॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ अष्टादशोऽध्यायः ॥

श्रीपराशर उवाच
ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ १ ॥ सभानलपुत्रः कालानलः ॥ २ ॥
कालानलात्सृंजयः ॥ ३ ॥
सृंजयात् पुरञ्जयः ॥ ४ ॥
पुरञ्जयाज्जनमेजयः ॥ ५ ॥
तस्मान्महाशालः ॥ ६ ॥
तस्माच्च महामनाः ॥ ७ ॥
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ८ ॥
उशीनरस्यापि शिबिनृगनवकृमिवर्माख्याः पञ्च पुत्रा बभूवुः ॥ ९ ॥
पृषदर्भसुवीरकेकयमद्रकाश्चत्वारः शबिपुत्राः ॥ १० ॥
तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ११ ॥
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ १२ ॥
यस्य क्षेत्रे दीर्घतमस अङ्‍गवङ्‍गकलिङ्‍ग सुह्यपौण्ड्राख्यं वालेयं क्षत्रमजन्यत ॥ १३ ॥
तन्नामसन्तसतिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ १४ ॥
अङ्‍गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ १५ ॥
ततश्चित्ररथः रोमपादसंज्ञः ॥ १६ ॥
यस्य दशरथो मित्रं जज्ञे ॥ १७ ॥
यस्याजपुत्रो दशरथः शान्तां नाम कन्यां अनपत्यस्य दुहितृत्वे युयोज ॥ १८ ॥
रोमपादाच्चतुरङ्‍गः तस्मात्पृथुलाक्षः ॥ १९ ॥
ततश्चम्पः यश्चम्पां निवेशायामास ॥ २० ॥
चम्पस्य हर्यङ्‍गो नामात्मजोऽभूत् ॥ २१ ॥
हर्यङ्‍गाद्‍भद्ररथः भद्ररथाद्‍बृहद्रथः बृहद्रथाद्‍बृहत्कर्मा बृहत्कर्मणश्च वृहद्‍भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ २२ ॥
जयद्रथो ब्रहमक्षत्रान्तरालसम्भूत्यां पत्‍न्यां विजयं नाम पुत्रमजीजनत् ॥ २३ ॥
विजयश्च धृतिं पुत्रमवाप ॥ २४ ॥
तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ २५ ॥
धृतव्रतात्सत्यकर्मा ॥ २६ ॥
सत्यकर्मणस्त्वतिरथः ॥ २७ ॥
यो गङ्‍गाङ्‍गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ २८ ॥
कर्णाद्वृषसेनः इत्येतदन्ता अङ्‍गवंश्याः ॥ २९ ॥
अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ३० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः (१८)


GO TOP