॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ पञ्चदशोऽध्यायः ॥

मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ १ ॥
न लयं तत्र तेनैव निहतः स कथं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ २ ॥
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृतां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ३ ॥
श्रीपराशर उवाच
दैत्येश्वरस्य वधाय अखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४ ॥
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ५ ॥
निरतिशय पुण्यसमुद्‍भूतमेतत् सत्त्वाजातमिति ॥ ६ ॥
रजोद्रेकप्रेरितैकाग्रमतिः तद्‍भावनायोगात् ततोवाप्तवधहैतुकीं निरतिशयामेव अखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसम्पदमवाप ॥ ७ ॥
न तु स तस्मिन् अनादिनिधने परब्रह्मभूते भगवत्यनालम्बिनि कृते मनसस्तल्लयमवाप ॥ ८ ॥
एवं दशाननत्वेपि अनङ्‍गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्‍रूपदर्शनमेवासीत् नायमच्युत इत्यासक्तिर्विपद्यतोंऽतःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ९ ॥
पुनरपि अच्युतविनिपातमात्रफलं अखिलभूमण्डल श्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ १० ॥
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्‍कारकारणमभवत् ॥ ११ ॥
ततश्च तत्कालकृतानां तेषामशेषणामेव अच्युतनाम्नामनवरतं अनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसन्तर्जनादिषु उच्चारणमकरोत् ॥ १२ ॥
तच्च रूपमुत्फुल्लपद्मदलामलाक्षिं अत्युज्ज्वलपीतवस्त्रधार्य मलकिरिटकेयूरहारकटकादि शोभितमुदारचतुर्बाहु शङ्‍खचक्रगदाधरमति प्ररूढवैरानुभावाद् अटनभोजनस्नानासनशयनादिषु अ्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ १३ ॥
ततस्तमेवाक्रोशेषु उच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद् भगवद्धस्तचक्रांशु मालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ १४ ॥
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरण दग्धाखिलाघसञ्चयो भगवतान्तं उपनीतस्ततस्मिन्नेव लयमुपययौ ॥ १५ ॥
एतत्तवाखिलंमयाभिहितम् ॥ १६ ॥
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलमुरासुरादिदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमतामिति ॥ १७ ॥
वसुदेवस्य त्वानकदुन्दुभेः पौरवी रोहिणी मदिरा भद्रादेवकीप्रमुखा बह्व्यः पत्‍न्योऽभवन् ॥ १८ ॥
बलभद्र शठ सारण दुर्मदादीन् पुत्रान् रोहिण्यां आनकदुन्दुभिरुत्पादयामास ॥ १९ ॥
बलदेवोऽपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ २० ॥
सार्ष्टिमार्ष्टिशिशु सत्यधृतिप्रमुखाः सारणात्मजाः ॥ २१ ॥
भद्राश्व भद्रबाहु दुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ २२ ॥
नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ २३ ॥
भद्रायाश्चोपनिधिगदाद्याः ॥ २४ ॥
वैशाल्यां च कौशिकं एकमेवाजनयत् ॥ २५ ॥
आनकदुन्दुभेर्देवक्यामपि कीर्तिमत्सुषेणोदायु भद्रसेनऋजदासभद्रदेवाख्याः षट् पुत्रा जज्ञिरे ॥ २६ ॥
तांश्च सर्वानेव कंसोघातितवान् ॥ २७ ॥
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहिता योगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ २८ ॥
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ २९ ॥
ततश्च सकलजगन्महातरुमूलभूतो भूतभविष्यदादि सकलसुरासुर मुनिजन मनसामप्यगोचरोऽब्जभवप्रमुखैः अनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनो देवकीगर्भमवततार वासुदेवः ॥ ३० ॥
तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्‍न्या यशोदाया गर्भमधितिष्ठितवती ॥ ३१ ॥
सुप्रसन्नादित्य चन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसं अखिलमेवैतद् जगदपास्ताधर्ममभवत् तत्स्मिंश्च पुण्डरीकनयने जायमाने ॥ ३२ ॥
जातेन च तेनाखिलं एवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ३३ ॥
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राणि एकोत्तरशताधिकानि भार्याणामभवन् ॥ ३४ ॥
तासां च रुक्मिणी सत्यभामा जाम्बवती चारुहासिनीप्रमुखा ह्यष्टौ पत्‍न्यः प्रधाना बभूचवुः ॥ ३५ ॥
तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवान् अखिलमूर्तिरनादिमानजनयत् ॥ ३६ ॥
तेषां च प्रद्युम्न चारुदेष्ण्यसाम्बादयस्त्रयोदश प्रधानाः ॥ ३७ ॥
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ३८ ॥
तस्यामनिरुद्धो जज्ञे ॥ ३९ ॥
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ ४० ॥
तस्यामस्य वज्रो जज्ञे ॥ ४१ ॥
वज्रस्य प्रतिबाहुस्तस्यापि सुचारुः ॥ ४२ ॥
एवं अनेकशतसहस्र पुरुषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४३ ॥
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४४ ॥
तिस्त्रः कोट्यःसहस्राणां अष्टाशीति शतानि च ।
कुमाराणां गृहाचार्याश्चापयोगेषु ये रताः ॥ ४५ ॥
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४६ ॥
देवासुरे हता ये तु दैतेयाःसुमहाबलाः ।
उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिणः ॥ ४७ ॥ रेषामुत्सादनार्थाय भुवि देवा यदोः कुले । अवतीर्णाः कुलशतं यत्रैकाभ्यधिकं द्विज ॥ ४८ ॥ विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ४९ ॥
इति प्रसूतिं वृष्णीनां यः शृणोति नरः सदा ।
स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ५० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः (१५)


GO TOP