|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ चतुर्थोऽध्यायः ॥
श्रीपराशर उवाच
कंसस्ततोद्विग्नमनाः प्राह सर्वान्महासुरान् । प्रलम्बकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ १ ॥ कंस उवाच हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने । अरिष्टाद्यास्तथैवान्ये श्रूयतां वचनं मम ॥ २ ॥ मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः । मद्वीर्यतापितान्वीरो न त्वेतान्गणयाम्यहम् ॥ ३ ॥ किमिन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा । हरिणा वापि किं साध्यं छिद्रेष्वसुरघातिना ॥ ४ ॥ किमादित्यैः किं वसुभिरल्पवीर्यैः किमग्निभिः । किंवान्यैरमरैः सर्वैर्मद्बाहुबलनिर्जितैः ॥ ५ ॥ किं न दृष्टोमरपतिर्मया संयुगमेत्य सः । पृष्ठेनैव वहन्बाणानपगच्छन्न वक्षसा ॥ ६ ॥ मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेण किं तदा । मद्बाणभिन्नैर्जलदैर्नापो मुक्ता यथेप्सिताः ॥ ७ ॥ किमुर्व्यामवनीपाला मद्बाहुबलभीरवः । ते सर्वे सन्नतिं याता जरासन्धमृते गुरम् ॥ ८ ॥ अमरेषु ममावज्ञा जायते दैत्यपुङ्गवाः । हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ ९ ॥ तथापि खलु दुष्टानां तेषामप्यधिकं मया । अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ १० ॥ तद्ये यशस्विनः केचित्पृथिव्यां ये च याजकाः । कार्यो देवापकाराय तेषां सर्वात्मना वधः ॥ ११ ॥ उत्पन्नश्चापि मे मृत्युर्भूतपूर्वः स वै किल । इत्येतद्दारिका प्राह देवकीगर्भसम्भवा ॥ १२ ॥ तस्माद्बालेषु च परो यत्नः कार्यो महीतले । यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ १३ ॥ इत्याज्ञाप्यासुरान्कंसः प्रविश्याशु गृहं ततः । मुमोच वसुदेवं च देवकीं च निरोधतः ॥ १४ ॥ कंस उवाच युवयोर्घातिता गर्भा वृथैवैते मयाधुना । कोप्यन्य एव नाशाय बालो मम समुद्गतः ॥ १५ ॥ तदलं परितापेन नुनं तद्भाविनो हि ते । अर्भका युवयोर्देषाच्चायुषो यद्वियोजिताः ॥ १६ ॥ श्रीपराशर उवाच इत्याश्वास्य विमुक्त्वा च कंसस्तौ परिशङ्कितः । अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश ततः स्वकम् ॥ १७ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे चतुर्थोऽध्यायः (४) |