॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ एकादशोऽध्यायः ॥

सगर उवाच
गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने ।
लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ १ ॥
और्व उवाच
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् ।
सदाचारवता पुंसा जितौ लोकावुभावपि ॥ २ ॥
साधवः क्षीणदेषास्तु सच्छब्दः साधुवाचकः ।
तेषामाचरणं यस्तु सदाचारः स उच्यते ॥ ३ ॥
सप्तर्षयोऽथ मनवः प्रजानां पतयस्तथा ।
सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ ४ ॥
ब्राह्मो मुहूर्ते चोत्थाय मनसा मतिमान्नृप ।
प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥ ५ ॥
अपीडया तयोः काममुभयोरपि चिन्तयेत् ।
दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता ॥ ६ ॥
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप ।
धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ ७ ॥
ततः कल्यं समुत्थाय कुर्यान्मूत्रं नरेश्वर ॥ ८ ॥
नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ।
दूरादावसथान्मूत्र पुरीषं च विसर्जयेत् ॥ ९ ॥
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्‍गणे ॥ १० ॥
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा ।
गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ॥ ११ ॥
न कृष्टे सस्यमध्ये वा गौव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥ १२ ॥
नाप्सु नैवाम्भसस्तीरे श्मशाने न समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ १३ ॥
उदङ्‍मुखो दिवा मूत्रं विपरीतमुखो निशि ।
कुर्वितानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ १४ ॥
तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥ १५ ॥
वल्मीकमूषिकोद्‍भूतां मृदं नान्तर्जलां तथा ।
शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ॥ १६ ॥
अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन्मृदो ह्येताःसकलाः शौचकर्मणि ॥ १७ ॥
एका लिङ्‍गे गुदे तिस्त्रो दस वामकरे नृप ।
हस्तद्वये च सप्त स्युर्मृदः शौचोपपादिकाः ॥ १८ ॥
अच्छेनागन्धलेपेन जलेनाबुद्‍बुदेन च ।
आचामेच्च मृदं भूयस्तथा दद्यात्समाहितः ॥ १९ ॥
निष्पादिताङ्‌‍घ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः ।
त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ २० ॥
शिर्षण्यानि ततः खानि मूर्धानं च समालभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ २१ ॥
स्वाचान्तस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् ।
आदर्शाञ्जनमाङ्‍गल्यं दूर्वाद्यालम्भनानि च ॥ २२ ॥
ततःस्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् ।
कुर्वीत श्रद्धासम्पन्नो यजेच्च पृथिवीपते ॥ २३ ॥
सोमसंस्था हविःसंस्थाः पाकसंस्थास्तु संस्थिताः ।
धने यतो मनुष्याणां यतेतातो धनार्जने ॥ २४ ॥
नदीनदतटाकेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गिरिप्रस्त्रवणेषु च ॥ २५ ॥
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
गृहेषूद्धृततोयेन ह्यथवा भुव्यसम्भवे ॥ २६ ॥
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः ॥ २७ ॥
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।
ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥ २८ ॥
पितॄणां प्रीणनार्थाय तदपः पृथिवीपते ।
पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान् ॥ २९ ॥
मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।
दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे ॥ ३० ॥
मात्रे स्वमात्रे तन्मात्रे गुरुपत्‍न्यै तथा नृप ।
गुरूणां मातुलानां च स्निग्धमित्राय भूभूजे ॥ ३१ ॥
इदं चापि जपेदम्बु दद्यादात्मेच्छया नृप ।
उपकाराय भूतानां कृतदेवादितर्पणम् ॥ ३२ ॥
देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः ।
पिशाचा गुह्यकाःसिद्धाः कूष्माडाः पशवः खगाः ॥ ३३ ॥
जलेचरा भूनिलया वाय्वाहाराश्च जतवः ।
तृप्तिमेतेन यान्त्वाशु मद्‌दत्तेनाम्बुनाखिलाः ॥ ३४ ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामाप्यायनायैतद्‌दीयते सलिलं मया ॥ ३५ ॥
ये बान्धवाबान्धवा ये येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला यान्तु ये चास्मत्तोयकांक्षिणः ॥ ३६ ॥
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥ ३७ ॥
काम्योदकप्रदानं ते मयैतत्कथितं नृप ।
यद्दत्त्वा प्रीणयत्येतन्मनुष्यःसकलं जगत् ।
जगदाप्यायनोद्‍भूतं पुण्यमाप्नोति चानध ॥ ३८ ॥
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्रद्धयान्वितः ।
आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम् ॥ ३९ ॥
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥ ४० ॥
ततो गृहार्चनं कुर्यादभीष्टसुरपूजनम् ।
जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ॥ ४१ ॥
अपूर्वमाग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप ॥ ४२ ॥
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् ।
गृहेभ्यः काश्यपायाथ ततोऽनुमतये क्रमात् ॥ ४३ ॥
तच्छेषं मणिके पृथ्वीर्पजन्येभ्यः क्षिपेत्ततः ।
द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ॥ ४४ ॥
गृहस्य पुरषव्याघ्र दिग्देवानपि मे शृणु ॥ ४५ ॥
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे ।
प्राच्यादिषु बुधो दद्याद्धुतशेषात्मकं बलिम् ॥ ४६ ॥
प्रागुत्तरे च दिग्भागे धन्वन्तारिबलिं बुधः ।
निर्वपैद्वैश्वदेवं च कर्म कुर्यादतः परम् ॥ ४७ ॥
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् ।
ब्रह्मणे चान्तारीक्षाय भानवे च क्षिपेद्‍बलिम् ॥ ४८ ॥
विश्वेदवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् ।
यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥ ४९ ॥
ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः ।
दद्यादशेषभूतेभ्यः स्वेच्छया सुसमाहितः ॥ ५० ॥
देवा मनुष्याः पशवो वयांसि
    सिद्धाःसयक्षोरगदैत्यसङ्‍घाः ।
प्रतोः पिशाचास्तरवःसमस्ता
    ये चान्नमिच्छन्ति मयात्र दत्तम् ॥ ५१ ॥
पिपीलिकाः कीटपतङ्‍गकाद्या
    बुभुक्षिताः कर्मनिबन्धबद्धाः ।
प्रयान्ति ते तृप्तिमिदं मयान्नं
    तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ ५२ ॥
येषां न माता न पिता न बन्धु-
    र्नैवान्नसिद्धिर्न तथान्नमस्ति ।
तत्तृप्येऽन्नं भुवि दत्तमेतत्
    ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ५३ ॥
भूतानि सर्वाणि तथान्नमेत-
    दहं च विष्णुर्न ततोन्यदस्ति ।
तस्मादहं भूतनिकायभूत-
    मन्नं प्रयच्छामि भवाय तेषाम् ॥ ५४ ॥
चतुर्दशो भूतगणो य एष
    तत्र स्थिता येऽखिलभूतसङ्‍घाः ।
तृप्त्यर्थमन्नं हि मया विसृष्टं
    तेषामिदं ते मुदिता भवन्तु ॥ ५५ ॥
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः ।
भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥ ५६ ॥
श्वचण्डालविहङ्‍गानां भुवि दद्यान्नरेश्वर ।
ये चान्ये पतिताः केचिदपुत्राः सन्तिमानवाः ॥ ५७ ॥
ततो गोदोहमात्रं वै कालं तिष्ठेद्‍गृहाङ्‍गणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं तु तथैच्छया ॥ ५८ ॥
अतिथिं तत्र सम्प्राप्तं पूजयेत्स्वागदादिना ।
तथासनप्रदानेन पादप्रक्षालनेन च ॥ ५९ ॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्‍ गृही ॥ ६० ॥
अज्ञातकुलनामानमन्यदेशादुपागतम् ।
पूजयेदतिथिं सम्यङ्‍नैकग्रामनिवासिनम् ॥ ६१ ॥
अकिञ्चनमसम्बन्धमज्ञातकुलशीलिनम् ।
असम्पूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥ ६२ ॥
स्वाध्यायगोत्राचरणमपृष्ट्‌वा च तथा कुलम् ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥ ६३ ॥
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप ।
तद्देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञिकम् ॥ ६४ ॥
अन्नाग्रञ्च समुद्धृत्य हन्तकारोपकल्पितम् ।
निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥ ६५ ॥
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारीणाम् ।
इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥ ६६ ॥
इत्येतेऽतिथयः प्रोक्ताः प्रागुक्ता भिक्षवश्च ये ।
चतुरः पूजायित्वैतान्नृप पापात्प्रमुच्यते ॥ ६७ ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ६८ ॥
धाता प्रजापतिः शक्रो वह्निर्वसुगणोर्यमा ।
प्रविश्यातिथिमेते वै भुञ्जन्तेन्नं नरेश्वर ॥ ६९ ॥
तस्मादतिथिपूजायां यतेत सततं नरः ।
स केवलमघं भुङ्‍क्ते यो भुङ्‍क्ते ह्यतिथिं विना ॥ ७० ॥
ततः स्ववासिनीदुःखी गर्भिणीवृद्धबालकान् ।
भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥ ७१ ॥
अभुक्तवत्सु चैतेषु भुञ्जन्भुङ्‍क्ते स दुष्कृतम् ।
मृतश्च गत्वा नरकं श्लोष्मभुग्जायते नरः ॥ ७२ ॥
अस्नाताशी मलं भुक्ते ह्यजपी पूयशोणितम् ।
असंस्कृतान्नभुङ्‍मूत्रं बालादिप्रथमं शकृत् ॥ ७३ ॥
अहोमी च कृमीन्भुङ्‍क्ते अदत्त्वा विषमश्नुते ॥ ७४ ॥
तस्माच्छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही ।
भुञ्जतश्च यथा पुंसः पापबन्धो न जायते ॥ ७५ ॥
इह चारोग्यविपुलं बलबुद्धिस्तथा नृप ।
भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिका ॥ ७६ ॥
स्नातो तथावत्कृत्वा च देवर्षिपितृतर्पणम् ।
प्रशस्तरत्‍नपाणिस्तु भुञ्जीत प्रयतो गृही ॥ ७७ ॥
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप ।
दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च ।
पुम्यगन्धश्शस्तमाल्यधारी चैव नरेश्वर ॥ ७८ ॥
एकवस्त्रधरोऽथार्द्रपाणिपादो महीपते ।
वुशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्‍मुखः ॥ ७९ ॥
प्राङ्‍मुखोदङ्‍मुखो वापि न चैवान्यमना नरः ।
अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥ ८० ॥
न कुत्सिताहृतं नैव जुगुप्सावदसंस्कृतम् ।
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ॥ ८१ ॥
प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः ॥ ८२ ॥
नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर ।
नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोग्नये ॥ ८३ ॥
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप ।
अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात्तथा ॥ ८४ ॥
तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च ।
भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥ ८५ ॥
न शेषं पुरुषोऽश्नीयादन्यत्र जगतीपते ।
मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् ॥ ८६ ॥
अश्नीयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।
लबणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः ॥ ८७ ॥
प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये कठिनभोजनः ।
अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥ ८८ ॥
अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् ।
पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥ ८९ ॥
भुक्त्वा सम्यगथाचम्य प्राङ्‍मुखोदङ्‍मुखोऽपि वा ।
यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ॥ ९० ॥
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥ ९१ ॥
अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः ।
दत्तावकाशं नभसा जरयत्यस्तु मे सुखम् ॥ ९२ ॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ॥ ९३ ॥
प्राणापानसमानानामुदानव्यानयोस्तथा ।
अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥ ९४ ॥
अगस्तिरग्निर्वडवानलश्च
    भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं च मे त्परिणामसम्भवं
    यच्छन्त्वरोगं मम चास्तु देहे ॥ ९५ ॥
विष्णुःसमस्तेन्द्रियदेहदेही
    वृथा न भूतो भगवान्यथैकः ।
सत्येन तेनात्तमशेषमन्न-
    मारोग्यदं मे परिणाममेतु ॥ ९६ ॥
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा ।
सत्येन तेन मद्‍भुक्तं जीर्यत्यन्नमिदं तथा ॥ ९७ ॥
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप्रदायीनि कुर्यात्कर्मण्यतन्द्रितः ॥ ९८ ॥
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।
दिनं नयेत्ततःसन्ध्यामुपतिष्ठेत्समाहितः ॥ ९९ ॥
दिनान्तसन्ध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः ।
उपतिष्ठेद्‌यथान्याय्यं सम्यगाचम्य पार्थिव ॥ १०० ॥
सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥ १०१ ॥
सूर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् ।
अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥ १०२ ॥
तस्मादनुदिते सूर्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरःसन्ध्यामस्वपंश्च दिनान्तजाम् ॥ १०३ ॥
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वं न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तमिस्त्रं नरकं नृप ॥ १०४ ॥
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्‍न्यमन्नं बलिं हरेत् ॥ १०५ ॥
तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम् ॥ १०६ ॥
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्‍बुधः ।
पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ।
ततश्चान्नप्रदानेन शयनेन च पर्थिव ॥ १०७ ॥
दिवातिथौ तु विमुखे गते यत्पातकं नृप ।
तदेवाष्टगुणं पुंसःसूर्योढे विमुखे गते ॥ १०८ ॥
तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः ।
पूजयेत्पूजिते तस्मिन्पूजिताःसर्वदेवता ॥ १०९ ॥
अन्नशाकाम्बुदानेन स्वशक्त्या पूजयेत्पुमान् ।
शयनप्रस्तरमहीप्रदानैरथवापि तम् ॥ ११० ॥
सृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही ।
गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ॥ १११ ॥
नाविशालां न वै भग्नां नासमां मलिनां न च ।
नच जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥ ११२ ॥
प्राच्यां दिशि शिरःशस्तं याम्यायामथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ ११३ ॥
ऋतावुपगमः शस्तःस्वपत्‍न्यामवनीपते ।
पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥ ११४ ॥
नाद्युनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम् ॥ ११५ ॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुर्णैर्युतः ॥ ११६ ॥
स्नातःस्रग्गन्धधृक्प्रीतो नाध्मातः क्षुधितोपि वा ।
सकामःसानुरागश्च व्यवायं पुरुषो व्रजेत् ॥ ११७ ॥
चतुर्दश्यष्टमी चैव तथामा चाथ पूर्णिमा ।
पर्वाण्येतानि राजन्द्र रवीसंक्रान्तिरेव च ॥ ११८ ॥
तैलस्त्रीमाससम्भोगी सर्वैष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ ११९ ॥
अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः ।
भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥ १२० ॥
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा ।
द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् ॥ १२१ ॥
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते ॥ १२२ ॥
प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः ।
गच्छेद्‌व्यवायं मनसा न मूत्रोच्चारपीडितः ॥ १२३ ॥
पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ।
भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥ १२४ ॥
परदारान्न गच्छेच्च मनसापि पथञ्चन ।
किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम् ॥ १२५ ॥
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः ।
परदाररतिः पुंसामिह चामुत्र भीतिदा ॥ १२६ ॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥ १२७ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे एकादशोऽध्यायः (११)



GO TOP