|
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ चतुर्विंशोऽध्यायः ॥
श्रीपराशर उवाच
योऽयं रिपुञ्जयो नाम बार्हद्रथोऽन्त्यस्तस्यामात्यो मुनिको नाम भविष्यति ॥ १ ॥ स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ २ ॥ तस्यापि बलाकनामा पुत्रो भविता ॥ ३ ॥ ततश्च विशाखयूपः ॥ ४ ॥ तत्पुत्रो जनकः ॥ ५ ॥ तस्य च नन्दिवर्धनः ॥ ६ ॥ ततो नन्दी ॥ ७ ॥ इत्येतेऽष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ॥ ८ ॥ ततश्च शिशुनाभः ॥ ९ ॥ तत्पुत्रः काकवर्णो भविता ॥ १० ॥ तस्य च पुत्रः क्षेमधर्मा ॥ ११ ॥ तस्यापि क्षतौजाः ॥ १२ ॥ तत्पुत्रो विधिसारः ॥ १३ ॥ ततश्चाजातशत्रुः ॥ १४ ॥ तस्मादर्भकः ॥ १५ ॥ तस्माच्चोदयनः ॥ १६ ॥ तस्मादपि नन्दिवर्धनः ॥ १७ ॥ ततो महानन्दी ॥ १८ ॥ इत्येते शैशुनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ १९ ॥ महानन्दिनस्ततः शूद्रगर्भोद्भवोति लुब्धोतिबलो महापद्मनामा नन्दः परशुराम इवापरोऽखिलक्षत्रान्तकरी भविष्यति ॥ २० ॥ ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ २१ ॥ स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ २२ ॥ तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ २३ ॥ तस्य महापद्मस्यानुपृथिवीं भोक्ष्यन्ति ॥ २४ ॥ महापद्मपुत्राश्चैकं वर्षशतमवनीपतयो भविष्यन्ति ॥ २५ ॥ ततश्च नवचैतान्नन्दान् कौटिल्यो ब्राह्मणः समुद्धरिष्यति ॥ २६ ॥ तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ २७ ॥ कौटिल्य एव चन्द्रगुप्तमुत्पन्नं राज्येऽभिषेक्ष्यति ॥ २८ ॥ तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ २९ ॥ तस्याप्यशोकवर्धनस्ततः सुयशास्ततश्च दशरथस्ततश्च संयुतस्ततः शालिशुकस्तस्मात्सोमशर्मा तस्यापि सोमशर्मणः शतधन्वा ॥ ३० ॥ तस्यानुबृहद्रथनामा भविता ॥ ३१ ॥ एवमेते मौर्या दश भूपतयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ ३२ ॥ तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ ३३ ॥ पुष्यमीत्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ॥ ३४ ॥ तस्मात्सुज्येष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्कस्मादपि वज्रमित्रस्ततो भगवतः ॥ ३५ ॥ तस्माद्देवभूतिः ॥ ३६ ॥ इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ ३७ ॥ ततः कण्वानेषाभूर्यास्यति ॥ ३८ ॥ देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ ३९ ॥ तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ ४० ॥ नारायणात्मजःसुशर्मा ॥ ४१ ॥ एते काण्वायनाश्चत्वारः पञ्चचत्वारींशद्वर्षाणि भूपतयो भविष्यन्ति ॥ ४२ ॥ सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्ध्रजातीयो वसुधां भोक्ष्यति ॥ ४३ ॥ ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ ४४ ॥ तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्णोत्सङ्गस्तत्पुत्रः शातकर्मिस्तस्माच्च लम्बोदरः तस्माच्च पिलकस्ततो मेघस्वातिः स्ततः पटुमान् ॥ ४५ ॥ ततश्चारिष्टकर्मा ततो हालाहलः ॥ ४६ ॥ हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुन्दरस्ततःशातकर्णिः शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ॥ ४७ ॥ तस्यापि शान्तकर्णिस्ततः शिवश्रितस्तश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चन्द्रश्रीः ॥ ४८ ॥ तस्मात्पुलोमाचिः ॥ ४९ ॥ एवमेते त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति आन्ध्रभृत्या ॥ ५० ॥ सप्ताभीरप्रभृतयो दश गर्दभिलाश्च भूभुजो भविष्यन्ति ॥ ५१ ॥ ततःषोडश भूपतयो भवितारः ॥ ५२ ॥ ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुण्डाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीं दशवर्षशातानि नवत्यधिकानि भोक्ष्यन्ति ॥ ५३ ॥ ततश्च एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोक्ष्यन्ति ॥ ५४ ॥ तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ ५५ ॥ तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्माद्धर्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भ्राता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो भविष्यन्ति ॥ ५६ ॥ ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः ॥ ५७ ॥ ततः पुष्पमित्राः पटुमियत्रास्त्रयोदशैकलाश्च सप्तान्ध्राः ॥ ५८ ॥ ततश्च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ ५९ ॥ नैषधास्तु त एव ॥ ६० ॥ मगधायां तु विश्वस्फटिक संज्ञोऽन्यान्वर्णान्करिष्यति ॥ ६१ ॥ कैवर्तवटुपुलिन्दब्राह्मणान्राज्ये स्थपयिष्यति ॥ ६२ ॥ उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गयायाञ्च मागधा गुप्तांश्च भोक्ष्यन्ति ॥ ६३ ॥ कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ ६४ ॥ कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ ६५ ॥ नैषधनैमिषक कालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति ॥ ६६ ॥ त्रैराज्यमुषिकजनपदान् कनकाह्वयो भोक्ष्यति ॥ ६७ ॥ सौराष्ट्रावन्ति शुद्राभीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ ६८ ॥ सिन्धुतटदाविकोर्वीचन्द्रभागा काश्मीरविषयांश्च व्रात्यम्लेच्छस्कूद्रादयो भोक्ष्यन्ति ॥ ६९ ॥ एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ ७० ॥ अल्पप्रसादा बृहत्कोपाः सार्वकालमनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोऽल्पसाराः तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ ७१ ॥ तैश्च विमिश्रा नजपदाः तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ ७२ ॥ ततश्चानुदिनं अल्पाल्पह्रासव्यवच्छेदाद् धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ ७३ ॥ ततश्चार्थ एवाभिजनहेतुः ॥ ७४ ॥ बलमेवाशेषधर्महेतुः ॥ ७५ ॥ अभिरुचिरेव दाम्पत्यसम्बन्धहेतुः ॥ ७६ ॥ स्त्रीत्वमेवोपभोगहेतुः ॥ ७७ ॥ अनृतमेव व्यवहारजयहेतुः ॥ ७८ ॥ उन्नताम्बुतैव पृथिवीहेतुः ॥ ७९ ॥ ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ ८० ॥ रत्नधातुतैव श्लाघ्यताहेतुः ॥ ८१ ॥ लिङ्गधाराणमेवाश्रमहेतुः ॥ ८२ ॥ अन्याय एव वृत्तिहेतुः ॥ ८३ ॥ दौर्बल्यमेवावृत्तिहेतुः ॥ ८४ ॥ अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ ८५ ॥ अनाढ्यतैव साधुत्वहेतुः ॥ ८६ ॥ स्त्रानमेव प्रसाधनहेतुः ॥ ८७ ॥ दानमेव धर्महेतुः ॥ ८८ ॥ स्वीकरणमेव विवाहहेतुः ॥ ८९ ॥ सद्वेषधार्येव पात्रम् ॥ ९० ॥ दूरायतननोदकमेव तीर्थहेतुः ॥ ९१ ॥ कपटवेषधारणमेव महत्त्वहेतुः ॥ ९२ ॥ इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्वावर्णेष्वेव यो यो बलवान्स स भूपतिर्भविष्यति ॥ ९३ ॥ एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ ९४ ॥ मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यन्ति ॥ ९५ ॥ तरुवल्कलपर्णचीर प्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश्च भविष्यन्ति ॥ ९६ ॥ न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ ९७ ॥ श्रौते स्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेष जगत्स्त्रष्टुश्चराचरगुरोरादि मध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शम्बलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गृहेष्टगुणर्धिसमन्वितः कल्किरूपी जगत्यत्रावतीर्य सकल म्लेच्छदस्युदुष्टाचरमचेतसां अशेषाणां अपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ ९८ ॥ अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानां अमलस्फटिकविशुद्धा मतयो भविष्यन्ति ॥ ९९ ॥ तेषां च बीजभूतानां अशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ १०० ॥ तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ १०१ ॥ अत्रोच्यते यथा चन्द्रश्च सूर्यश्च तथा तिष्यो बृहस्पतिः । एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ १०२ ॥ अतीता वर्तमानाश्च तथैवानागताश्च ये । एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ १०३ ॥ यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ १०४ ॥ सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि । तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ १०५ ॥ तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् । ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ १०६ ॥ तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः ॥ १०७ ॥ यदैव भगवान्विष्णोरंशो यातो दिवं द्विज । वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ १०८ ॥ यावत्स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् । तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ १०९ ॥ गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् । तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ ११० ॥ विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः । याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ १११ ॥ प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः । तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ ११२ ॥ यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि । प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ ११३ ॥ त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया । षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ ११४ ॥ शातानि तानि दिव्यानां सप्त पञ्च च संख्यया । निःशेषेण गते तस्मिन् भविष्यति पुनः कृतम् ॥ ११५ ॥ ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश्च द्विजसत्तम । युगेयुगे महात्मानः समतीताः सहस्रशः ॥ ११६ ॥ बहुत्वान्नामधेयानां परिसंख्या कुले कुले । पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्तिता ॥ ११७ ॥ देवापिः पौरवो राजा पुरुश्चेक्षाकुवंशजः । महायोगबलोपेतौ कलापग्रमसंश्रितौ ॥ ११८ ॥ कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ । भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ ११९ ॥ एतेन क्रमयोगेन मनुपुत्रौर्वसुन्धरा । कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ १२० ॥ कलौ ते बीजभूता वै केचित्तिष्ठन्ति वै मुने । यथैव देवापिपुरू साम्प्रतं समधिष्ठितौ ॥ १२१ ॥ एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया । निखिलो गदितुं शक्यो नैष वर्षशतैरपि ॥ १२२ ॥ एते चान्ये च भूपाला यैरत्र क्षितिमण्डले । कृतं ममत्वं मोहान्धैर्नित्यं हेयकलेवरे ॥ १२३ ॥ कथं ममेयमचला मत्पुत्रस्य कथं मही । मद्वंशस्येति चिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ १२४ ॥ तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे । भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यनु ॥ १२५ ॥ विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् । पुष्पप्रहासैः शरदि हसन्तीव वसुन्धरा ॥ १२६ ॥ मैत्रेय पृथिवीगीताञ्च्लोकांश्चात्र निबोध मे । यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ १२७ ॥ पृथिव्युवाच कथमेष नरेद्राणां मोहो बुद्धिमतामपि । येन फेनसधर्माणोऽप्यतिविश्वस्तचेतसः ॥ १२८ ॥ पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ १२९ ॥ क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ १३० ॥ समुद्रावरणं याति भूमण्डलमथो वशम् । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ १३१ ॥ उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ १३२ ॥ मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः । जायतेऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ १३३ ॥ पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् । यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ॥ १३४ ॥ दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् । तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ १३५ ॥ पृथ्वी ममैषाशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ १३६ ॥ श्रीपराशर उवाच इत्येते धरणीगीतः श्लोका मैत्रेय यैः श्रुताः । ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ १३७ ॥ इत्येष कथितः सम्यङ्मनोर्वंशो मया तव । यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ १३८ ॥ शृणोति य इमं भक्त्या मनोर्वंशमनुक्रमात् । तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ १३९ ॥ धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः । श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ १४० ॥ इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् । ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् ॥ १४१ ॥ महाबलान्महावीर्याननन्तधनसञ्चयान् । कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ १४२ ॥ श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा । द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ १४३ ॥ तप्तं तपो यैः पुरुषप्रवीरै- रुद्बाहुभिर्वर्षगणाननेकान् । इष्ट्वा सुयज्ञैर्बलिनोऽतिवीर्याः कृता नु कालेन कथावशेषाः ॥ १४४ ॥ पृथुःसमस्तान्विचचार लोका- नव्याहतो योविजितारिचक्रः । स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ १४५ ॥ यः कार्तवीर्यो बुभुजे समस्ता- न्द्वीपान्समाक्रम्य हतारिचक्रः । कथाप्रसङ्गेष्वभिधीयमानः स एव संकल्पविकल्पहेतुः ॥ १४६ ॥ दशाननाविक्षतराघवाणा- मैश्वर्यमुद्भासितदिङ्मुखानाम् । भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ १४७ ॥ कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती । श्रुत्वापि तत्कोहि करोति साधु- र्ममत्वमान्मन्यपि मन्दचेताः ॥ १४८ ॥ भगीरथाद्याःसगरं ककुत्स्थो दशाननो राघवलक्ष्मणौ च । युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ १४९ ॥ ये साम्प्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः । एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ १५० ॥ एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन । तिष्ठन्तु तावत्तनयात्मजाद्याः क्षेत्रादयो ये च शरीरिणोऽन्ये ॥ १५१ ॥ इति श्रीविष्णुमहापुराणे चतुर्थेंऽशे चतुर्विंशोऽध्यायः (२४) श्रीविष्णुमहापुराणे चतुर्थांऽशः समाप्तः |