ कोऽयं कथमयं मत्स्यजठरे प्रविवेशितः । इत्येवं कौतुपाविष्टां तन्वीं प्राहाथ नारदः ॥ ९ ॥ अयं समस्तजगतः स्थितिसंहारकारिणः । शम्बरेण हृतो विष्णोस्तनयः सूतिकागृहात् ॥ १० ॥ क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः । नररत्नमिदं सुभ्रु विस्रब्धा परिपालय ॥ ११ ॥ श्रीपराशर उवाच नारदेनैवमुक्ता सा पालयामास तं शिशुम् । बाल्यादेवातिरागेण रूपातिशयमोहिता ॥ १२ ॥ स यदा यौवनाभोगभूषितोऽभून्महामते । साभिलाषा तदा सापि बभूव गजगामिनि ॥ १३ ॥ मायावती ददौ तस्मै मायाः सर्वा महामुने । प्रद्युम्नायानुरागान्धा तत्र्यस्तहृदयेक्षणा ॥ १४ ॥ प्रसाज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेक्षणाम् । मातृत्वमपहायाद्य किमेवं वर्तसेऽन्यथा ॥ १५ ॥ सा तस्मै कथयामासन पुत्रस्त्वं ममेति वै । तनयं त्वामयं विष्णोर्हृतवान्कालशम्बरः ॥ १६ ॥ क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान्मया । सा हि रोदिति ते माता कान्ताद्याप्यतिवत्सला ॥ १७ ॥ श्रीपराशर उवाच इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् । क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ १८ ॥ हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः । सप्तमाया व्यतिक्रम्य मायां प्रयुयुजेऽष्टमीम् ॥ १९ ॥ तया जघान तं दैत्यं मायया कालशम्बरम् । उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम् ॥ २० ॥ अन्तःपुरे निपतितं मायावत्या समन्वितम् । तं दृष्ट्वा कृष्णसंकल्पा बभूवुः कृष्णयोषितः ॥ २१ ॥ रुक्मिणी साभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता । धन्याया खल्वयं पुत्रो वर्तते नवयौवने ॥ २२ ॥ अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति । सभाग्या जननी वत्स सा त्वया का विभीषिता ॥ २३ ॥ अथ वा यादृशः स्नेहो मम यादृग्वपुस्तव । हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ २४ ॥ श्रीपराशर उवाच एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः । अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥ २५ ॥ एष ते तनयः सुभ्रु हत्वा शम्बरमागतः । हृतो येनाभवद्बालो भवत्याः सूतिकागृहात् ॥ २६ ॥ इयं मायावती भार्या तनयस्यास्य ते सती । शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २७ ॥ मन्मथे तु गते नाशं तदुद्भवपरयणा । शम्बरं मोहयामास मायारूपेण रूपिणी ॥ २८ ॥ विहाराद्युपभोगेषु रूपं मायामयं शुभम् । दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २९ ॥ कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ ३० ॥ ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा । नगरी च समस्ता सा साधुसाध्वित्यभाषत ॥ ३१ ॥ चिरं नष्टेन पुत्रेण सङ्गतां प्रेक्ष्य रुक्मिणीम् । अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः ॥ ३२ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे सप्तविंशोध्यायः (२७) |