|
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ एकोनविंशोऽध्यायः ॥
श्रीपराशर उवाच
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युः मनस्योश्चाभयदस्तस्यापि सुद्युः सुद्योर्बहुगतस्तस्यापि संयातिः संयातेरहंयातिस्ततो रौद्राश्वः ॥ १ ॥ ऋतेषुकक्षेषुस्थण्डिलेषु कृतेषुजलेषु धर्मेधृतेषुस्थलेषु सन्नतेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ २ ॥ ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥ सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥ अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥ तस्यापि मेधातिथिः ॥ ६ ॥ यतः कण्वायना द्विजा बभूवुः ॥ ७ ॥ अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥ एलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥ दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥ यन्नामहेतुर्देवैः श्लेको गीयते ॥ ११ ॥ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ १२ ॥ रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥ भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ १४ ॥ नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः ॥ १५ ॥ ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पति वीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ १६ ॥ तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥ मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ १७ ॥ भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तस्ततो वितथसंज्ञामवाप ॥ १९ ॥ वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥ बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥ नगरस्य संकृतिः संकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥ गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ २३ ॥ महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥ तस्य त्रय्यारुणिः पुष्करिण्यो कपिश्च पुत्रक्षयमभूत् ॥ २५ ॥ तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ २६ ॥ बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥ सुहोत्रद्धस्ती य इदं हस्तिनपुरमावासयामास ॥ २८ ॥ अजमीढद्विजमीढास्त्रयो हस्तिनस्तनयाः ॥ २९ ॥ अजमीढात्कण्वः ॥ ३० ॥ कण्वान्मेधातिथिः ॥ ३१ ॥ यतः कण्वायना द्विजाः ॥ ३२ ॥ अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ३३ ॥ बृहदिषोर्बृहद्धनुः बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथः तस्मादपिविश्वजित् ॥ ३४ ॥ ततश्च सेनजित् ॥ ३५ ॥ रुचिराश्वकाश्यदृढहनुवत्स हनुसंज्ञाःसेनजितः पुत्राः ॥ ३६ ॥ रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ३७ ॥ पारान्नीलः ॥ ३८ ॥ तस्यैकशतं पुत्राणाम् ॥ ३९ ॥ तेषां प्रधानः काम्पिल्याधिपतिःसमरः ॥ ४० ॥ समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ॥ ४१ ॥ सुपारात्पृथुः पृथोःसुकृतिस्ततो र्विभ्राजः ॥ ४२ ॥ तस्माच्चाणुहः ॥ ४३ ॥ यः शुकदुहितरं कीर्ति नामोपयेमे ॥ ४४ ॥ अणुहाद्ब्रह्मदत्तः ॥ ४५ ॥ ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४६ ॥ भल्लाभस्तस्य चात्मजः ॥ ४७ ॥ द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥ तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ ४९ ॥ सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ५० ॥ यं हिरण्यनाभो योगमध्यापयामास ॥ ५१ ॥ यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ॥ ५२ ॥ कृताच्चोग्रायुधः ॥ ५३ ॥ येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥ उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्मादरिपुञ्जयस्तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥ अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥ तस्मादपि शान्तिः शान्तेः सुशान्तिः सुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ५७ ॥ ततश्च हर्यश्वः ॥ ५८ ॥ तस्मान्मुद्गल सृंजय बृहदिषु यवीनर काम्पिल्य संज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥ मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥ मुद्गलाद्बृहदश्वः ॥ ६१ ॥ बृहदश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥ शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥ शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥ सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तम्बे पपात ॥ ६५ ॥ तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥ तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥ ततः कृपः कुन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥ दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥ मित्रायोश्चयवनो नाम राजा ॥ ७० ॥ च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ७१ ॥ सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ७२ ॥ तेषां यवीयान् पृषतः पृषताद् द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ७३ ॥अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥ तस्य संवरणः ॥ ७५ ॥ संवरणात्कुरुः ॥ ७६ ॥ य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥ सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः बभूवुः ॥ ७८ ॥ सुधनुषः पुत्रःसुहोत्रस्तस्माच्च्यवनश्च्यवनात् कृतकः ॥ ७९ ॥ ततश्चोपरिचरो वसुः ॥ ८० ॥ बृहद्रथ प्रत्यग्र कुशाम्ब कुचेलमात्स्यप्रमुखाः वसोः पुत्राः सप्ताजायन्त ॥ ८१ ॥ बृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात् पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥ बृहद्रथाच्चान्यः शकलद्वयजन्मा जरया सन्धितो जरासन्धनामा ॥ ८३ ॥ तस्मात्सहदेवः सहदेवात्सोमपः ततश्च श्रुतिश्रवाः ॥ ८४ ॥ इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः (१९) |