॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ द्वादशोऽध्यायः ॥

और्व उवाच
देवगोब्राह्मणान्त्सिद्धान्वृद्धाचार्यांस्तथार्चयेत् ।
द्विकालं च नमेत्सन्ध्यामग्नीनुपचरेत्तथा ॥ १ ॥
सदाऽनुपहते वस्त्रे प्रशस्ताश्च महोषधीः ।
गारुडानि च रत्‍नानि बिभृयात्प्रयतो नरः ॥ २ ॥
प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् ।
सिताः सुमनसो हृद्या विभृयाच्च नरः सदा ॥ ३ ॥
किञ्चित्परस्वं न हरेन्नल्पमप्यप्रियं वदेत् ।
प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ ४ ॥
नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ ।
न दुष्टं यानमारोहेत्कूलच्छायां न संश्रयेत् ॥ ५ ॥
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः ।
बंधकी बन्धकीभर्तुः क्षुद्रानृतकथैः सह ॥ ६ ॥
तथातिव्ययशीलैश्च परिवादरतैः शठैः ।
बुधो मैत्रीं न कुर्वात नैकः पन्थानमाश्रयेत् ॥ ७ ॥
नावगाहेज्जलोघस्य वेगमग्रे नपेश्वर ।
प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ ८ ॥
न कुर्याद्दन्तसङ्‍घर्षं कुष्णियाच्च न नासिकाम् ।
नासंवृतमुखो जृम्भेच्छ्वासकासो विसर्जयेत् ॥ ९ ॥
नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः ।
नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥ १० ॥
न श्मश्रु भक्षयेल्लोष्टं न मृद्‌नीयाद्विचक्षणः ।
ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥ ११ ॥
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये ।
न हुङ्‍कुर्याच्छवं गन्धं शवगन्धोहि सोमज ॥ १२ ॥
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।
दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा ॥ १३ ॥
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः ।
नैकः शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥ १४ ॥
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा ।
स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ १५ ॥
नानार्यानाश्रयेत्कांश्चिन्न जिह्मं रोचयेद्‍बुधः ।
उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥ १६ ॥
अतीव जागरस्वप्ने तद्वत्स्थानासने बुधः ।
न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ १७ ॥
दंष्ट्रिणः शृङ्‌‍गिणश्चैव प्राज्ञो दूरेण वर्जयेत् ।
अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥ १८ ॥
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्‍ बुधः ।
मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥ १९ ॥
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा ।
नैकवस्त्रः प्रवर्तेत द्विजवाचनिके जपे ॥ २० ॥
नासमञ्जसशीलैस्तु सहासीत कथञ्चन ।
सद्‍बुत्तसन्निकर्षो हि क्षणार्धमपि शस्यते ॥ २१ ॥
विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः ।
विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥ २२ ॥
नारभेत कलं प्राज्ञः शुष्कवैरं च वर्जयेत् ।
अप्यल्पहानिःसोढव्या वैरेणार्थागमं त्यजेत् ॥ २३ ॥
स्नातो नाङ्‍गानि संमार्जेत्स्नानशाट्या न पाणिना ।
न च निर्धूतयेत्केशान्नाचामेच्चैव चोत्थितः ॥ २४ ॥
पादेन नाक्रमेत्पादं न पूज्याविमुखं नयेत् ।
नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥ २५ ॥
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् ।
माङ्‍गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम् ॥ २६ ॥
सोमार्काग्न्यम्बुवायूनां पूज्यानां च न संमुखम् ।
कुर्यान्निष्ठीवविण्मुत्रसमुत्सर्गं च पण्डितः ॥ २७ ॥
तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् ।
श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्‍घयेत् ॥ २८ ॥
श्लेष्मशिङ्‍घाणिकोत्सर्गो नान्नकाले प्रशस्यते ।
बलिमङ्‍गलजप्यादौ न होमे न महाजने ॥ २९ ॥
योषितो नावमन्येत न चासां विश्वसेद्‍बुधः ।
न चैवेर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन ॥ ३० ॥
मङ्‍गल्यपूर्वरत्‍नाज्यपूज्याननभिवाद्य च ।
न निष्क्रमेद्‍ गृहात्प्राज्ञःसदाचारपरो नरः ॥ ३१ ॥
चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत् ।
दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान् ॥ ३२ ॥
देवर्षिपूजकःसम्यक्‌पितृपिण्डोदकप्रदः ।
सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत् ॥ ३३ ॥
हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते ।
स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान् ॥ ३४ ॥
धीमान्ह्रीमान्क्षमायुक्तो ह्यास्तिको विनयान्वितः ।
विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥ ३५ ॥
अकालगार्जितादौ च पर्वस्वाशौचकादिषु ।
अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ ३६ ॥
समं नयति यः क्रुद्वान्सर्वबन्धुरमत्सरी ।
भीताश्वासनकृत्साधुःस्वर्गस्तस्याल्पकं फलम् ॥ ३७ ॥
वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कःसदा व्रजेत् ॥ ३८ ॥
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेद्‍ बुधः ।
युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥ ३९ ॥
दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति ।
तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥ ४० ॥
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः ।
पापेऽप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः ।
मैत्रीद्रवान्तः करणस्तस्य मुक्तिः करे स्थिता ॥ ४१ ॥
ये कामक्रोधलोभानां वीतरागा न गोचरे ।
सदाचारस्थितास्तेषामनुभावैर्धृता मही ॥ ४२ ॥
तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् ।
सत्यं यत्परदुःखाय तदा मौनपरो भवेत् ॥ ४३ ॥
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।
श्रेयस्तत्र हितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥ ४४ ॥
प्राणीनामुपकाराय यथैवेह परत्र च ।
कर्मणा मनसा वाचा तदेव मतीमान्वदेत् ॥ ४५ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे द्वादशोऽध्यायः (१२)



GO TOP