|
॥ विष्णुपुराणम् ॥ तृतीयः अंशः ॥ सप्तमोऽध्यायः ॥
मैत्रेय उवाच
यथा वत्कथितं सर्वं यत्पृष्टोऽसि मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ १ ॥ सप्तद्वीपानि पातालविधयश्च महामुने । स्पतलोकाश्च येऽन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥ २ ॥ स्थूलैः सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मात्सूक्ष्मतरैस्तथा । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥ ३ ॥ अङ्गुलस्याष्टभागोपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ४ ॥ सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुष्याऽते तथा यान्ति यातनास्तत्प्रचोदिताः ॥ ५ ॥ यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ६ ॥ सोहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत्कर्म कथयस्व मे ॥ ७ ॥ श्रीपराशर उवाच अयमेव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व मे ॥ ८ ॥ भीष्ण उवाच पुरा ममागतो वत्स सखा कालिङ्गको द्विजः । स मामुवाच प्रष्टो वै मया जातिस्मरो मुनिः ॥ ९ ॥ तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ १० ॥ स पृष्टश्च मया भूयः श्रद्दधानेन वै द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ११ ॥ एकदा तु मया पृष्टमेतद्यद्भवतोदितम् । प्राह कालिङ्गको विप्रःस्मृत्वा तस्य मुनेर्वचः ॥ १२ ॥ जातिस्मरेण कथितो रहस्यः परमो मम । यमकिङ्करयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥ १३ ॥ कालिङ्ग उवाच स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान्- प्रभुरहमन्यनृणामवैष्णवानाम् ॥ १४ ॥ अहममरवरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ १५ ॥ कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभि- र्हरिरखिलाभिरुदीर्यते तथैकः ॥ १६ ॥ क्षितितलपरमाणवोऽनिलान्ते पुनरुपयान्ति यथैकतां धरित्र्याः । सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ॥ १७ ॥ हरिममरवरार्चिताङ्घ्रिपद्मं- प्रणमति यः परमार्थतो हि मर्त्यः । तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ १८ ॥ इति यमवचनं निशम्य पाशी यम पुरुषस्तमुवाच धर्मराजम् । कथय मम विभो समस्तधातु- र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥ १९ ॥ यम उवाच न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किञ्चिदुच्चैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ २० ॥ कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतस्तमेनम् । मनसि कृतजनार्दनं मनष्यं सततमवेहि हरेरतीवभक्तम् ॥ २१ ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यःसमवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ २२ ॥ स्फटिकगिरिशिलामलः क्व विष्णु- र्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ २३ ॥ विमलमतिरमत्सरः प्रशान्त- श्शुचिचरितोखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ २४ ॥ वसति हृदिसनातने च तस्मिन् भवति पुमाञ्जगतोस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥ २५ ॥ यमनियमविधूत कल्पषाणा- मनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां त्यज भट दूरतरेण मानवानाम् ॥ २६ ॥ हृदि यदि भगवाननादिरास्ते हरिरसिशङ्खगदाधरोव्ययात्मा । तदघमघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के ॥ २७ ॥ हरति परधनं निहन्ति जन्तून् वदति तथाऽनृतनिष्ठुराणि यश्च । अशुभजनितदुरमदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ २८ ॥ न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य ॥ २९ ॥ परमसुहृदिबान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३० ॥ अशुभमतिरसत्प्रवृत्ति सक्त- स्सततमनार्यकुशीलसङ्गमत्तः । अनुदिनकृतपापबन्धयुक्तः परुषपशुर्न हि वासुदेवभक्तः ॥ ३१ ॥ सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरचलाभवत्यनन्ते हृदयगते व्रजतान्विहाय दूरात् ॥ ३२ ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भवशरणमितिरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ ३३ ॥ वसति मनसि यस्य सोव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथ वा ममास्ति चक्र- प्रतिहतवीर्यबलस्य सोऽन्यलोक्यः ॥ ३४ ॥ कालिङ्ग उवाच इति निजभटशासनाय देवो रवितनयस्य किलाह धर्मराजः । मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ३५ ॥ श्रीभीष्म उवाच नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिङ्गदेशादभ्येत्य प्रीतेन सुमहात्मना ॥ ३६ ॥ मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृते नान्यत्त्राणां संसारसागरे ॥ ३७ ॥ किङ्कराः पाशदण्डाश्च न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालम्बनःसदा ॥ ३८ ॥ श्रीपराशर उवाच एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तमोऽध्यायः (७) |