|
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ द्वितीयोऽध्यायः ॥
श्रीपराशर उवाच
यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः ॥ १ ॥ तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ॥ २ ॥ तदन्वयाश्च क्षत्रियाःसर्वदिक्ष्वभवन् ॥ ३ ॥ धृष्टस्यापि धार्ष्टकं क्षत्रमभवत् ॥ ४ ॥ नाभागस्यात्मजो नाभागसंज्ञोभवत् ॥ ५ ॥ तस्याप्यम्बरीषः ॥ ६ ॥ अम्बरीषस्यापि विरूपोऽभवत् ॥ ७ ॥ विरूपात्पृषदश्वो जज्ञे ॥ ८ ॥ ततश्च रथीतरः ॥ ९ ॥ आत्रायं श्लोकः - एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसाः स्मृता । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ १० ॥ क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ॥ ११ ॥ तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डाख्यास्त्रयः पुत्रा बभूवुः ॥ १२ ॥ शकुनिप्रमुखाः पञ्चाशत्पुत्राः उत्तरापथरक्षितारो बभूवुः ॥ १३ ॥ चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥ १४ ॥ स चेक्ष्वाकुरष्टकायाश्श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास ॥ १५ ॥ स तथे ति गृहीताज्ञो विधृतशारासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रान्तोऽतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् । शेषं च मांसमानीय पित्रेनिवेदयामास ॥ १६ ॥ इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह । अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः ॥ १७ ॥ ततश्चासौ विकुक्षिर्गुरूणैवमुक्तः शशादसंज्ञामवाप पित्रा च परित्यक्तः ॥ १८ ॥ पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतः शशास ॥ १९ ॥ शशादस्य तस्य पुरञ्जयोनाम पुत्रोभवत् ॥ २० ॥ तस्येदं चान्यत् ॥ २१ ॥ पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ॥ २२ ॥ तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवन्तं विष्णुमाराधयाञ्चक्रुः ॥ २३ ॥ प्रसन्नश्च देवानामनादिनिधनोऽखिलजमत्परायणो नारायणः प्राह ॥ २४ ॥ ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम् ॥ २५ ॥ पुरञ्जयो नाम राजर्षेः शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेऽहमंशेन स्वयमेवावतीर्य तानशेषनसुरान्निहनिष्यामि तद्भवद्भिः पुरञ्जयोऽसुरवधार्थमुद्योगं कार्यतामिति ॥ २६ ॥ एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरञ्जयसकाशमाजग्मुरूचुश्चैनम् ॥ २७ ॥ भो भो क्षत्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामस्तद्भवतास्माकमभ्यागतानां प्रणयभङ्गो न कार्य इत्युक्तः पुरंजयः प्राह ॥ २८ ॥ त्रैलोक्यनाथो योयं युष्माकमिद्रः शतक्रतुरस्य यद्यहं स्कन्धाधिरूढो युष्माकमरातिभिःसह योत्स्ये तदहं भवतां सहायः स्याम् ॥ २९ ॥ इत्याकर्ण्य समस्तदेवैरिन्द्रेण च बाढमित्येवं समन्वीप्सितम् ॥ ३० ॥ ततश्च शतक्रतोर्वृषरूपधारीणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य तेजसाप्यायितो देवासुरसङ्ग्रामे समस्तानेवासुरान्निजघान ॥ ३१ ॥ यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप ॥ ३२ ॥ ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ॥ ३३ ॥ पुथुनेनसः ॥ ३४ ॥ पुथोर्विष्टराश्वः ॥ ३५ ॥ तस्यापि चान्द्रो युवनाश्वः ॥ ३६ ॥ चान्द्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥ ३७ ॥ शावस्तस्य बृहदश्वः ॥ ३८ ॥ तस्यापि कुवालायाश्वः ॥ ३९ ॥ योऽसावुदकस्य महर्षेरपकारिणं धुन्धुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशद्भिः परिवृतो जघान धुन्धुमारसंज्ञामवाप ॥ ४० ॥ तस्य च तनयास्समस्ता एव धुन्धुमुखनिश्वासाग्निना विप्लुष्टा विनेशुः ॥ ४१ ॥ दृढाश्वचन्द्राश्वकपिलाश्वाश्च त्रयः केवलं शेषिताः ॥ ४२ ॥ वृढाश्वाद्धर्यश्वः ॥ ४३ ॥ तस्माच्च निकुम्भः ॥ ४४ ॥ निकुम्भस्यामिताश्वः ॥ ४५ ॥ ततश्च कृशाश्वः ॥ ४६ ॥ तस्माच्च प्रसेनजित् ॥ ४७ ॥ प्रसेनजितो युवनाश्वोऽभवत् ॥ ४८ ॥ तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रममण्डले निवसतो दयाभिर्मुनिभिरपत्योत्पादनायेष्टिः कृता ॥ ४९ ॥ तस्यां च मध्यारात्रौ निवृत्तायां मन्त्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ॥ ५० ॥ सुप्तेषु तेषु अतीव तृट्परीतः स भूपालस्तमाश्रमं विवेश ॥ ५१ ॥ सुप्तांश्च तानृषीन्नैवोत्थापयामास ॥ ५२ ॥ तच्च कलशमपरिमेयमाहात्म्यमन्त्रपूतं पपौ ॥ ५३ ॥ प्रबुद्धाश्च ऋषयः पप्रच्छुः केनैतन्मन्त्रपूतं वारि पीतम् ॥ ५४ ॥ अत्र हि राज्ञो युवनास्वश्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह ॥ ५५ ॥ गर्भश्च युवनाश्वस्योदरे अभवत् क्रमेण च ववृधे ॥ ५६ ॥ प्राप्तसमयश्च दक्षिण कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ॥ ५७ ॥ स चासौ राजा ममार ॥ ५८ ॥ जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ॥ ५९ ॥ अथागत्य देवराजोब्रजीत् मामयं धास्यतीति ॥ ६० ॥ ततो मान्धातृनामा सोभवत् । वक्रे चास्य प्रदेशिनी न्यस्ता देवेन्द्रेण न्यस्ता तां पपौ ॥ ६१ ॥ तां चामृतस्त्राविणीमास्वाद्याह्नैव स व्यवर्धत ॥ ६२ ॥ ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं बुभुजे ॥ ६३ ॥ तत्रायं श्लोकः ॥ ६४ ॥ यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ६५ ॥ मान्धाता शतबिन्दोर्दुहितरं बुन्दुमतीमुपयेमे ॥ ६६ ॥ पुरुकुत्समम्बरीषं मुचुकुन्दं च तस्यां पुत्रत्रयमुत्पादयामास ॥ ६७ ॥ पञ्चाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ॥ ६८ ॥ तस्मिन्नन्तरे बह्वृचश्च सौभरिर्नाम महर्षिरन्तर्जले द्वादशाब्दं कालमुवास ॥ ६९ ॥ तत्र चान्तर्जले संमदो नामातिबहुप्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ॥ ७० ॥ तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ॥ ७१ ॥ स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैरात्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुरां रेमे ॥ ७२ ॥ अथान्तर्जलावस्थितःसौभरिरेकाग्रतःसमाधिमपहायानुदिनं तस्य मत्स्यस्यात्मजपुत्रपौत्रदौहित्रादिभिःसहातीरमणीयतातामवेक्ष्याचिन्तयत् ॥ ७३ ॥ अहो धन्योयमीदृशमनभिमतं योन्यन्तरमवाप्यैभिरात्मजपुत्रपौत्रदौहित्रादिभिः सह रममाणोऽतीवास्माकं स्पृहामुत्पादयति ॥ ७४ ॥ वयमप्येवं पुत्रादिभिः सह ललितं रंस्यामहे इत्येवमभिकाङ्क्षन् स तस्मादन्तर्जलान्निष्क्रम्य सन्तानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत् ॥ ७५ ॥ आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना सम्पूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥ ७६ ॥ सौभरिरुवाच - निवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभाङ्क्षीः । न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखा प्रयान्ति ॥ ७७ ॥ अन्येपि सन्त्येव नृपाः पृतिव्यां मान्धातरेषां तनयाः प्रसूताः । किं त्वर्थिनामर्थितदानदीक्षा- कृतव्रतं श्लाघ्यमिदं कुलं ते ॥ ७८ ॥ शतार्धसंख्यास्तव सन्ति कन्या- स्तासां ममैकां नृपते प्रयच्छ । यत्प्रार्थनाभङ्गभयाद्बिभेमि तस्मादहं राजवरादिदुःखात् ॥ ७९ ॥ श्रीपराशर उवाच इति ऋषिवचनमाकर्ण्य स राजा जरार्जरित देहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापभीतो बिभ्यत्किञ्चिदधोमुखश्चिरं दध्यौ च ॥ ८० ॥ सौभरिरुवाच नरेद्रकस्मात्सुमुपैषि चीन्ता- मह्यमुक्तं न मयात्र किञ्चित् । यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ॥ ८१ ॥ श्रीपराशर उवाच अथ तस्य भगवतः शापभीतः स प्रश्रयस्तमुवाचासौ राजा ॥ ८२ ॥ राजोवाच भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिरुचितोऽभिजनवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचरवर्तिनी कथमप्येषा संजाता तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मया चिन्त्यत इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत् ॥ ८३ ॥ अयमन्योऽस्मत्प्रत्याख्यानोपायो वृद्धोयमनभिमतः स्त्रीणां किमुत कन्याकानामित्यमुना सञ्चिन्त्यैतदभिहितमेवमस्तु तथा करिष्यामीति सञ्चिन्त्य मान्धातारमुवाच ॥ ८४ ॥ यद्येवं तदादिश्यतामस्माकं प्रवेशाय । कन्यान्तःपुरवर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसङ्ग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारम्भणेनेत्युक्त्वा विरराम ॥ ८५ ॥ ततश्च मान्धात्रा मुनिशापशङ्कितेन कन्यान्तःपुरवर्षवरःसमाज्ञप्तः ॥ ८६ ॥ तेन सह कन्यान्तःपुरं प्रविशान्नेव भगवानखिलसिद्धगन्धर्वेभ्योतिशयेन कमनीयं रूपमकरोत् ॥ ८७ ॥ प्रवेश्य च तमृषिमन्तःपुरे वर्षधरस्ताः कन्याः प्राह ॥ ८८ ॥ भवतीनां जनयिता महाराजःसमाज्ञापयति ॥ ८९ ॥ अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ॥ ९० ॥ मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति तत्कन्याच्छन्दे नाहं परिपंथानं करिष्यामीत्याकर्म्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः करेणव इवेभमृगयूथपतिं तमृषिमहमहमिकया वरयाम्बभूवुरूचुश्च ॥ ९१ ॥ अलं भगिन्योहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः । ममैष भर्ता विधिनैव सृष्ट - स्सृष्टाहमस्योपशमं प्रयाहि ॥ ९२ ॥ वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् । मया मयोतिक्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥ ९३ ॥ यदा मुनिस्ताभिरतीवहार्दाद्- वृतःस कन्याभिरनिन्द्यकीर्तिः । तदा स कन्याधिकृतो नृपाय यथावजाचष्ट विनम्रमूर्तिः ॥ ९४ ॥ श्रीपराशर उवाच तदवगमात्किङ्किमेतत्कथमेतत्किं किं करोमि किं मयाभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने ॥ ९५ ॥ कृतानुरूपविवाहश्च महर्षिःसकला एव ताः कन्याःस्वमाश्रममनयत् ॥ ९६ ॥ तत्र चाशेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपङ्कजाः कूजत्कलहंसकारण्डवादिविहङ्गमाभिरामजलाशयाःसोपधानाः । सावकाशाःसाधुशय्यापरिच्छदाः प्रासादाः क्रियन्तामित्यादिदेश ॥ ९७ ॥ तच्च तथैवानुष्ठितमशेषशिल्पविसेषाचार्यस्त्वष्टा दर्शितवान् ॥ ९८ ॥ ततः परमर्षिणा सौभरिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानन्दनामामहानिधिरासाञ्चक्रे ॥ ९९ ॥ ततोऽनवरतेन भक्ष्यभोज्यलेह्याद्युपभोगैरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितिशदुहिरतो भोजयामासुः ॥ १०० ॥ एकदातु दुहितृस्नेहाकृष्टहृदयःस महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिन्त्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ॥ १०१ ॥ प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनाम्बुगर्भनयनोऽब्रवीत् ॥ १०२ ॥ अप्यत्र वत्से भवत्याःसुखमुत किञ्चिदसुखमपि ते महर्षिःस्नेहवानुत न, स्मर्यतेस्मद्गुहवास इत्युक्ता तं तनया पितरमाह ॥ १०३ ॥ तातातिरमणीयः प्रासादोऽत्रातिमनोज्ञमुपवनमेते कलवाक्यविहङ्गमाभिरुताः प्रोत्फुल्लपद्माकरजलाशया मनोऽनुकूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसम्पत्समेतं मे गार्हस्थ्यम् ॥ १०४ ॥ तथापि केन वा जन्मभूमिर्न स्मर्यते ॥ १०५ ॥ त्वत्प्रसादादिदमशेषमतिशोभनम् ॥ १०६ ॥ किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयंमद्भर्ता न निष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्ती नान्यासामस्मद्भगिनीनाम् ॥ १०७ ॥ एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान् ॥ १०८ ॥ तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्ती, नान्यासामस्मद्भगिनीनामित्येवमादि श्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत् ॥ १०९ ॥ सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भरविवशहृदयो भगवन्तं सौभरिमेकान्तावस्थितमुपेत्य कृतपृजोब्रवीत् ॥ ११० ॥ दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिभिर् विलासितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण सह किञ्चित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम् ॥ १११ ॥ कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ॥ ११२ ॥ अनुदिनानुरूढस्नेहप्रसरश्च स तत्रातीव ममताकृष्टहृदयोऽभवत् ॥ ११३ ॥ अप्येतेऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः अप्येते यौवनिनो भवेयुः, अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पश्यामीत्यादिमनोरथाननुदिनं कालसम्पत्तिप्रवृद्धानुपेक्ष्यैतच्चिन्तयामास ॥ ११४ ॥ अहो मे मोहस्यातिविस्तारः ॥ ११५ ॥ मनोरथानां न समाप्तिरस्ति वर्षायुतेनापि तथाब्दलक्षैः । पूर्णेषु पूर्णेषु मनोरथाना- मुत्पत्तयःसन्ति पुनर्नवानाम् ॥ ११६ ॥ पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः । दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्च्छति मेऽन्तरात्मा ॥ ११७ ॥ द्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोऽन्यः । पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ॥ ११८ ॥ आमृत्युतो नैव मनोरथाना- मन्तोऽस्ति विज्ञातमिदं मयाद्य । मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥ ११९ ॥ स मे समाधिर्जलवासमित्र- मत्स्यस्य सङ्गात्सहसैव नष्टः । परिग्रहःसङ्गकृतो मयायं परिग्रहोत्था च ममातिलिप्सा ॥ १२० ॥ दुःखं यदैवैकशरीरजन्म शतार्धसंख्याकमिदं प्रसूतम् । परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत ॥ १२१ ॥ सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां च परिग्रहेण । विस्तारमेष्यत्यदिदुःखहेतुः परिग्रहो वै ममताभिधानः ॥ १२२ ॥ चीर्णं तपो यत्तु जलाश्रयेण तस्यार्धिरेषा तपसोऽन्तरायः । मत्स्यस्य सङ्गादभवच्च यो मे सुतादिरागो मुषितोऽस्मि तेन ॥ १२३ ॥ निःसङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः प्रभवन्ति दोषाः । आरूढयोगो विनिपात्यतेऽध- स्सङ्गेन योगी किमुताल्पबुद्धिः ॥ १२४ ॥ अहं चरिष्यामि तदात्मनोऽर्थे परिग्रहग्राहगृहीतबुद्धिः । यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी ॥ १२५ ॥ सर्वस्य धातारम चिन्त्यरूप- मणोरणीयांसमतिप्रमाणम् । सितासितं चेश्वरमीश्वराणा- माराधयिष्ये तपसैव विष्णुम् ॥ १२६ ॥ तस्मिन्नशेषौजसि सर्वरूपि- ण्यव्यक्तविस्पष्टतनावनन्ते । ममाचलं चित्तमपेतदोषं सदास्तु विष्णावमवाय भूयः ॥ १२७ ॥ समस्तभूतादमलादनन्ता- त्सर्वेश्वरादन्यदनादिमध्यात् । यस्मान्न किञ्चित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा ॥ १२८ ॥ श्रीपराशर उवाच इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिच्छदादिकमशेषमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश ॥ १२९ ॥ तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ॥ १०३ ॥ भगवत्यासज्याखिलं कर्मकलापं हित्वानन्तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतत्मच्युतं पदम् ॥ १३१ ॥ इत्येतन्मान्धातृदुहितृसम्बन्धादाख्यातम् ॥ १३२ ॥ यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट् जन्मानि दुःसन्ततिरसद्धर्मो वाङ्मनसयोरसन्मार्गाचरणमशेषहेतुषु वा ममत्वं न भवति ॥ १३३ ॥ इति श्रिविष्णुमहापुराणे चतुर्थेंऽशे द्वितीयोऽध्यायः (२) |