॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ चतुर्दशोऽध्यायः ॥

श्रीपराशर उवाच
अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ १ ॥
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ २ ॥
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ३ ॥
इत्येते शैनेयाः ॥ ४ ॥
अनमित्रस्यान्वये पृष्णिस्तस्मात् श्चफल्कस्तत्प्रभावः कथित एव ॥ ५ ॥
श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ६ ॥
श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ७ ॥
तथोपमद्‍ गुपमद्‍गोर्मृदामृद विश्वारिमेजय गिरिक्षत्रोप क्षत्रशतघ्नारिमर्दन धर्मदृग्दृष्टधर्म गन्धमोजवाह प्रतिवाहाख्या पुत्राः ॥ ८ ॥
सुताराख्या कन्या च ॥ ९ ॥
देववानुपदेवश्चाक्रूरपुत्रौ ॥ १० ॥
पृथुवि पृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ११ ॥
कुकुरभजमान शुचिकम्बलबर्हिषाख्याः तथान्धकस्य चत्वारः पुत्राः ॥ १२ ॥
कुकुराद्धृष्टस्तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुम्बुरसखोऽभवदनुसंज्ञश्च ॥ १३ ॥
अनोरानकदुन्दभिः ततश्चाभिजित् अभिजितः पुनर्वसुः ॥ १४ ॥
तस्याप्याहुकः आहुकी च कन्या ॥ १५ ॥
आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ १६ ॥
देववानुपदेवः सहदेवो देवरक्षितच देवकस्य चत्वारः पुत्राः ॥ १७ ॥
तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ १८ ॥
ताश्च सर्वा वसुदेव उपयेमे ॥ १९ ॥
उग्रसेनस्यापि कंसन्यग्रोध सुनामानकाह्वशङ्‍कुसु भूमिराष्ट्रपाल युद्धतुष्टि सुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ २० ॥
कंसाकंसवतीसु तनूराष्ट्रपलिकाह्वाश्च उग्रसेनस्य तनूजाः कन्याः ॥ २१ ॥
भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ २२ ॥
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयम्भोजः ततश्च हृदिकः ॥ २३ ॥
तस्यापि कृतवर्म शतधनुर्दवार्ह देवगर्भाद्याः पुत्रा बभूवुः ॥ २४ ॥
देवगर्भस्यापि शुरः ॥ २५ ॥
शुरस्यापि मारीषा नाम पत्‍न्यभवत् ॥ २६ ॥
तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ २७ ॥
वसुदेवस्य जातमात्रस्यैव तद्‍गृहे भगवदंशावतारं अव्याहतदृष्ट्या पश्यद्‍भिर् देवैर् दिव्यानकदुन्दुभयो वादिताः ॥ २८ ॥
ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ २९ ॥
तस्य च देवभाग देवश्रवाष्टक ककुच्चक्र वत्सधारक सृंजयश्याम शमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ ३० ॥
पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ३१ ॥
शुरस्य कुन्तिर्नाम सखाभवत् ॥ ३२ ॥
तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ३३ ॥
तां च पाण्डुरुवाह ॥ ३४ ॥
तस्यां च धर्मानिलेन्द्रैर् युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ३५ ॥
पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ३६ ॥
तस्याश्च सपत्‍नी माद्री नामाभूत् ॥ ३७ ॥
तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ३८ ॥
श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ३९ ॥
तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४० ॥
श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४१ ॥
तस्यां च सन्तर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४२ ॥
राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४३ ॥
श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४४ ॥
तस्यां च शिशुपालमुत्पादयामास ॥ ४५ ॥
स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४६ ॥
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४७ ॥
पुनरपि अक्षयवीर्य शौर्यसम्पत्पराक्रमगुणःसमाक्रान्त सकलत्रैलोकेश्वर प्रभावो दशाननो नामाभूत् ॥ ४८ ॥
बहुकालोपभुक्त भगवत्सकाशावाप्त शरीरपातोद्‍भव पुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४९ ॥
पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ५० ॥
शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ५१ ॥
भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ५२ ॥
भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ५३ ॥
इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः (१४)


GO TOP