|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ द्वितीयोऽध्यायः ॥
श्रीपराशर उवाच
यथोक्तं सा जगद्धात्त्री देवदेवेन वै तथा । षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १ ॥ सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः । लोकत्रयोपकाराय देवक्याः प्रविवेश ह ॥ २ ॥ योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने । सम्भूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ ३ ॥ ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज । विष्णोरंशे भुवं याते ऋतवश्चाबभुः शुभाः ॥ ४ ॥ न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा । जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ ५ ॥ अदृष्टाः पुरुषैः स्त्रीभिर्देवकीं देवतागणाः । बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ६ ॥ देवता ऊचुः प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाभवः पुरा । ततो वाणी जगद्धातुर्वेदगर्भासि शोभने ॥ ७ ॥ सृज्यस्वरूपगर्भासि सृष्टिभूता सनातने । बीजभूता तु सर्वस्य यज्ञभूताभवस्त्रयी ॥ ८ ॥ फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः । अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ९ ॥ ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः । नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ १० ॥ कामगर्भा तथेच्छा त्वं तुष्टिः सन्तोषगर्भिणी । मेधा च बोधगर्भासि धैर्यगर्भोद्वहा धृतिः ॥ ११ ॥ ग्रहर्क्षतारकागर्भा द्यौरस्याखिलहैतुकी । एता विभूतयो देवि तथान्याश्च सहस्रशः । तथा संख्या जगद्धात्री साम्प्रतं जठरे तव ॥ १२ ॥ समुद्राद्रिनदीद्वीपवनपत्तनभूषणा । ग्रामखर्वटखेटाढ्या समस्ता पृथिवी शुभे ॥ १३ ॥ समस्तवहयोऽम्भांसि सकलाश्च समीरणाः । महोरगास्तथा यक्षा राक्षसाः प्रेतगुद्यकाः ॥ १४ ॥ ग्रहर्क्षतारकाचित्रं विमानशतसंकुतम् । अवकाशमशेषस्य यद्ददाति नभस्थलम् ॥ १५ ॥ भूलोकश्च भुवर्लोकःस्वर्लोकोऽथ महर्जनः । तपश्च ब्रह्मलोकश्च ब्रह्माण्डमखिलं शुभे ॥ १६ ॥ तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः । महोरगास्तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥ १७ ॥ मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि । तैरन्तस्थैरनन्तोऽसौ सर्वगः सर्वभावनः ॥ १८ ॥ रूपकर्मस्वरूपाणि न परिच्छेदगोचरे । यस्याखिलप्रमाणानि स विष्णुर्गर्भगस्तव ॥ १९ ॥ त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे । त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ २० ॥ प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु । प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥ २१ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे द्वितीयोऽध्यायः (२) |