सत्संगधारा - विष्णुपुराण - तृतीयः अंशः - त्रयोदशोऽध्यायः



॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ त्रयोदशोऽध्यायः ॥

और्व उवाच
सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते ।
जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् ॥ १ ॥
युग्मान्देवांश्च पित्र्यांश्च सम्यक्सव्यक्रमाद्‌द्विजान् ।
पूजायेद्‍भोजयेच्चैव तन्मना नान्यमानसः ॥ २ ॥
दध्यक्षतैः सबदरैः प्राङ्‍मुखोदङ्‍मुखोऽपि वा ।
देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ३ ॥
नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव ।
प्रीयते तत्तु कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥ ४ ॥
कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः ।
नामकर्मणि बालानां चूडाकर्मादिके तथा ॥ ५ ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥ ६ ॥
पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः ।
श्रूयतामवनीपाल प्रेतकर्मक्रियाविधिः ॥ ७ ॥
प्रेतदेहं शभैः स्नानैः स्नापितं स्रग्विभूषितम् ।
दग्ध्वा ग्रामाद्‍बहिः स्नात्वा सचैलःसलिलाशये ॥ ८ ॥
यत्र तत्र स्थितायैतदमुकायेति वादिनः ।
दक्षिणाभिमुखा दद्युर्बान्धवाःसलिलाञ्जलीन् ॥ ९ ॥
प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने ।
कटकर्म ततः कुर्युर्भूमौ प्रस्तरशायिनः ॥ १० ॥
दातव्योनदिनं पिडः प्रेताय भुवि पार्थिव ।
दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ॥ ११ ॥
दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम् ।
प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता ॥ १२ ॥
प्रथमेह्नि तृतीये च सप्तमे नवमे तथा ।
वस्त्रत्यागबहिःस्नाने कृत्वा दद्यात्तिलोदकम् ॥ १३ ॥
चतुर्थेह्नि च कर्तव्यं तस्यास्थिचयनं नृप ।
तदूर्ध्वमङ्‍गसंस्पर्शःसपिण्डानामपीष्यते ॥ १४ ॥
योग्याःसर्वक्रियाणां तु समनसलिलास्तथा ।
अनुलेपनपुष्पादिभोगाद् अन्यत्र पार्थिव ॥ १५ ॥
शय्यासनोपभोगश्च सपिण्डानामपीष्यते ।
भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् ॥ १६ ॥
बाले देशान्तरस्थे च पतिते च मुनौ मृते ।
सद्यः शौचं तथेच्छातो जलाग्न्युद्‍बन्धनादिषु ॥ १७ ॥
मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ १८ ॥
विप्रस्यैतद्‌द्वादशाहं राजन्यस्याप्यशौचकम् ।
अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥ १९ ॥
अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने ।
दद्याद्‌दर्भषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ ॥ २० ॥
वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् ।
स्प्रष्टव्योनन्तरं वर्णैः शुद्धेरन्ते ततः क्रमात् ॥ २१ ॥
ततःसर्वणधर्मा ये विप्रादिनामुदाहृताः ।
तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा ॥ २२ ॥
मृताहनि च कर्तव्यमेकोद्दिष्टमतः परम् ।
आह्वानादिक्रियादैवनियोगरहितं हि यत् ॥ २३ ॥
एकोऽर्घ्यस्तत्र दातव्यस्तथैवैकपवित्रकम् ।
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥ २४ ॥
प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् ।
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ॥ २५ ॥
एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः ।
सपिण्डीकरणं तस्मिन्काले राजेन्द्र चत्छृणु ॥ २६ ॥
एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव ।
संवत्सरेथ षष्ठे वा मासे वा द्वादशेह्नि तत् ॥ २७ ॥
तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ २८ ॥
पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा ।
सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥ २९ ॥
ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते ।
श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ ३० ॥
पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः ।
सपिण्ड सन्ततिर्वापि क्रियार्हो नृप जायते ॥ ३१ ॥
तेषामभावे सर्वेषां समानोदकसन्ततिः ।
मातृपक्षमपिण्डेन सम्बन्धा ये जलेन वा ॥ ३२ ॥
कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप ।
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥ ३३ ॥
सङ्‍घातान्तर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः ।
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ॥ ३४ ॥
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ।
त्रिःप्रकाराः क्रियाःसर्वास्तासां भेदं शृणुष्व मे ॥ ३५ ॥
आदाहवार्यायुधादिस्पर्शाद्यन्तास्तु याः क्रियाः ।
ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ ३६ ॥
प्रेते पितृत्वमापन्ने सपिण्डिकरणादनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ ३७ ॥
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ।
सङ्‍घातान्तर्गतैर्वापि राज्ञा तद्धनहारिणा ॥ ३८ ॥
पूर्वाः क्रियाश्च कर्तव्याः पुत्राद्यैरेव चोत्तराः ।
दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ ३९ ॥
मृताहनि च कर्तव्याः स्त्रीणामप्युत्तराः क्रिया ।
प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ॥ ४० ॥
तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव ।
यथा यथा च कर्तव्या विधिना येन चानघ ॥ ४१ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे त्रयोदशोध्यायः (१३)



GO TOP