॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ प्रथमोऽध्यायः ॥

मैत्रेय उवाच
भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥ १ ॥
वर्मधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्‍ब्रूहि मे गुरो ॥ २ ॥
श्रीपराशर वाच
मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालङ्‍कृतो ब्रह्मादिर्मानवो वंशः ॥ ३ ॥
तदस्य वंशस्यनुपूर्वीमशेषवंशपापप्रणाशनाय मैत्रेयैतां कथं शृणु ॥ ४ ॥
तद्यथा सकलजगतामादिरनादिभूतस्स ऋग्यजुःसामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मूर्तं रूपं

हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥ ५ ॥
ब्रह्मणश्च दक्षिणाङ्‍गुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥ ६ ॥
मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ॥ ७ ॥
इष्टिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार ॥ ८ ॥
तत्र तावदपह्नुते होतुरपचारादिला नाम कन्या बभूव ॥ ९ ॥
सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥ १० ॥
पुनश्चेश्वरकोपात्स्त्री सती सा तु सोममूनोर्बुधस्याश्रमसमीपे बभ्राम ॥ ११ ॥
सानुरागाश्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास ॥ १२ ॥
जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्‍मयो यजुर्मयस्साममयोऽथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्‌भिर्यथाव दिष्टस्तत्प्रसादादिला पुनरपु सुद्युम्नोऽभवत् ॥ १३ ॥
तस्याप्युतकलगयविनतास्त्रयः पुत्रा बभूवुः ॥ १४ ॥
सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्‌राज्यभागं न लेभे ॥ १५ ॥
तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् ॥ १६ ॥
तदन्वयाश्च क्षत्रियाःसर्वै दिक्ष्वभवन् ।
पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्रत्वमगमत् ॥ १७ ॥
मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्रिया महाबलपराक्रमबभूवः ॥ १८ ॥
दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्‍बलन्धनः पुत्रोभवत् ॥ १९ ॥
बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥ २० ॥
वत्सप्रीतेः प्रांशुरभवत् ॥ २१ ॥
प्रजापतिश्च प्रांशोरेकोऽभवत् ॥ २२ ॥
ततश्च खनित्रः ॥ २३ ॥
तस्माच्चाक्षुषः ॥ २४ ॥
चक्षुषाच्चातिबलपराक्रमो विंशोऽभवत् ॥ २५ ॥
ततो विविंशकः ॥ २६ ॥
तस्माच्च खनिनेत्रः ॥ २७ ॥
ततश्चाति-विभूतिः ॥ २८ ॥
अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोऽभवत् ॥ २९ ॥
तस्मादप्य-विक्षित् ॥ ३० ॥
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाभवत् ।
यस्येमावद्यापि श्लोकौ गीयेत् ॥ ३१ ॥
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्‍भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥ ३२ ॥
अमाद्य-दिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारःसदस्याश्च दिवौकसः ॥ ३३ ॥
स मरुत्तश्चक्रवर्ति नरिष्यन्तनामानं पुत्रमवाप ॥ ३४ ॥
तस्माच्च दमः ॥ ३५ ॥
दमस्य पुत्रो राजवर्धनो जज्ञे ॥ ३६ ॥
राजवर्धनात्सुवृद्धिः ॥ ३७ ॥
सुवृद्धेः केवलः ॥ ३८ ॥
केवलात्सुधृतिरभूत् ॥ ३९ ॥
ततश्च नरः ॥ ४० ॥
तस्माच्चन्द्रः ॥ ४१ ॥
ततः केवलोभूत् ॥ ४२ ॥
केवलाद्‍बन्धुमान् ॥ ४३ ॥
बन्धुमतो वेगवान् ॥ ४४ ॥
वेगवतो बुधः ॥ ४५ ॥
ततश्च तृणबिन्दुः ॥ ४६ ॥
तस्याप्येका कन्या इलविला नाम ॥ ४७ ॥
ततश्चालम्बुषा नाम वराप्सरास्तृणबिन्दुं भेजे ॥ ४८ ॥
तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ॥ ४९ ॥
हेमचन्द्रश्च विशालस्य पुत्रोभवत् ॥ ५० ॥
ततश्चन्द्रः ॥ ५१ ॥
तत्तनयो धूम्राक्षः ॥ ५२ ॥
तस्यापि सृंजयोऽभूत् ॥ ५३ ॥
सृञ्जयात्सहदेवः ॥ ५४ ॥
ततश्च कृशाश्वो नाम पुत्रोऽभवत् ॥ ५५ ॥
सोमदत्तः कृशाश्वाज्जज्ञे योऽश्वमेधानां शतमाजहार ॥ ५६ ॥
तत्पुत्रो जनमेजयः ॥ ५७ ॥
जनमेजयात्सुमतिः ॥ ५८ ॥
एते वैशालिका भूभृतः ॥ ५९ ॥
श्लोकोऽप्यत्र गीयते ॥ ६० ॥
तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तोऽतिधर्मिकाः ॥ ६१ ॥
शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमे च्यवन् ॥ ६२ ॥
आनर्तनामा परमधार्मिकः शर्यातिपुत्रोऽभवत् ॥ ६३ ॥
आनर्तस्यापि रेवतनामा पुत्रो जज्ञे योऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥ ६४ ॥
रेवतास्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठोऽभवत् ॥ ६५ ॥
तस्य रेवती नामकन्याभवत् ॥ ६६ ॥
स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम् ॥ ६७ ॥
तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥ ६८ ॥
तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन्मुहूर्त्तमिव मेने ॥ ६९ ॥
गीतावसाने चज भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥ ७० ॥
ततश्चासौ भगवानकथयत कथय योऽभिमतस्ते वर इति ॥ ७१ ॥
पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।
क एषां भगवतोऽभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥ ७२ ॥
ततः किञ्चिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ॥ ७३ ॥
य एते भवतोऽभिमता नैतेषां साम्प्रतं पुत्रपौत्रापत्यापत्यसन्ततिरस्त्यवनीतले ॥ ७४ ॥
बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि ॥ ७५ ॥
साम्प्रतं महीतलेऽष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ॥ ७६ ॥
आसन्नो हि कलिः ॥ ७७ ॥
अन्यस्मै कन्यारत्‍नमिदं भवतैकाकिनाभिमताय देयम् ॥ ७८ ॥
भवतोपि पुत्रमित्रकलत्रमन्त्रिभृत्यबन्धुबलकोशादयःसमस्ताः कालेनैतेनात्यन्तमतीताः ॥ ७९ ॥
ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥ ८० ॥
भगवन्नेवमवस्थिते मयेयं कस्मै देयेति ॥ ८१ ॥
ततःस भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरम्भोजयोनिराह ॥ ८२ ॥
ब्रह्मोवाच
न ह्यादिमध्यान्तमजस्य यस्य
विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं
न चैव सारं परमेश्वरस्य ॥ ८३ ॥
कलामुहूर्त्तादिमयश्च कालो
न यद्विभूतेः परिणामहेतुः ।
अज्मनाशस्य सदैकमुर्त्ते-
रनामरूपस्य सनातनस्य ॥ ८४ ॥
यस्य प्रसादादहमच्युतस्य
भूतः प्रजासृष्टिकरोऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो
यस्माच मध्ये पुरुषः परस्मात् ॥ ८५ ॥
मद्‍रूपमास्थाय सृजत्यजो यः
स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योऽत्ति विश्वं
धत्ते तथानन्तवपुःसमस्तम् ॥ ८६ ॥
पाकाय योग्नित्वमुपैति लोका-
न्बिभर्त्ति पृथ्वीवपुरव्यायात्मा ।
शक्रादिरूपी परिपाति विश्व-
मर्केन्दुरूपश्च तमो हिनस्ति ॥ ८७ ॥
करोति चेष्टाः श्वसनस्वरूपी
लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु
सर्वावकाशं च नभःस्वरूपी ॥ ८८ ॥
यःसृज्यते सर्गकृदात्मनैव
यः पाल्यते पालयिता च देवः ।
विश्वात्मकःसंहृयतेन्तकारी
पृथक् त्रयस्यास्य च योव्ययात्मा ॥ ८९ ॥
यस्मिञ्जगद्यो जगदेतदाद्यो
यं चाश्रितोस्मिञ्जगति स्वयम्भूः ।
स सर्वभूतप्रभवो धरित्र्यां
स्वांशेन विष्णुर्नृपतेऽवतीर्णः ॥ ९० ॥
कुशस्थली या तव भूप रम्या
पुरी पुराभूदमरावतीव ।
सा द्वारका सम्प्रति तत्र चास्ते
स केशवांशो बलदेवनामा ॥ ९१ ॥
तस्मै त्वमेनां तनयां नरेन्द्र
प्रायच्छ मायामनुजाय जायाम् ।
श्लोघ्यो वेरोऽसौ तनया तवेयं
स्त्रीरत्‍नभूता सदृशो हि योगः ॥ ९२ ॥
श्रीपराशर उवाच
इतीरितोऽसौ कमलोद्‍भवेन
भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपा-
नल्पौजसःस्वल्पविवेकविर्यान् ॥ ९३ ॥
कुशस्थलीं तां च पुरीमुपेत्य
दृष्ट्‍वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभ-
वक्षःस्थलायातुलधीर्नरेद्रः ॥ ९४ ॥
उच्चप्रमाणामिति तामवेक्ष्य
स्वलाङ्‍गलाग्रेण च तालकेतुः ।
विनम्रयामास ततश्च सापि
बभूव सद्यो वनिता यथान्या ॥ ९५ ॥
तां रेवतीं रैवतभूपकन्यां
सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वाथ कन्यां स नृपो जगाम
हेमालयं वै तपसे धृतात्मा ॥ ९६ ॥
इति श्रीविष्णुमहापुराणे चतुर्थाशे प्रथमोध्यायः (१)



GO TOP