सत्संगधारा - विष्णुपुराण - द्वितीयः अंशः - षोडशोऽध्यायः



॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ षोडशोऽध्यायः ॥

ब्राह्मण उवाच
ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर ।
निदाघज्ञानदानाय तदेव नगरं ययौ ॥ १ ॥
नगरस्य बहिः सोऽथ निदाघं ददृशे मुनिः ।
महीबलपरीवारे पुरं विशति पार्थिवे ॥ २ ॥
दूरे स्थितं महाभागं जनसंमर्दवर्जकम् ।
क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ ३ ॥
दृष्ट्‍वा निदाघं स ऋभुरुपगम्याभिवाद्य च ।
उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥ ४ ॥
निदाघ उवाच
भो विप्र जनसंमर्दो महानेष नरेश्वरः ।
प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया ॥ ५ ॥
ऋभुरुवाच
नराधिपोत्र कतमः कतमश्चेतरोजनः ।
कथ्यतां मे द्विज श्रेष्ठ त्वमभिज्ञो मतो मम ॥ ६ ॥
निदाघ उवाच
योयं गजेन्द्रमुन्मत्तमद्रिशृङ्‍गसमुच्छ्रितम् ।
अधिरूढो नरेद्रोऽयं परिलोकस्तथेतरः ॥ ७ ॥
ऋभुरुवाच
एतौ हि गजराजानौ युगपद्दर्शितौ मम ।
भवता न विशेषेण पृथक्‌चिह्नोपलक्षणौ ॥ ८ ॥
तत्कथ्यतां महाभाग विशेषो भवतानयोः ।
ज्ञातुमिच्छाम्यहं कोत्र गजः को वा नराधिपः ॥ ९ ॥
निदाघ उवाच
गजो योऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ।
वाह्यवाहकसम्बन्धं को न जानानि वै द्विज ॥ १० ॥
ऋभुरुवाच
जानाम्यहं यथा ब्रह्यंस्तथा मामवबोधय ।
अधःशब्दनिगद्यं हि किं चोर्ध्वमभिधीयते ॥ ११ ॥
ब्राह्मण उवाच
इत्युक्तः सहसारुह्य निदाघः प्राह तमृभुम् ।
श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ १२ ॥
उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा ।
अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ १३ ॥
ऋभुरुवाच
त्वं राजेन द्विजश्रेष्ठ स्थितोहं गजवद्यदि ।
तदेतत्त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ १४ ॥
ब्राह्मण उवाच
इत्युक्तः सत्वरं तस्य प्रगृह्य चरणावुभौ ।
निदाघस्त्वाह भगवानाचार्यस्त्वमृभुर्ध्रुवम् ॥ १५ ॥
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ।
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ १६ ॥
ऋभुरुवाच
तवोपदेशदानाय पूर्वशुश्रुषणादृतः ।
गुरुस्नेहादृभुर्नाम निदाघ समुपागतः ॥ १७ ॥
तदेतदुपदिष्टं ते संक्षेपेण महामते ।
परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥ १८ ॥
ब्राह्मण उवाच
एवमुक्त्वा ययौ विद्वान्निदाघं स ऋभुर्गुरुः ।
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ॥ १९ ॥
सर्वभूतान्यभेदेन ददृशे स तदात्मनः ।
यथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः ॥ २० ॥
तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः ।
भव सर्गगतं जानन्नात्मानमवनीपते ॥ २१ ॥
सितनीलादिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २२ ॥
एकः समस्तं यदिहास्ति किञ्चि-
    त्तदच्युतो नास्ति परं ततोन्यत् ।
सोऽहं स च त्वं स च सर्वमेत-
    दात्मस्वरूपं त्यज भेदमोहम् ॥ २३ ॥
श्रीपराशर उवाच
इतीरितस्तेन स राजवर्य-
    स्तत्याज भेदं परमार्थदृष्टिः ।
स चापि जातिस्मरणाप्तबोध-
    स्तत्रैव जन्मन्यपवर्गमाप ॥ २४ ॥
इति भरतनरेन्द्रसारवृत्तं
    कथयति यश्च शृणोति भक्तियुक्तः ।
स विमलमतिरेति नात्ममोहं
    भवति च संसरणेणु मुक्तियोग्यः ॥ २५ ॥
इति श्रीविष्णुमहापुराणे द्वितीये‍ऽशे षोडशोऽध्यायः (१६)
इति श्रिविष्णुमहापुराणे द्वितीयोंऽशः समाप्तः



GO TOP