॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ चतुर्दशोऽध्यायः ॥

और्व उवाच
ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।
विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशुन् ॥ १ ॥
सरीसृपानृषिगणान्यच्चान्यद्‍भूत संज्ञितम् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ २ ॥
मासि मास्यसिते पक्षे पञ्चदश्यां नरेश्वर ।
तथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ॥ ३ ॥
श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् ।
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा ॥ ४ ॥
विषुवे चापि सम्प्राप्ते ग्रहणे शशिसूर्ययोः ।
समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ॥ ५ ॥
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥ ६ ॥
अमावास्या यदा मैत्रविशाखास्वातियोगिनी ।
श्रीद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम् ॥ ७ ॥
अमवास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः ॥ ८ ॥
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् ।
वारुणे वाप्यमावास्या देवानामपि दुर्लभा ॥ ९ ॥
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते ।
तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम् ॥ १० ॥
गीतं सनत्कुमारेण यथैलाय महात्मने ।
पृच्छते पितृभक्ताय प्रश्रयावनताय च ॥ ११ ॥
सनत्कुमार उवाच
वैशाखमासस्य च या तृतीया
    नवम्यसौ कर्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्ष
    त्रयोदशी पञ्चदशी च माघे ॥ १२ ॥
एता युगाद्याः कथिताः पुराणे-
    ष्वनन्तपुण्यास्तिथयश्चतस्त्रः ।
उपप्लवे चन्द्रमसो रवेश्च
    त्रिष्वष्टकास्वप्ययनद्वये च ॥ १३ ॥
पानीयमप्यत्र तिलैर्विमिश्रं
    दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समासहस्रं
    रहस्यमेतत्पितरो वदन्ति ॥ १४ ॥
माघेऽसिते पञ्चदशी कदाचि-
    दुपैति योगं यदि वारुणेन ।
ऋक्षेण कालःस परः पितॄणां
    न ह्यल्पपुण्यैर्नृप लभ्यतेसौ ॥ १५ ॥
काले धनिष्ठा यदि नाम तस्मि-
    न्भवेत्तु भूपाल तदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं
    वर्षायुतं तत्कुलजैर्मनुष्यैः ॥ १६ ॥
तत्रैव चेद्‍भाद्रपदानुपूर्वा
    काले यथावत्क्रियते पितृभ्यः ।
श्राद्धं परां तृप्तिमुपेत्य तेन
    युगं सहस्रं पितरःस्वपन्ति ॥ १७ ॥
गङ्‍गां शतद्‍रूं यमुनां विपाशां
    सरस्वतीं नैमिशगोमतीं वा ।
तत्रावगाह्यार्चनमादरेण
    कृत्वा पितॄणां दुरितानि हन्ति ॥ १८ ॥
गायन्ति चैतत्पितरः कदानु
    वर्षामघातृप्तिमवाप्य भूयः ।
माघासितान्ते शुभतीर्थतोयै-
    र्यास्याम तृप्तिं तनयादिदत्तैः ॥ १९ ॥
चित्तं च वित्तं च नृणां विशुद्धं
    शस्तं च कालः कथितो विधिश्च ।
पात्रं यथोक्तं परमा च भक्ति-
    र्नृणां प्रयच्छन्त्यभिवाञ्छितानि ॥ २० ॥
पितृगीतान्तथैवात्र श्लोकांस्तञ्छृणु पार्थिव ।
श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥ २१ ॥
अपि धन्यः कुले जायादस्माकं मतिमान्नरः ।
अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥ २२ ॥
रत्‍नं वस्त्रं महायानं सर्वभोगादिकं वसु ।
विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति ॥ २३ ॥
अन्नेन वा यथाशक्त्या कालेऽस्मिन्भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ २४ ॥
असमर्थोन्नदानस्य धान्यमामं स्वशक्तितः ।
प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम् ॥ २५ ॥
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिद्‍भूप दास्यति ॥ २६ ॥
तिलैः सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्य भुव्यस्माकं प्रदास्यति ॥ २७ ॥
यतः कुताश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति ॥ २८ ॥
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चेर्वदिष्यति ॥ २९ ॥
न मेऽस्ति वित्तं न धनं च नान्य-
    च्छ्राद्धोपयोग्यं स्वपितॄन्नतोस्मि ।
तृप्यन्तु भक्तया पितरो मयैतौ
    कृतौ भुजौ वर्त्मनि मारुतस्य ॥ ३० ॥
और्व उवाच
इत्येतत्पितृभिर्गीतं भावाभावप्रयोजनम् ।
यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥ ३१ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशोऽध्यायः (१४)



GO TOP