|
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ त्रयोदशोऽध्यायः ॥
श्रीपराशर उवाच
भजनभजमानदिव्यान्धक देवावृधमहाभोज वृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः ॥ १ ॥ भजमानस्य निमिकृकणवृष्मयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिद् अयुतजित्संज्ञास्त्रयः ॥ २ ॥ देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ॥ ३ ॥ तयोश्चायं श्लोको गीयते ॥ ४ ॥ यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् । बभ्रुः श्रोष्ठो मनुष्याणां देवैर्देवावृधःसमः ॥ ५ ॥ पुरुषाः षट् च षष्टिश्च षट् सहस्राणि चाष्ट च । तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ ६ ॥ महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्ति कावरपुरनिवासिनो मार्तिकावरा बभूवुः ॥ ७ ॥ वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ॥ ८ ॥ ततश्चानमित्रस्तथानमित्रान्निघ्नः ॥ ९ ॥ निघ्नस्य प्रसेन सत्राजितौ ॥ १० ॥ तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ ११ ॥ एकदा त्वम्भोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ ॥ १२ ॥ ततस्त्वस्पष्टमूर्तिधरं चैनमालोक्य सत्राजित्सूर्यमाह ॥ १३ ॥ यथैव व्योम्नि वह्निपिण्डोपमं त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥ १४ ॥ ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदा पिङ्गलनयनमादित्यमद्राक्षीत् ॥ १५ ॥ कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यः सहस्रदीधितिः वरमस्मत्तोऽभिमतं वृणीष्वेति ॥ १६ ॥ स च तदेव मणिरत्नमयाचत ॥ १७ ॥ स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह ॥ १८ ॥ सत्राजिदऽप्यमलमणिरत्न सनाथकण्ठतया सूर्य इव तेजोभिः अशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश ॥ १९ ॥ द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिणं प्रणिपत्याह ॥ २० ॥ भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥ २१ ॥ भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥ २२ ॥ तदेनं विश्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥ २३ ॥ स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥ २४ ॥ प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान् स्त्रवति ॥ २५ ॥ तत्प्रभावाच्च सकलस्यैव राष्ट्रस्य उपसर्गानावृष्टिव्यालाग्निचोर दुर्भिक्षादिभयं न भवति ॥ २६ ॥ अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥ २७ ॥ गोत्रभेदभयाच्छक्तोऽपि न जहार ॥ २८ ॥ सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ २९ ॥ तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेन अश्वमारुह्याटव्यां मृगयामगच्छत् ॥ ३० ॥ तत्र च सिंहाद्वधमवाप ॥ ३१ ॥ साश्वं च तं निहत्य सिंहोऽप्यमलमणिरत्नमास्याग्रेणादंय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जाम्बवता दृष्टो घातितश्च ॥ ३२ ॥ जाम्बवानप्यमलमणिरत्नमादाय स्वबिले प्रविवेश ॥ ३३ ॥ सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ॥ ३४ ॥ अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तवान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याकथयत् ॥ ३५ ॥ विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ॥ ३६ ॥ ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ॥ ३७ ॥ अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ॥ ३८ ॥ ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्च तद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥ ३९ ॥ गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥ ४० ॥ अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥ ४१ ॥ सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ ४२ ॥ इत्याकर्ण्योपलब्धस्यमन्तकोऽतः प्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वल्यमानं स्यमन्तकं ददर्श ॥ ४३ ॥ तं च स्यमन्तकाभिलषित चक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ॥ ४४ ॥ तदार्तरवश्रवणानन्तरं चामर्षपूर्णहृदयः स जाम्बवानाजगाम ॥ ४५ ॥ तयोश्च परस्परमुद्धतामर्षयोर्युद्धं एकविंशतिदिनान्यभवत् ॥ ४६ ॥ ते च यदुसैनिकास्तत्र सप्ताष्टदिनानि तन्निष्क्रान्तिमुदिक्षमाणास्तस्थुः ॥ ४७ ॥ अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥ ४८ ॥ तद्बान्धवाश्च तत्कालोचितं अखिलमुत्तरक्रियाकलापं चक्रुः ॥ ४९ ॥ ततश्चास्य युद्ध्यमानस्याति श्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टचिरभूत् ॥ ५० ॥ इतरस्य अनुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुर प्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ ५१ ॥ निर्जितश्च भगवता जाम्बवानप्रणिपत्य व्याजहार ॥ ५२ ॥ सुरासुरगन्धर्व यक्षराक्षलसादिभिः अप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैः अल्पवीर्यैर्नरैर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थं अवतरणमाचचक्षे ॥ ५३ ॥ प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥ ५४ ॥ स च प्रणिपत्य पुनरप्येनं प्रसाद्य जाम्बवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ॥ ५५ ॥ स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥ ५६ ॥ अच्युतोऽप्यतिप्रणतात् तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह ॥ ५७ ॥ सह जाम्बवत्या स द्वारकामाजगाम ॥ ५८ ॥ भगवदागमनोद्भूत हर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात् तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥ ५९ ॥ दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ॥ ६० ॥ भगवानपि यथानुभूतमशेषं यादवसमाजे यथावदाच्चक्षे ॥ ६१ ॥ स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥ ६२ ॥ जाम्बवतीं चान्तःपुरं निवेशयामास ॥ ६३ ॥ सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसन्त्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ॥ ६४ ॥ तां चाक्रूरकृतवर्म शतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥ ६५ ॥ ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः ॥ ६६ ॥ अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ॥ ६७ ॥ अयमतीव दुरात्मा सत्राजिद् योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान् ॥ ६८ ॥ तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवं उक्तस्तथेत्यसावप्याह ॥ ६९ ॥ जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्न शौथिल्यकरणार्थं पार्थानुकूल्यकरणाय वारणावतं गतः ॥ ७० ॥ गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ ७१ ॥ पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितस्तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ॥ ७२ ॥ तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥ ७३ ॥ तया चैवमुक्ताः परीतुष्टान्तः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ॥ ७४ ॥ सत्ये ममैवैषापहासना नाहमेतां तस्य दुरात्मनःसहिष्ये ॥ ७५ ॥ न ह्यनुल्लङ्घ्य परपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनास्मत्पुरतः शोकप्रोरितवाक्य परिकरेणेत्युक्त्वा द्वारकामभ्येत्येकान्ते बलदेवं वासुदेवः प्राह ॥ ७६ ॥ मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥ ७७ ॥ सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ॥ ७८ ॥ तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ॥ ७९ ॥ तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विप्सितवान् ॥ ८० ॥ कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरमकर्मनिमित्तमचोदयत ॥ ८१ ॥ आह चैनं कृतवर्मा ॥ ८२ ॥ नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ ८३ ॥ असावप्याह ॥ ८४ ॥ न हि कश्चिद्भगवता पादप्रहार परिकम्पितजगत्त्रयेण सुररिषुवनिता वैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदित नयनावलोकनाखिलनिशातनेन अतिगुरुवैरिवारणापकर्षणा विकृतमहिमोरुसीरेण सीरिणा च सह सकलजगद् वन्द्यानाममरवराणामपि योद्धुं समर्थः किमुताहं ॥ ८५ ॥ तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह ॥ ८६ ॥ यद्यस्मत्परित्राणासमर्थं भवानात्मनमधिगच्छति तदयमस्मत्तस्तावन्मणिः सङ्गृह्य रक्ष्यतामिति ॥ ८७ ॥ एकमुक्तः सोऽप्याह ॥ ८८ ॥ यद्यन्त्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ॥ ८९ ॥ तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥ ९० ॥ शतधनुरप्यतुलवेगां शतयोजनवाहिनीं वडवामारुह्यपक्रान्तः ॥ ९१ ॥ शैव्यसुग्रीवमेघपुष्प बलाहकाश्वचतुष्टययुक्त रथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ ॥ ९२ ॥ सा च बडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज ॥ ९३ ॥ शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ ९४ ॥ कृष्णोपि बलभद्रमाह ॥ ९५ ॥ तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्घातयामि अत्र हि भूभागे दृष्टदोषाःसभया अतो नैतेऽश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः ॥ ९६ ॥ तथेत्युक्त्वा बलदेवो रथ एव तस्थौ ॥ ९७ ॥ कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद ॥ ९८ ॥ तच्छरीराम्बरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप यदा तदोपगम्य बलभद्रमाह ॥ ९९ ॥ वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमशिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यं इत्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥ १०० ॥ धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिः ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोपि न तस्थौ ॥ १०१ ॥ स विदेहपुरीं प्रविवेश ॥ १०२ ॥ जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥ १०३ ॥ स तत्रैव च तस्थौ ॥ १०४ ॥ वासुदेवोऽपि द्वारकामाजगाम ॥ १०५ ॥ यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनः तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ १०६ ॥ वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिः यादवैः न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिर्विदेहनगरीं गत्वा बलदेवःसम्प्रत्याय्य द्वारकामानीतः ॥ १०७ ॥ अक्रूरोप्युत्तममणिसमुद्भूतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज ॥ १०८ ॥ सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्महा भवतीत्येवम्प्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ ॥ १०९ ॥ द्विषष्टिवर्षाण्येव तन्मणिप्रभावात् तत्रोपसर्ग दुर्भिक्षमारिकामरणादिकं नाभूत् ॥ ११० ॥ अथाक्रूरपक्षीयैः भोजैः शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः ॥ १११ ॥ तदपक्रान्तिदिनादारभ्य तत्रोपसर्ग दुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥ ११२ ॥ अथ यादव बलभद्रोग्रसेनसमवेतो मन्त्रममन्त्रयद् भगवानुरगारिकेतनः ॥ ११३ ॥ किमिदमेकदैव प्रचुरोपद्रवागमनं एतदालोच्यतां इत्युक्तेन्धकनामा यदुवृद्धः प्राह ॥ ११४ ॥ अस्याक्रूरस्य पिता श्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ ११५ ॥ काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष ॥ ११६ ॥ काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ॥ ११७ ॥ सा च कन्या पूर्णेऽपि प्रसूतिकाले नैव निश्चक्राम ॥ ११८ ॥ एवं च तस्य गर्भस्य द्वादशवर्शण्यनिष्क्रामतो ययुः ॥ ११९ ॥ काशीराजश्च तामात्मजां गर्भस्थामाह ॥ १२० ॥ पुत्रि कस्मान्न जायसे निष्क्रम्यतामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमिति चिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार ॥ १२१ ॥ तात यद्येकैकां गां दिने दिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिः वर्षैः अस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामि इत्येद्वचनमाकर्ण्य राजा दिने दिने ब्राह्मणाय गां प्रादात् ॥ १२२ ॥ सापि तावता कालेन जाता ॥ १२३ ॥ ततस्तस्याः पिता गान्दिनीति नाम चकार ॥ १२४ ॥ तां च गान्दिनीं कन्यां श्वफलकायोपकारिणे गृहमागतायार्घ्य भूतांप्रादात् ॥ १२५ ॥ तस्यामयमक्रूरः श्वफलकाज्जज्ञे ॥ १२६ ॥ तस्यैवङ्गुणमिथुनादुत्पत्तिः ॥ १२७ ॥ तत्कथमस्मिन्नपक्रान्तेऽत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥ १२८ ॥ तदयमात्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्य अन्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैः यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफलकपुत्रः स्वपुरमानीतः ॥ १२९ ॥ तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावाद् अनावृष्टिमारिकादुर्भिक्ष व्यालाद्युपद्रवोपशमा बभूवुः ॥ १३० ॥ कृष्णश्चिन्तयामास ॥ १३१ ॥ स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः ॥ १३२ ॥ सुमहांश्चायं अनावृष्टिदुर्भिक्ष मारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः ॥ १३३ ॥ तन्नृनमस्य सकाशे स महामणिः स्यमन्तकाख्यस्तिष्ठति ॥ १३४ ॥ तस्य ह्योवंविधाः प्रभावाः श्रूयन्ते ॥ १३५ ॥ अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥ १३६ ॥ अनल्पोपादानं चास्यासंशयमत्रासौ मणिवरस्तिष्ठितीति कृताध्यवसायो अन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ १३७ ॥ तत्र चोपविष्टोष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसङ्गान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह ॥ १३८ ॥ दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत् सारभूतं स्यमन्तकं रत्नं भवतः तदशेषराष्ट्रोपकरकं भवत्सकाशे तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मान् आशङ्कितवांस्तदस्मत्प्रीतये दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेवे सरत्नःसोचिन्तयत् ॥ १३९ ॥ किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलाम्बर तिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति सञ्चिन्त्य तमखिलजगत्कारणभूतं नारायणमाहाक्रूरः ॥ १४० ॥ भगवन्ममैतत्स्यमन्तकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिः तिकृच्छ्रेणैतावन्तं कालमधारयम् ॥ १४१ ॥ तस्य च धारणशेक्लेनाहं अशेषोपभोगेष्वसङ्गिमानसो न वेद्मि स्वसुखकलामपि ॥ १४२ ॥ एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् ॥ १४३ ॥ तदीदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥ १४४ ॥ ततः स्वोदरवस्त्रनिगोपितमति लघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥ १४५ ॥ ततश्च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥ १४६ ॥ मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥ १४७ ॥ अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥ १४८ ॥ तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त ॥ १४९ ॥ तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विप्सित इति कृतस्पृहोऽभूत् ॥ १५० ॥ ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार ॥ १५१ ॥ बलसत्यावलोकनात् कृष्णोप्यात्मानं गोचक्रान्तरावस्थितमिव मेने ॥ १५२ ॥ सकलयादवसमक्षं चाक्रूरमाह ॥ १५३ ॥ एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ १५४ ॥ एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाममशेषराष्ट्रस्य उपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति ॥ १५५ ॥ अतोऽहमस्य षोडशस्त्रीसहस्र परिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति ॥ १५६ ॥ आर्यबलभद्रेणापि मदिरापानादि अशेषोपभोगपरित्यागः कार्यः ॥ १५७ ॥ तदलं यदुलोकोऽयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥ १५८ ॥ तद्भवानेव धारयितुं समर्थः ॥ १५९ ॥ त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तं एतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥ १६० ॥ ततः प्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यम्नेन आत्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥ १६१ ॥ इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहत अखिलेन्द्रियश्च अखिलपापमोक्षमवाप्नोति ॥ १६२ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशोऽध्यायः (१३) |