॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ पञ्चदशोऽध्यायः ॥

श्रीपराशर उवाच
इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् ।
प्रत्युवाचाथ विप्रोऽसावद्वैतान्तर्गतां कथाम् ॥ १ ॥
ब्राह्मण उवाच
श्रूयतां नृपशार्दूल यद्‍गीतमृभुणा पुरा ।
अवबोधं जनयता निदाघस्य महात्मनः ॥ २ ॥
ऋभुनामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः ।
विज्ञाततत्त्वसद्‍भावो निसर्गादेव भूपते ॥ ३ ॥
तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा ।
प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥ ४ ॥
अवाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना ।
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ ५ ॥
देविकायास्तटे वीरनगरं नाम वै पुरम् ।
समृद्धमतिरम्यं च पुलस्त्येन विवेशित्म ॥ ६ ॥
रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम ।
निदाघो नाम योगज्ञ ऋभुशिष्योऽवसत्पुरा ॥ ७ ॥
दिव्ये वर्षसहस्रे तु समतीतेऽस्य तत्पुरम् ।
जगाम स ऋभुः शिष्यं निदाघमवलोककः ॥ ८ ॥
स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे ।
स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः ॥ ९ ॥
प्रक्षालिताङ्‌‍घ्रिपाणिं च कृतासनपरिग्रह्म ।
उवाच स द्विजाश्रेष्ठो भुज्यतामिति सादरम् ॥ १० ॥
ऋभुरुवाच
भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गृहे ।
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥ ११ ॥
निदाघ उवाच
सक्तुयावकवाट्यानामपूपानां च मे गृहे ।
यद्‌रोचते द्विजश्रेष्ठ तत्त्वं भुक्ष्व यथेच्छया ॥ १२ ॥
ऋभुरुवाच
कदन्नानि द्विजैतानि मृष्टमन्नं प्रयच्छ मे ।
संयावपायसादीनि द्रप्सफाणितवन्ति च ॥ १३ ॥
निदाघ उवाच
हे हे शालिनि मद्‍गेहे यत्किञ्चिदतिशोभनम् ।
भक्ष्योपसाधनं मृष्टं तेनास्यान्नं प्रसाधय ॥ १४ ॥
ब्राह्मण उवाच
इत्युक्ता तेन सा पत्‍नी मृष्टमन्नं द्विजस्य यत् ।
प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥ १५ ॥
तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् ।
निदाधः प्राह भूपाल प्रश्रयावनतः स्थितः ॥ १६ ॥
निदाघ उवाच
अपिते परमा तृप्तिरुत्पन्ना तुष्टिरेव च ।
अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ॥ १७ ॥
क्वनिवासो भवान्विप्र क्व च गन्तुं समुद्यतः ।
आगम्यते च भवता यतस्तच्च द्विजोच्यताम् ॥ १८ ॥
ऋभुरुवाच
क्षुद्यस्य तस्य भुक्तेऽन्ने तृप्तिर्ब्राह्मण जायते ।
न मे क्षुन्नाभवत्तृप्तिः कस्मान्मां परिपृच्छसि ॥ १९ ॥
वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्‍भवः ।
भवत्यम्भसि च क्षीणे नृणां तृडपि जायते ॥ २० ॥
क्षुत्तुष्णे देहधर्माख्ये न ममैते यतो द्विज ।
ततः क्षुत्सम्भवाभावात्तृप्तिरस्त्येव मे सदा ॥ २१ ॥
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ।
चेतसो यस्य तत्पृच्छ पुमानेभिर्न युज्यते ॥ २२ ॥
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया ।
कुताश्चागम्यते तत्र त्रितयेपि निबोध मेः ॥ २३ ॥
पुमान्सर्वगतो व्यापी आकाशवदयं यतः ।
कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथम् ॥ २४ ॥
सोऽहं गन्ता न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम् ॥ २५ ॥
मृष्टं न मृष्टमप्येषा जिज्ञासा मे कृता तव ।
किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम ॥ २६ ॥
किमस्वाद्वथ वा मृष्टं भुञ्जतोऽस्ति द्विजोत्तम ।
मृष्टमेव यदामृष्टं तदेवोद्वेगकारकम् ॥ २७ ॥
अमृष्टं जायते मृष्टं मृष्टादुद्विजते जनः ।
आदिमध्यावसानेषु किमन्नं रुचिकारकम् ॥ २८ ॥
मृण्मयं हि गृहं यद्वन्मृदा लिप्तं स्थिरं भवेत् ।
पर्थिवोयं तथा देहः पार्थिवैः परमाणुभिः ॥ २९ ॥
यवगोधूममुद्‍गादि घृतं तैलं पयो दधि ।
गुडं फलादीनि तथा पार्थिवाः परमाणवः ॥ ३० ॥
तदेतद्‍भवता ज्ञात्वा मृष्टामृष्टविचारि यत् ।
तन्मनःसमतालम्बि कार्यं साम्यं हि मुक्तये ॥ ३१ ॥
ब्राह्मण उवाच
इत्याकर्ण्य वचस्तस्य परमार्थश्रितं नृप ।
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ ३२ ॥
प्रसीद मद्धितार्थाय कथ्यतां यत्त्वमागतः ।
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्वीज ॥ ३३ ॥
ऋभुरुवाच
ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।
इहागतोऽहं यास्यामि परमार्थस्तवोदितः ॥ ३४ ॥
एवमेकमिदं विद्धि न भेदि सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥ ३५ ॥
ब्राह्मण उवाच
तथेत्युक्त्वा निदाघेन प्रणिपातपुरःसरम् ।
पूजतः परया भक्त्या इच्छातः प्रययावृभुः ॥ ३६ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे पञ्चदशोऽध्यायः (१५)



GO TOP