॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ पञ्चविंशोऽध्यायः ॥

श्रीपराशर उवाच
वने विचरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ १ ॥
निष्पादितोरुकार्यस्य कार्येणोर्वीप्रचारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ २ ॥
अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ३ ॥
इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् ।
वृन्दावनसमुत्पन्नकदम्बतरुकोटरे ॥ ४ ॥
विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ वराननः ॥ ५ ॥
ततः कदम्बात्सहसामद्यधारां स लाङ्‍गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ६ ॥
पपौ च गोपगोपीभिः समुपेतो मुदान्वितः ।
प्रगीयमानो ललीतं गीतवाद्यविशारदैः ॥ ७ ॥
स मत्तोत्यन्तघर्माम्भः कणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ८ ॥
तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्‍गली ॥ ९ ॥
गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ १० ॥
साकृष्टा सहसा तेन मार्गं सन्त्यज्य निम्नगा ।
यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ ११ ॥
शरीरिणी तदाभ्येत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्‌रामं मुञ्च मां मुसलायुध ॥ १२ ॥
ततस्तस्याः सुवचनमाकर्ण्य स हलायुधः ।
सोऽब्रवीदवजानासि मम शौर्यबले नदि ।
सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १३ ॥
श्रीपराशर उवाच
इत्युक्तयातिसन्त्रासात्तया नद्य प्रसादितः ।
भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ १४ ॥
ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ १५ ॥
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ।
वरुणप्रहितां चास्मै मालामम्लानपङ्‍कजाम् ।
समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १६ ॥
कृतावतंसः स तदा चारुकुंडलभूषितः ।
नीलाम्बरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ १७ ॥
इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।
मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ १८ ॥
रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ १९ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे पञ्चविंशोध्यायः (२५)

GO TOP