॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ पञ्चदशोऽध्यायः ॥

और्व उवाच
ब्राह्मणान्भोजयेच्छ्राद्धे यद्‍गुणांस्तान्निबोध मे ॥ १ ॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्‍गवित् ।
वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥ २ ॥
ऋत्विक्स्वस्त्रेयदौहित्रजामातृश्वशुरास्तथा ।
मातुलोऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस्तथा ।
शिष्याःसम्बन्धिनश्चैव मातापितृरतश्च यः ॥ ३ ॥
एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नृप ।
ब्राह्मणान्पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान् ॥ ४ ॥
मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस्तथा द्विजः ।
कन्यादूषयिता वह्निवेदोज्झःसोमविक्रयी ॥ ५ ॥
अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः ।
भृतकाध्यापकस्तद्वद्‍भृतकाध्यापितश्च यः ॥ ६ ॥
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥ ७ ॥
तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥ ८ ॥
प्रथमेह्नि बुधः शस्ताञ्छ्रोत्रियादीन्निमन्त्रयेत् ।
कथयेच्च तथैवैषां नियोगान्पितृदैविकान् ॥ ९ ॥
ततः क्रोधव्यवायादीनायासं तैर्द्विजैः सह ।
यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥ १० ॥
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च ।
व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन् ॥ ११ ॥
तस्मात्प्रथममत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् ।
अनिमन्त्र्य द्विजानेवमागतान्भोजयेद्यतीन् ॥ १२ ॥
पादशौचादिना गेहमागतान्पूजयेद्‌ द्विजान् ॥ १३ ॥
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।
पितॄणामयुजो युग्मान्देवानामिच्छया द्विजान् ॥ १४ ॥
देवानामेकमेकं वा पितॄणां च नियोजयेत् ॥ १५ ॥
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तीसम्पन्नस्तन्त्रं वा वैश्वदैविकम् ॥ १६ ॥
प्राङ्‍मुखान्भोजयेद्विप्रान्देवानामुभयात्मकान् ।
पितृमातामहानां च भोजयेच्चाप्युदङ्‍मुखान् ॥ १७ ॥
पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥ १८ ॥
विष्टरार्थं कुशं दत्त्वा सम्पूज्यार्घ्यं विधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥ १९ ॥
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् ।
स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥ २० ॥
पितॄ्णामपसव्यं तत्सर्वमेवोपकल्पयेत् ।
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान्द्विधाकृतान् ॥ २१ ॥
मन्त्रपूर्वं पितॄणां तु कुर्याच्चावाहनं बुधः ।
तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नृप ॥ २२ ॥
काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् ।
ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥ २३ ॥
योगिनो विविधै रूपैर्नरामामुपकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥ २४ ॥
तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकालेऽतिथिं बुधः ।
श्राद्धक्रियाफलं हन्ति नरेद्रापूजितोऽतिथिः ॥ २५ ॥
जुहुयाद्‌व्यञ्जनक्षारवर्जमन्नं ततोऽनले ।
अनुज्ञातो द्विजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ॥ २६ ॥
अग्नये कव्यवाहाय स्वधेत्यादौ नृपाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम् ॥ २७ ॥
वैवस्वताय चैवान्या तृतीया दीयते ततः ।
हुतावशिष्टमल्पान्नं विप्रपात्रेषु निर्वपेत् ॥ २८ ॥
ततोन्नं मृष्टमत्यर्थमभीष्टमतिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥ २९ ॥
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् ।
अक्रुद्ध्यता चात्वरता देयं तेनापि भक्तितः ॥ ३० ॥
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः ।
कृत्वाध्येयाःस्वपितरस्त एव द्विजसत्तमाः ॥ ३१ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥ ३२ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥ ३३ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥ ३४ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम् ॥ ३५ ॥
मातामहस्तृप्तिमुपैतु तस्य
    तथा पिता तस्य पिता ततोऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु
    तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ ३६ ॥
यज्ञेश्वरो हव्यसमस्तकव्य-
     भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।
तत्संनिधानादपयान्तु सद्यो
    रक्षांस्यशेषण्यसुराश्च सर्वे ॥ ३७ ॥
तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले ।
दद्यादाचमनार्थाय तेभ्यो वारी सकृत्सकृत् ॥ ३८ ॥
सुतृप्तैस्तैरनुज्ञातःसर्वेणान्नेन भूतले ।
सतिलोन ततः पिण्डान्सम्यग्दद्यात्समाहितः ॥ ३९ ॥
पितृतीर्थेन सतिलं तथैव सलिलाञ्जलिम् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥ ४० ॥
दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ।
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥ ४१ ॥
पितामहाय चैवान्यं तत्पित्रे च तथापरम् ।
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणैः ॥ ४२ ॥
पिण्डैर्मातामहांस्तद्वद्‍गन्धमाल्यादिसंयुतैः ।
पूजयित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥ ४३ ॥
पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर ।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ॥ ४४ ॥
दत्त्वा च दक्षिणां तेभ्यो वाचयेद्‌वैश्वदेविकान् ।
प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत् ॥ ४५ ॥
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः ।
पश्चाद्विसर्जयेद्देवान्पूर्वं पित्र्यान्महीपते ॥ ४६ ॥
मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजयेच्च स्वशक्त्या च दाने तद्वद्विसर्जने ॥ ४७ ॥
आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु ।
विसर्जनं तु प्रथमं पैत्रमातामहेषु वै ॥ ४८ ॥
विसर्जयेत्प्रीतिवचःसंमान्याभ्यर्थितास्ततः ।
निवर्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥ ४९ ॥
ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियं बुधः ।
भुञ्ज्याच्चैव समं पूज्य भृत्यबन्धुभिरात्मनः ॥ ५० ॥
एवं श्राद्धं बुधः कुर्यात्पैत्र्यं मातामहं तथा ।
श्राद्धैराप्यायिता दद्युःसर्वान्कामान्पितामहाः ॥ ५१ ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य कथा दानं तथा संकीर्तनादिकम् ॥ ५२ ॥
वर्ज्यानि कुर्वता श्राद्धं क्रोधोध्वगमनं त्वरा ।
भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥ ५३ ॥
विश्वेदेवाःसपितरस्तथा मातामहा नृप ।
कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥ ५४ ॥
सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः ।
श्राद्धे योगिनियोगस्तु तस्माद्‍भूपाल शस्यते ॥ ५५ ॥
सहस्रस्यापि विप्राणां योगी चेत्पुरतःस्थितः ।
सर्वान्भोक्तॄंस्तारयति यजमानं तथा नृप ॥ ५६ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चदशोऽध्यायः (१५)



GO TOP