|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ तृतीयोऽध्यायः ॥
श्रीपराशर उवाच
एवं संस्तूयमाना सा देवैर्देवमधारयत् । गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ॥ १ ॥ ततोऽखिलजगत्पद्मबोधायाच्युतभानुना । देवकीपूर्वसन्ध्यायामाविर्भूतं महात्मना ॥ २ ॥ तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् । बभूव सर्वलोकस्य कौमुदी शशिनो यथा ॥ ३ ॥ सन्तःसन्तोषमधकं प्रशमं चण्डमारुताः । प्रसादं निम्नगा याता जायमाने जनार्दने ॥ ४ ॥ सिन्धवो निजशब्देन वाद्यं चक्रुर्मनोहरम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ५ ॥ ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः । जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ ६ ॥ मदं जगुर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज । अर्धरात्रेऽखिलाधारे जायमाने जनार्दने ॥ ७ ॥ फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् । श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ ८ ॥ अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः । विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम ॥ ९ ॥ वसुदेव उवाच जातोऽसि देवदेवेश शङ्खचक्रगदाधरम् । दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥ १० ॥ अद्यैव देव कंसोऽयं कुरुते मम घातनम् । अवतीर्म इति ज्ञात्वा त्वमस्मिन्मम मन्दिरे ॥ ११ ॥ देवक्युवाच योऽनन्तरूपोऽखिलविश्वरूपो गर्भेऽपि लोकान्वपुषा बिभर्ति । प्रसीतदामेष स देवदेवो यो माययाविष्कृतबालरूपः ॥ १२ ॥ उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् । जानातु मावतारं ते कंसोऽयं दितिजन्मजः ॥ १३ ॥ श्रीभगवानुवाच स्तुतोऽहं य त्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते । सफलं देवि संजातं जातोऽहं यत्तवोदरात् ॥ १४ ॥ श्रीपराशर उवाच इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम । वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥ १५ ॥ मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया । मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १६ ॥ वर्षतां जलदानां च तोयमात्युल्बणं निशि । संवृत्यानुययौ शेषः फणैरानकदुन्दुभिम् ॥ १७ ॥ यमुनां चातिगम्भीरां नानावर्तशताकुलाम् । वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ १८ ॥ कंसस्य करदानाय तत्रैवाभ्यागतास्तटे । नन्दादीन्गोपवृद्धांश्च यमुनाया ददर्श सः ॥ १९ ॥ तस्मिन्काले यशोदापि मोहिता योगनिद्रया । तामेव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ २० ॥ वसुदेवोपि विन्यस्य बालमादाय दारिकाम् । यशोदाशयनात्तूर्णमाजगामामितद्युतिः ॥ २१ ॥ ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् । नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥ २२ ॥ आदाय वसुदेवोऽपि दारिकां निजमन्दिरे । देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ २३ ॥ ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । कंसायावेदयामासुर्देवकीप्रसवं द्विज ॥ २४ ॥ कंसस्तूर्णमुपेत्यैनां ततो जग्रह बालिकाम् । मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥ २५ ॥ चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता । अवाप रूपं सुमहत्सायुधाष्टमहाभुजम् ॥ २६ ॥ प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् । किं मया क्षिप्तया कंस जाता यस्त्वां वधिष्यति ॥ २७ ॥ सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । तदेतत्सम्प्रधार्याशु क्रियतां हितमात्मनः ॥ २८ ॥ इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ २९ ॥ इति श्रिविष्णुमहापुराणे पञ्चमेंऽशे तृतीयोऽध्यायः (३) |