|
॥ विष्णुपुराणम् ॥ तृतीयः अंशः ॥ दशमोऽध्यायः ॥
सगर उवाच
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ १ ॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ २ ॥ और्व उवाच यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥ ३ ॥ जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ ४ ॥ युग्मांस्तु प्राङ्मुखान्विप्रान्भोजयेन्मनुजेश्वर । यथा वृत्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ ५ ॥ दध्ना यवैः सबदरैर्मिश्रान्पिडान्मुदा युतः । नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ ६ ॥ प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥ ७ ॥ ततश्च नाम कुर्वीत पितैव दशमेऽहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ ८ ॥ शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुद्रयोः ॥ ९ ॥ नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात्समाक्षरम् ॥ १० ॥ नातिदीर्घं नातिह्रस्वं नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम् ॥ ११ ॥ ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ १२ ॥ गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ १३ ॥ ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । गुरोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ १४ ॥ वैखानसो वापि भवेत्परिव्राडथ वेच्छया । पूर्वसंकल्पितं यादृक् तादृक्कुर्यान्नराधिप ॥ १५ ॥ वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणःस्वयम् । नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ १६ ॥ निसर्गतोऽधिकाङ्गीं वा न्यूनाङ्गीमपि नोद्वहेत् । नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम् ॥ १७ ॥ न दुष्टां दुष्टवाक्यां वा व्यंगिनीं पितृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ १८ ॥ न घर्वरस्वरां क्षामां तथा काकस्वरां न च । नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः ॥ १९ ॥ यस्याश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ । गण्डयोः कूपरौ यस्या हसन्त्यास्तां न चोद्वहेत् ॥ २० ॥ नातिरूक्षच्छविं पाण्डुकरजामरुणेक्षणाम् । आपीनहस्तपादां च नकन्यामुद्वहेद् बुधः ॥ २१ ॥ न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः ॥ २२ ॥ पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ २३ ॥ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वराक्षयौ चान्यौ पैशाचश्चाष्टमो मतः ॥ २४ ॥ एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ २५ ॥ सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम् ॥ २६ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे दशमोऽध्यायः (१०) |