॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ सप्तदशोऽध्यायः ॥

श्रीपराशर उवाच
द्रुह्योस्तु तनयो बभ्रुः ॥ १ ॥
बभ्रोःसेतुः ॥ २ ॥
सेतुपुत्र आरब्धनामा ॥ ३ ॥
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात् घृतः घृतात् दुर्दमस्ततः प्रचेताः ॥ ४ ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानां उदीच्यानामाधिपत्यमकरोत् ॥ ५ ॥
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७)


GO TOP