॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ चतुर्थोऽध्यायः ॥

श्रीपराशर उवाच
काश्यपदुहिता मुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ॥ १ ॥
ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ॥ २ ॥
एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास ॥ ३ ॥
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥ ४ ॥
तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकमसमञ्जसनामानं वंशकरमसूत ॥ ५ ॥
काश्यपतनयायास्तु सुमत्याः षष्टिः पुत्रसहस्राण्यभवन् ॥ ६ ॥
तस्मादसमञ्जसादंशुमान्नाम कुमारो जज्ञे ॥ ७ ॥
स त्वसमञ्जसो बालो बाल्यादेवासद्वृत्तोऽभूत् ॥ ८ ॥
पिता चास्याचिन्तयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ॥ ९ ॥
अथ तत्रापि च वयस्यतीते असच्चारीतमेनं पिता तत्याज ॥ १० ॥
तान्यपि षष्टिः पुत्रसहस्राण्यसमञ्जसचारितमेवानुचक्रुः ॥ ११ ॥
ततश्चासमञ्जसचरितानुकारिभिः सागरैरपध्वस्तयज्ञादिसन्मार्गे जगति देवाःसकलविद्यामयमसंस्पृष्टमशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूतं कपिलं प्रणम्य तदर्थमूचुः ॥ १२ ॥
भगवन्नेऽभिः सगरतनयैरसमञ्जसचरितमनुगम्यते ॥ १३ ॥
कथमेभिरसद्वृत्तमनुसरद्‍‍भिर्जगद्‍भविष्यतीति ॥ १४ ॥
अत्यार्तजगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरेव दिनैर्विनङ्‍क्ष्यन्तीति ॥ १५ ॥
अत्रान्तरे च सगरो हयमेधमारभत ॥ १६ ॥
तस्य च पुत्रैरधिष्ठितमस्याश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥ १७ ॥
ततस्तत्तनयाश्चाश्वखुरगतिनिर्वन्धेनावनीमेकैको योजनं चख्नुः ॥ १८ ॥
पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशुः ॥ १९ ॥
नातिदूरेऽवस्थितं च भगवन्तमपघने शरत्कालेऽर्कमिव तेजोभि- रनवरतमूर्ध्वमधश्चाशेष दिशश्चोद्‍भासयमानं हयहर्तारं कपिलर्षिमपश्यन् ॥ २० ॥
ततश्चोद्यतायुधा दुरात्मानोऽयमस्मदपकारी यज्ञविध्नकारी हन्यतां हयहर्ता हन्यतामीत्यवोचन्नभ्यधावंश्च ॥ २१ ॥
ततस्तेनापि भगवता किञ्चिदीषत्परिवर्तितलोचनेनावलोकिताःस्वशरीरसमुत्थेनाऽग्निनादह्यमाना विनेशुः ॥ २२ ॥
सगरोप्यवगम्याश्वानुसारि तत्पुत्रबलमशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततोंऽशुमन्तमसमञ्जसपुत्रमश्वानयनाय युयोज ॥ २३ ॥
स तु सगरकतयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥ २४ ॥
अथैनं भगवानाह ॥ २५ ॥
गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्रश्च ते स्वर्गाद्‍गङ्‍गां भुवमानेष्यत इति ॥ २६ ॥
अथांशुमानपि स्वर्यातानां ब्रह्मदण्डहतानामस्मत्पितॄणामस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ॥ २७ ॥
तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्‍गङ्‍गाम्भुवमानयिष्यतीति ॥ २८ ॥
तदम्भसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ॥ २९ ॥
भगवद्विष्णुपादाङ्‍गुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ॥ ३० ॥
यन्न केवलमभिसन्धिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसंहितं अप्यपेतप्राणस्य अस्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहायज्ञमाजगाम् ॥ ३१ ॥
सगरोप्यश्वमासाद्य तं यज्ञं समापयामास ॥ ३२ ॥
सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥ ३३ ॥
तस्यांशुमतो दिलीपः पुत्रोऽभवत् ॥ ३४ ॥
दिलीपस्य भगीरथः योऽसौ गङ्‍गां स्वर्गादिहानीय भगीरथीसंज्ञां चकार ॥ ३५ ॥
भगीरथात्सुहोत्रः सुहोत्राच्छुतः, तस्यापि नाभागः ततोऽम्बरीषः तत्पुत्रःसिन्धुद्वीपः सिन्धुद्वीपादयुतायुः ॥ ३६ ॥
तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोऽक्षहृदयज्ञोऽभूत् ॥ ३७ ॥
ऋतुपर्णपुत्रःसर्वकामः ॥ ३८ ॥
तत्तनयःसुदासः ॥ ३९ ॥
सुदासात्सौदासो मित्रसहनामा ॥ ४० ॥
स चाटव्यां मृगयार्थो पर्यटन् व्याघ्रद्वयमपश्यत् ॥ ४१ ॥
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ॥ ४२ ॥
म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ॥ ४३ ॥
द्वितीयोऽपि प्रतिक्रियां ते करिष्यामीत्युक्त्वान्तर्धानं जगाम ॥ ४४ ॥
कालेन गच्छता सौदासो यज्ञमयजत् ॥ ४५ ॥
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्‌रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रान्तः ॥ ४६ ॥
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥ ४७ ॥ असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ॥ ४८ ॥
आगताय वसिष्ठाय निवेदितवान् ॥ ४९ ॥
स चाप्यचिन्तयदहो अस्य राज्ञो दौःशील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्रव्यजातमिति ध्यानपरोऽभवत् ॥ ५० ॥
अपश्यच्च तन्मांसंमानुषम् ॥ ५१ ॥
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ॥ ५२ ॥
यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ॥ ५३ ॥
अनन्तरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ ॥ ५४ ॥
समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यन्तिकमेतद्‍द्वादशाब्दं तव भोजनं भविष्यतीति ॥ ५५ ॥
असावपि प्रतिगृह्योदकाञ्जलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्‍गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयन्त्या स्वपत्‍न्या प्रसादितःसस्याम्बुदरक्षणार्थं तच्छापाम्बु नोर्व्यां न चाकाशे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ॥ ५६ ॥
तेन च क्वोधाश्रितेनाम्बुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततःस कल्माषपादसंज्ञामवाप ॥ ५७ ॥
वसिष्ठशापाच्च षष्ठे षष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ॥ ५८ ॥
एकदा तु कञ्चिन्मुनिमृतुकाले भार्यासङ्‍गतं ददर्श ॥ ५९ ॥
तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दम्पत्योः प्रधावितयोर्ब्रह्मणं जग्रह ॥ ६० ॥
ततःसा ब्रह्मणी बहुशस्तमभियाचितवती ॥ ६१ ॥
प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मियत्रसहो न राक्षसः ॥ ६२ ॥
नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्‍भर्तारं हन्तुमित्येवं बहुप्रकारं विलपन्त्यां व्याघ्रः पशुमिवारण्येऽभिमतं तं ब्राह्मणमभक्षयत् ॥ ६३ ॥
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥ ६४ ॥
यस्मादेवं मय्यतृप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोऽन्तं प्राप्स्यसीति ॥ ६५ ॥
शप्त्वा चैव साग्निं प्रविवेश ॥ ६६ ॥
ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयन्ती तं स्मारयामास ॥ ६७ ॥
ततः परमसौ स्त्रीभोगं तत्याज ॥ ६८ ॥
वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयन्त्यां गर्भाधानं चकार ॥ ६९ ॥
यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ॥ ७० ॥
पुत्रश्चाजायत ॥ ७१ ॥
तस्य चाश्मक इत्येव नामाभवत् ॥ ७२ ॥
अश्मस्य मूलको नाम पुत्रोऽभवत् ॥ ७३ ॥
योसौ निःक्षत्रे क्ष्मातलेऽस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्रभिः परिवार्य रक्षितस्ततस्तं नारीकवचमुदाहरन्ति ॥ ७४ ॥
मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ॥ ७५ ॥
तस्माच्च खट्वाङ्‍गो योऽसौ देवासुरसङ्‍ग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ॥ ७६ ॥
स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ॥ ७७ ॥
यद्यवश्यं वरो ग्राह्यस्तन्ममायुः कथ्यतामिति ॥ ७८ ॥
अनन्तरं च तैरुक्तं एकमुहूर्तप्रमाणं तवायुरित्युक्तोऽथाःस्खलितगतिना विमानेन लघिमगुणो मर्त्यलोकमागम्येदमाह ॥ ७९ ॥
यथा न ब्राह्मणेभ्यः सकाशादात्मापि मे प्रियतरो न च स्व धर्मोल्लङ्‍घनं मया कदाचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेषु अच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवन्तमस्खलितगतिः प्रापयेयमित्यशेषदेवगुरौ भगवत्यनिर्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ॥ ८० ॥
अत्रापि श्रूयते श्लोको गीतःसप्तर्षिभिः पुरा ।
खट्वाङ्‍गेन समो नान्यः कश्चिदुर्व्यां भविष्यति ॥ ८१ ॥
येन स्वर्गादिहागम्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥ ८२ ॥
खट्वाङ्‍गाद्दीर्घबाहुः पुत्रोऽभवत् ॥ ८३ ॥
ततो रघुरभवत् ॥ ८४ ॥
तस्मादप्यजः ॥ ८५ ॥
अजाद्दशरथः ॥ ८६ ॥
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा पुत्रत्वमायासीत् ॥ ८७ ॥
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ॥ ८८ ॥
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ॥ ८९ ॥
सुबाहुप्रमुखांश्च क्षयमनयत् ॥ ९० ॥
दर्शनमात्रेणाहल्यामपापां चकार ॥ ९१ ॥
जनकगृहे च माहेश्वरं चापमनायासेन बभञ्ज ॥ ९२ ॥
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ॥ ९३ ॥
सकलक्षत्रियक्षयकारिणं अशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ॥ ९४ ॥
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ॥ ९५ ॥
विराधखरदूषणादीन् कबन्धवालिनौ च निजघान ॥ ९६ ॥
बद्धा चाम्भोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यं तद्वधादपहृतकलङ्‍कामपि अनलप्रवेशशुद्धामशेषदेवसङ्‍घैः स्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ॥ ९७ ॥
ततश्चाभिषेकमङ्‍गलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ॥ ९८ ॥
लक्ष्मणभरतशत्रुघ्न विभीषणसुग्रीवाङ्‍गदजाम्बवद् हनुमत्प्रभृतिभिः समुत्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेन्द्राग्नि यमनिर्ऋतिवरुणवायुकुबेरेशानप्रभृतिभिः सर्वामरैः वसिष्ठवामदेववाल्मीकि मार्कण्डेयविश्वामित्रभरद्वाजागस्तयप्रभृतिभिः मुनिवरैः ऋग्यजुसामाथर्वभिः संस्तूयमानो नृत्यगीतवाद्यादि अखिललोकमङ्‍गलवाद्यैः वीणावेणुमृदङ्‍गभेरीपटह शङ्‍खकाहलगोमुखप्रभृतिभिः सुनादैः समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेन्द्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियः सिंहासनगत एकादशाब्दसहस्रं राज्यमकरोत् ॥ ९९ ॥
भरतोऽपि गन्धर्वविषयसाधनाय गच्छन् सङ्‍ग्रामे गन्धर्वकोटीस्तिस्त्रो जघान ॥ १०० ॥
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राभसो निहातो मथुरा च निवेशिता ॥ १०१ ॥
इत्येवमाद्यतिबलपराक्रमविक्रमणैः अतिदुष्टसंहारिणोऽशेषस्य जगतो निष्पादितस्थितयो रामलक्षमण भरतशत्रुघ्नाः पुनरपि दिवमारूढाः ॥ १०२ ॥
येऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेऽपि तन्मनसस्तत्सालोक्यतामवापुः ॥ १०३ ॥
अतिदुष्टसंहारिणो रामस्य कुशलवो द्वौ पुत्रौ लक्ष्मणस्य अङ्‍गदचन्द्रकेतू तक्षपुष्कलौ भरतस्य सुबाहुशुरसेनौ शत्रुघ्नस्य ॥ १०४ ॥
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् ॥ १०५ ॥
निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुण्डरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्रकाद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभः तस्माच्छङ्‍खणः तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे ॥ १०६ ॥
तस्माद्धिरण्यनाभः यो महायोगीश्वराज्जैमिनेः शिष्याद्याज्ञवल्क्याद्योगमवाप ॥ १०७ ॥
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसन्धिस्ततःसुदर्शनः तस्मादग्निवर्णस्ततः शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् ॥ १०८ ॥
योऽसौ योगमास्थायाद्यापि कलापग्राममाश्रित्य तिष्ठति ॥ १०९ ॥
आगामियुगे सूर्यवंशक्षत्रप्रवर्तयिता भविष्यति ॥ ११० ॥
तस्यात्मजः प्रसुश्रुतस्तस्यापि सुसन्धिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः ॥ १११ ॥
तस्य बृहद्‍बलः योऽर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ॥ ११२ ॥
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः ।
एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥ ११३ ॥
इति श्रीविष्णुमहापुराणे चतुर्थेंऽशे चतुर्थोऽध्यायः (४)


GO TOP