॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ पञ्चमोऽध्यायः ॥

श्रीपराशर उवाच
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ १ ॥
वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् ।
वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ २ ॥
दत्तो हि वार्षिकःसर्वो भवद्‌‍भिर्नृपतेः करः ।
यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥ ३ ॥
यदर्थमागताः कार्यं तन्निष्पन्नं किमास्यते ।
भवद्‌‍भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ ४ ॥
ममापि बालकस्तत्र रोहिणी प्रभवो हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः ॥ ५ ॥
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥ ६ ॥
वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥ ७ ॥
यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति ।
तस्यतस्य क्षणेनाङ्‍गं बालकस्योपहन्यते ॥ ८ ॥
कृष्णस्तु तत्स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः ॥ ९ ॥
सातिमुक्तमहारावा विच्छिन्नस्‍नायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १० ॥
तन्नादश्रुतिसन्त्रस्ताः प्रबुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्सङ्‍गे कृष्णं तां च निपातिताम् ॥ ११ ॥
आदाय कृष्णं सन्त्रस्ता यशोदापि द्विजोत्तम ।
गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥ १२ ॥
गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके ।
कृष्णस्य प्रददो रक्षां कुर्वंश्चैतदुदीरयन् ॥ १३ ॥
नन्दगोप उवाच
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्‍भूतपङ्‍कजादभवज्जगत् ॥ १४ ॥
येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् ।
वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥ १५ ॥
नखाङ्‍कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ १६ ॥
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ १७ ॥
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं च जठरं विष्णुर्जङ्‍घे पादौ जनार्दनः ॥ १८ ॥
मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च ।
रक्षत्वव्याहतैश्‍वर्यस्तव नारायणोऽव्ययः ॥ १९ ॥
शार्ङ्‍गचक्रगदापाणेः शङ्‍खनादहताः क्षयम् ।
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ २० ॥
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ २१ ॥
श्रीपराशर उवाच
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्‌‍किकातले ॥ २२ ॥
ते च गोपा महद्दृष्ट्‍वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ २३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे पञ्चमोऽध्यायः (५)

GO TOP