॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ चतुर्थोऽध्यायः ॥

श्रीपराशर उवाच
क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ १ ॥
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः ।
स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ २ ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ ३ ॥
सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ ४ ॥
पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा ।
आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ ५ ॥
मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ ६ ॥
गोमदेश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।
सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ ७ ॥
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।
वसन्ति देवगन्धर्वसहिताः सततं प्रजाः ॥ ८ ॥
तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः ।
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ ९ ॥
तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ १० ॥
अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमा ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ ११ ॥
एते शैलास्तथा नद्यः प्रधानाः कथितास्तव ।
क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः ।
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तुते ॥ १२ ॥
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज ।
न त्वेवास्ति युगावस्था तेषु स्थानेषु सप्तसु ॥ १३ ॥
त्रेतायुगसमः कालः सर्वदैव महामते ।
प्लक्षद्वीपादिषु ब्रह्मञ्छाकद्वीपान्तिकेषु वै ॥ १४ ॥
पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः ।
धर्मः पञ्च तथैतेषु वर्णाश्रमविभागशः ॥ १५ ॥
वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥ १६ ॥
आर्यकाः कुरराश्चैव विदिश्या भाविनश्च ते ।
विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ १७ ॥
ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः ।
प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम ॥ १८ ॥
इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः ।
सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ १९ ॥
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ २० ॥
इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः ।
संक्षेपेण मया भूयः शाल्मलं मे निशामय ॥ २१ ॥
शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुताञ्छृणु ।
तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ २२ ॥
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ २३ ॥
शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः ।
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २४ ॥
तत्रापि पर्वताः सप्त विज्ञेया रत्‍नयोनयः ।
वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ २५ ॥
कुमुदश्चचोन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २६ ॥
कङ्‍कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ २७ ॥
योनिस्तोया वितृष्णा च चन्द्रा मुक्ता विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २८ ॥
श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा ।
जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् ।
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ २९ ॥
शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने ।
कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् ॥ ३० ॥
ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्ति तम् ।
भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितिम् ॥ ३१ ॥
देवानामत्र सान्निध्यमतीव सुमनोहरे ।
शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ ३२ ॥
एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ ३३ ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।
शाल्मलस्य तु विस्तराद् द्विगुणेन समन्ततः ॥ ३४ ॥
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान् ॥ ३५ ॥
उद्‌भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः ।
प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ॥ ३६ ॥
तस्मिन्वसन्ति मनुजाः सह दैतेयदानवैः ।
तथैव देवगन्धर्वयक्षकिम्पुरुषादयः ॥ ३७ ॥
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।
दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥ ३८ ॥
ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ ३९ ॥
यथोक्तकर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते ।
तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् ।
यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥ ४० ॥
विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ।
कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ ४१ ॥
वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने ।
नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ ४२ ॥
धूतपापा शिवा चैव पवित्रा संमतिस्तथा ।
विद्युदम्भा मही चान्या सर्वपापहरास्त्विमाः ॥ ४३ ॥
अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ।
कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ ४४ ॥
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ।
घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ ४५ ॥
क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् ।
कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः ॥ ४६ ॥
क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः ।
तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ ४७ ॥
कुशलो मन्दगश्चोष्णः पीवरोथान्धकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ ४८ ॥
तत्रापि देवगन्धर्वसेविताः सुमनोहराः ।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ ४९ ॥
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ।
चतुर्थो रत्‍नशैलश्च स्वाहिनी हयसन्निभः ॥ ५० ॥
दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् ।
दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ।
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥ ५१ ॥
वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च ।
निवसन्ति निरातङ्‍काः सह देवगणैः प्रजाः ॥ ५२ ॥
पुष्कराः पुष्कला धन्यास्तिष्याख्याश्च महामुने ।
ब्रह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः ॥ ५३ ॥
नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः ।
सप्तप्रधानाः शतशस्तत्रान्याः क्षुद्रनिम्नगाः ॥ ५४ ॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ ५५ ॥
तत्रापि विष्णुर्भगवान्पुष्काराद्यैर्जानार्दनः ।
यागै रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥ ५६ ॥
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च ।
आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः ॥ ५७ ॥
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ।
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामुने ॥ ५८ ॥
शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ।
सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः ॥ ५९ ॥
जलदश्च कुमारश्च सुकुमारो मरीचकः ।
कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ ६० ॥
तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ।
तत्रापि पर्वताः सप्त वर्षविच्छेदकारिणः ॥ ६१ ॥
पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः ।
तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज ।
आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ ६२ ॥
शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः ।
यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ ६३ ॥
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ ६४ ॥
सुकुमारी कुमारी च नलिनी धेनुका च या ।
इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ ६५ ॥
अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने ।
महीधरास्तथा सन्ति शतशोऽथ सहस्रशः ॥ ६६ ॥
ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ।
वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ ६७ ॥
धर्महानिर्न तेष्वस्ति न सङ्‍घर्षः परस्परम् ।
मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ ६८ ॥
मगाश्च मागधाश्चैव मानसा मन्दगास्तथा ।
मगा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा ।
वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः ॥ ६९ ॥
शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो मुने ।
यथोक्तौरिज्यते सम्यक्‌कर्मभिर्नियतात्मभिः ॥ ७० ॥
शाकद्वीपस्तु मैत्रेय क्षिरोदेन समावृतः ।
शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ ७१ ॥
क्षिराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः ।
द्वीपेन शाकद्वीपात्तु द्वीगुणेन समन्ततः ॥ ७२ ॥
पुष्करे सवनस्यापि महावीरोऽभवत्सुतः ।
धातुकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते ।
महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम् ॥ ७३ ॥
एकश्चात्र महाभाग प्रख्यातो वर्षपर्वतः ।
मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ ७४ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ ७५ ॥
पुष्करद्वीपवलयं मध्येन विभजन्निव ।
स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम् ॥ ७६ ॥
वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ ७७ ॥
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ।
विरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥ ७८ ॥
अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज ।
नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ ७९ ॥
महावीरं बहिर्वर्षं धातकीखण्डमन्ततः ।
मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ ८० ॥
सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते ।
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ ८१ ॥
तुल्यवेषास्तु मनुजा देवास्तत्रैकरूपिणः ।
वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् ॥ ८२ ॥
त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ।
वर्षद्वयं तु मैत्रेय भौमः स्वर्गोऽयमुत्तमः ॥ ८३ ॥
सर्वर्तुसुखदः कालो जरारोगादिवर्जितः ।
धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥ ८४ ॥
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ।
तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ ८५ ॥
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ।
समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ ८६ ॥
एवं द्वीपाः समुद्रैश्च सप्त सप्तभिरावृताः ।
द्वीपश्चैव समुद्रश्च समानो द्विगुणौ परौ ॥ ८७ ॥
पयांसि सर्वदा सर्वसमुद्रेषु समानि वै ।
न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ ८८ ॥
स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथा ।
तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम ॥ ८९ ॥
अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ।
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ ९० ॥
दशोत्तराणि पञ्चैव ह्यङ्‍गुलानां शतानि वै ।
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां महामुने ॥ ९१ ॥
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ।
षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ ९२ ॥
स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ।
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ ९३ ॥
लोकालोकस्ततश्शैलो योजनायुतविस्तृतः ।
उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ ९४ ॥
ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् ।
तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ ९५ ॥
पञ्चशत्कोटिविस्तारा सेयमुर्वी महामुने ।
सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ ९६ ॥
सेयं धात्री विधात्री च सर्वभूतगुणाधिका ।
आधारभूता सर्वेषां मैत्रेय जगतामिति ॥ ९७ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे चतुर्थोऽध्यायः (४)



GO TOP