|
॥ विष्णुपुराणम् ॥ तृतीयः अंशः ॥ षष्ठोऽध्यायः ॥
श्रीपराशर उवाच
सामवेदतरोः शाखा व्यासशिष्यस्य जैमिनिः । क्रमेण येन मैत्रेय विभेदशृणु तन्मम ॥ १ ॥ सुसन्तुस्तस्य पुत्रोऽभूत्सुकर्मास्याप्यभूत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ महामती ॥ २ ॥ सहस्रसंहिताभेदं सुकर्मातत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥ ३ ॥ हिरण्यनाभः कौसल्यः पौष्पिञ्जिश्च द्विजोत्तम । उदीच्याःसामगाः शिष्यास्तस्य पञ्चशतं स्मृताः ॥ ४ ॥ हिरण्यनाभात्तावत्यःसंहिता यैर्द्विजोत्तमैः । गृहीतास्तेपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ ५ ॥ लोकाक्षिर्नौधमिश्चैव कक्षिवाँल्लाङ्गलिस्तथा । पौष्पिञ्जिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥ ६ ॥ हिरण्यनाभशिष्यस्तु चतुर्विंशतिसंहिताः । प्रोवाच कृतनामासौ शिष्येभ्यश्च महामुनिः ॥ ७ ॥ तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः । अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स मुनिःसुमन्तुरमितद्युतिः ॥ ८ ॥ शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा । कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥ ९ ॥ देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा । शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम ॥ १० ॥ पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज संहिताः । जाबालिः कुमुदादिश्च तृतीयः शौनको द्विज ॥ ११ ॥ शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे । द्वितीयां संहितां प्रादात्सैन्धवाय य संज्ञिने ॥ १२ ॥ सैन्धवान्मुञ्जिकेशश्च द्वेधभिन्नास्त्रिधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ १३ ॥ चतुर्थःस्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः । श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ १४ ॥ आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः । पुराणसंहितां चक्रेपुराणार्थविशारदः ॥ १५ ॥ प्रख्यातो व्यासशिष्योऽभूत्सूतो वै रोमहर्षणः । पुरामसंहितां तस्मै ददौ व्यासो महामतिः ॥ १६ ॥ सुमतिश्चाग्निवर्चाश्च मित्रायुःशांसपायनः । अकृतव्रणसावर्णि षट्शिष्यास्तस्य चाभवन् ॥ १७ ॥ काश्यपः संहिताकर्ता सावर्णिः शांसपायनः । रोमहर्षाणिका चान्या तिसॄणां मूलसंहिता ॥ १८ ॥ चतुष्टयेन भेदेन संहितानामिदं मुने ॥ १९ ॥ आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते । अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥ २० ॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ २१ ॥ आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् । दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ॥ २२ ॥ वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशंवामनं च कौर्मं पञ्चदशं तथा ॥ २३ ॥ मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । महापुराणान्येतानि ह्यष्टादश महामुने ॥ २४ ॥ तथा चोपपुराणानि मुनिभिः कथितानि च । सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । सर्वेष्वेतेषु कथ्यन्ते वंशानुचरीतं च यत् ॥ २५ ॥ यदेतत्तव मैत्रेय पुराणं कथ्यते मया । एतद्वैष्णवसंज्ञं वै पाद्मस्यसमनन्तरम् ॥ २६ ॥ सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान्विष्णुरशेषेष्वेव सत्तम ॥ २७ ॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ २८ ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः ॥ २९ ॥ ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ॥ ३० ॥ इति शाखाःसमाख्यातः शाखाभेदास्तथैव च । कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः ॥ ३१ ॥ सर्वमन्वन्तरेष्वेवं शाखाभेदाःसमाः स्मृताः । प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ ३२ ॥ एतत्ते कथितं सर्वं यत्पृष्टोहमिह त्वया । मैत्रेय वेदसम्बन्धः किमन्यत्कथयामि ते ॥ ३३ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेः षष्ठोध्यायः (६) |