॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ पञ्चमोऽध्यायः ॥

श्रीपराशर उवाच
यजुर्वेतदरोश्शाखाःसप्तविंशन्महामुनिः ।
वैशम्पायननामासो व्यासशिष्यश्चकार वै ॥ १ ॥
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेप्यनुक्रमात् ॥ २ ॥
याज्ञवल्क्यस्तु तत्राभूद्‍ब्रह्मरातसुतो द्विज ।
शिष्यः परमधर्मज्ञो गुरुवृत्तिपरःसदा ॥ ३ ॥
ऋषिर्योद्य महामेरोः समाजे नागमिष्यति ।
तस्य वै सप्तरात्रात्तु ब्रह्महत्त्या भविष्यति ॥ ४ ॥
पूर्वमेवं मुनिगणैः समयो यः कृतो द्विज ।
वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥ ५ ॥
स्वस्त्रीयं बालकं सोऽथ पदा स्पृष्टमघातयत् ॥ ६ ॥
शिष्यानाह स भोः शिष्या ब्रह्महत्यापहं व्रतम् ।
चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥ ७ ॥
अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन्द्विजैः ।
क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥ ८ ॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् ।
मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक ॥ ९ ॥
निस्तेजसो वदस्येनान्यत्त्वं ब्राह्मणपुङ्‍गवान् ।
तेन शिष्येण नार्थोस्ति ममाज्ञाभङ्‍गकारिणा ॥ १० ॥
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् ।
ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥ ११ ॥
श्रीपराशर उवाच
इत्युक्तो रुधिराक्तानि सरूपाणि यजूंषि सः ।
छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनि ॥ १२ ॥
यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज ।
जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥ १३ ॥
ब्रह्महत्त्याव्रतं चीर्णं गुरुणा चोदितैस्तु तैः ।
चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम ॥ १४ ॥
याज्ञवल्क्योपि मैत्रेय प्राणायामपरायणः ।
तृष्टाव प्रयतःसूर्यं यजूंष्यभिलषंस्ततः ॥ १५ ॥
याज्ञवल्क्य उवाच
नमः सवित्रे द्वाराय मुक्तेरमिततेजसे ।
ऋग्यजुःसामभूताय त्रयीधाम्ने च ते नमः ॥ १६ ॥
नमोऽग्नीषोमभूताय जगतः कारणात्मने ।
भास्कराय परं तेजःसौषुम्नरुचिबिभ्रते ॥ १७ ॥
कलाकाष्ठानिमेषादिकालज्ञानात्मरूपिणे ।
ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥ १८ ॥
बिभर्ति यःसुरगणानाप्यायेन्दुं स्वरश्मिभिः ।
स्वधामृतेन च पितृंस्तस्मै तृप्त्यात्मने नमः ॥ १९ ॥
हिमाम्बुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः ।
तस्मै त्रिकालरूपाय नमःसूर्यायवेधसे ॥ २० ॥
अपहन्ति तभो यश्च जगतोऽस्य जगत्पतिः ।
सत्त्वधामधरो देवो नमस्तस्मै विवस्वते ॥ २१ ॥
सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् ।
यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥ २२ ॥
स्पृष्टो यदंशुभिर्लोकः क्रियायोग्यो हि जायते ।
पवित्रताकारणाय तस्मै शुद्धात्मने नमः ॥ २३ ॥
नमः सवित्रे सूर्याय भास्कराय विवस्वते ।
आदित्यायादिभूताय देवादीनां नमो नमः ॥ २४ ॥
हिरण्मयं रथं यस्य केतवोऽमृतवाजिनः ।
वहन्ति भुवनालोकचक्षुषं तं नमाम्यहम् ॥ २५ ॥
श्रीपराशर उवाच
इत्येवमादिभिस्तेन स्तूयमानः स वै रविः ।
वाजिरूपधरः प्राह व्रीयतामिति वाञ्छितम् ॥ २६ ॥
याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् ।
यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥ २७ ॥
श्रीपराशर उवाच
एवमुक्तो ददौ तस्मै यजूंषि भगवान् रविः ।
अयातयामसंज्ञानि यानि वेत्ति न तद्‍गुरुः ॥ २८ ॥
यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम ।
वाजिनस्ते समाख्याताः सूर्योप्यश्वोऽभवद्यतः ॥ २९ ॥
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।
काण्वाद्याःसुमहाभागा याज्ञवल्क्याः प्रकीर्तिताः ॥ ३० ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चमोऽध्यायः (५)



GO TOP