|
॥ विष्णुपुराणम् ॥ तृतीयः अंशः ॥ नवमोऽध्यायः ॥
और्व उवाच
बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥ १ ॥ शौचाचारव्रतं तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ २ ॥ उभे सन्ध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तदा कुर्याद्गुरोरप्यभिवादनम् ॥ ३ ॥ स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न सञ्चरेत् ॥ ४ ॥ तेनै वोक्तं पठेद्वेदं नान्यचित्तः पुरःस्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ ५ ॥ अवगाहेदपः पूर्वमाचार्येणावगाहितः । समिज्जलादिकं चास्य कल्यं कल्यमुपानयेत् ॥ ६ ॥ गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य च । गार्हस्थ्यमाविशेत्प्राज्ञो निष्पन्नगुरुणिष्कृतिः ॥ ७ ॥ विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः ॥ ८ ॥ निवापेन पितॄर्चन्यज्ञैर्देवांस्तथातिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ ९ ॥ भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ १० ॥ भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः । तेप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ ११ ॥ वेदाहरणकार्याय तीर्थस्नानाय च प्रभो । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ १२ ॥ अनिकेता ह्यनाहारा यत्र सायङ्गृहाश्च ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥ १३ ॥ तेषां स्वागतदानादि वक्तव्यं मधुरं नृप । गृहागतानां दद्याच्च शयनासनभोजनम् ॥ १४ ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १५ ॥ अवज्ञानमहङ्कारो दम्भश्चैव गृह सतः । परितापोपघातौ च पारुष्यं च न शस्यते ॥ १६ ॥ यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् । सर्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥ १७ ॥ वयःपरीणतो राजन्कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ १८ ॥ पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत्तत्र मुनिःसर्वातिथिर्नृप ॥ १९ ॥ चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वरः ॥ २० ॥ देवताभ्यर्चनं होमःसर्वाभ्यागतपूजनम् । भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर ॥ २१ ॥ वन्यस्त्नेहेन गात्राणामभ्यङ्गश्चास्य शस्यते । तपश्च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥ २२ ॥ यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ २३ ॥ चतुर्थश्चाश्रमो भिक्षोः प्रोज्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ २४ ॥ पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ २५ ॥ त्रैवर्गिकांस्त्यजेत्सर्वानारम्भानवनीपते । मित्रादिषु समो मैत्रःसमस्तेष्वेव जन्तुषु ॥ २६ ॥ जरायुजाण्डजादीनां वाड्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ २७ ॥ एकारात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥ २८ ॥ प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद् गृहान् ॥ २९ ॥ कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु सर्वान्परित्यज्य परिव्राड् निर्ममो भवेत् ॥ ३० ॥ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ ३१ ॥ कृत्वाग्निहोत्रंस्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर्हविर्भि- श्चिताग्निकानां व्रहति स्म लोकान् ॥ ३२ ॥ मोक्षोश्रमं यश्चरते यथोक्तं शुचिःसुखं कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः ॥ ३३ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे नवमोऽध्यायः (९) |