॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ द्वादशोऽध्यायः ॥

श्रीपराशर उवाच
क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ १ ॥
ततश्च स्वातिस्ततो रुशङ्‍कू रुशङ्‍कोश्चित्ररथः ॥ २ ॥
तत्तनयः शशिबिन्दुश्चतुर्दशमहारत्‍नेशश्चक्रवर्त्यभवत् ॥ ३ ॥
तस्य च शतसहस्रं पत्‍नी नामभवत् ॥ ४ ॥
दशलक्षसंख्याश्च पुत्राः ॥ ५ ॥
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट् पुत्राः प्रधानाः ॥ ६ ॥
पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ७ ॥
तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ ८ ॥
तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ९ ॥
तस्यापि रुक्मकवचस्ततः परवृत् ॥ १० ॥
तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ ११ ॥
तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ १२ ॥
भार्यावश्यास्तु ये केचिद्‍भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्‍नृपः ॥ १३ ॥
अपुत्रा तस्य सा पत्‍नी शैव्या नाम तथाप्यसौ ।
अपत्यकामोऽपि भयान्‍नान्यां भार्यामविन्दत ॥ १४ ॥
स त्वेकदा प्रभूतरथतुरग गजसंमर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेवारिचक्रमजयत् ॥ १५ ॥
तच्चारिचक्रमपास्त पुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम् ॥ १६ ॥
तस्मिंश्च विद्रुतेऽतित्रासलोलायत लोचनयुगलं त्राहि त्राहि मां ताताम्ब भ्रातरित्याकुलविलापविधुरं स राजकन्यारत्‍नमद्राक्षीत् ॥ १७ ॥
तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ १८ ॥
साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः साम्प्रतं विधिनापत्यकारणं कन्यारत्‍नमुपपादितम् ॥ १९ ॥
तदेतत्समुद्वहामीति ॥ २० ॥
अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ २१ ॥
तयैव देव्या शैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ २२ ॥
अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ २३ ॥
विजयिनं च राजानमशेष पौरभृत्ययरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ २४ ॥
सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्‍भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ २५ ॥
अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ २६ ॥
असावप्यनालोचितोत्तरवचनोऽतिभयात्तामाह स्नुषा ममेयमिति ॥ २७ ॥
अथैनं शैव्योवाच ॥ २८ ॥

नाहं प्रसूता पुत्रेण नान्या पत्‍न्यभवत्तव ।
स्नुषासम्बन्धता ह्येषा कतमेन सुतेन ते ॥ २९ ॥

श्रीपराशर उवाच
इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ ३० ॥
यस्ते जनिष्यत आत्मजस्तस्येयं अनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्‍भूतमृदुहासा तथेत्याह ॥ ३१ ॥
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ३२ ॥
अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृत पुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ३३ ॥
कालेन च कुमारमजीजनत् ॥ ३४ ॥
तस्य च विदर्भ इति पिता नाम चक्रे ॥ ३५ ॥
स च तां स्नुषामुपयेमे ॥ ३६ ॥
तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ३७ ॥
पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवानभवत् ॥ ३८ ॥
रोमपादाद्‍बभ्रुः बभ्रोर्धृतिर्धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवद् यस्य सन्ततौ चैद्या भूपालाः ॥ ३९ ॥
क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥ ४० ॥
कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमस्तस्यापि जीमूतस्ततश्च विकृतिस्ततश्च भीभरथः तस्मान्‍नवरथस्तस्यापि दशरथस्ततश्च शकुनिः तत्तनयः करम्भिः करम्भेर्देवरातोऽभवत् ॥ ४१ ॥
तस्माद्देवक्षत्रस्तस्यापि मधुर्मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ४२ ॥
ततश्चांशुस्तस्माच्च सत्वतः ॥ ४३ ॥
सत्वतादेते सात्वताः ॥ ४४ ॥
इत्येतां ज्यामघस्य सन्ततिं सम्यक्च्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते ॥ ४५ ॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः (१२)


GO TOP