सत्संगधारा - विष्णुपुराण - द्वितीयः अंशः - चतुर्दशोऽध्यायः



॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ चतुर्दशोऽध्यायः ॥

श्रीपराशर उवाच
निशम्य तस्येति वचः परमार्थसमन्वितम् ।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ १ ॥
राजोवाच
भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः ।
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ २ ॥
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु ।
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ ३ ॥
नाहं वहामि शिबिकां शिबिका न मयि स्थिता ।
शरीरमन्यदस्मत्तौ योनेयं शिबिका धृता ॥ ४ ॥
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता ।
प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ ५ ॥
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।
मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ ६ ॥
पूर्वमेव महाभागं कपिलर्षिमहं द्विज ।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ ७ ॥
तदन्तरे च भवता यदेतद्वाक्यमीरितम् ।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ ८ ॥
कपिलर्षिर्भगवतः सर्वभूतस्य वै द्विज ।
विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ ९ ॥
स एव भगवान्नूनमस्माकं हितकाम्यया ।
प्रत्यक्षतामत्र गतो यथैतद्‍भवतोच्यते ॥ १० ॥
तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः ।
तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ ११ ॥
ब्राह्मण उवाच
भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ १२ ॥
देवताराधनं कृत्वा धनसम्पदमिच्छति ।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ १३ ॥
कर्म यज्ञात्मकं श्रेयः फलं स्वर्गाप्तिलक्ष्णम् ।
श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ १४ ॥
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परम् ।
श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ १५ ॥
श्रेयांस्येवमनेकानि शतशोय सहस्रशः ।
सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ १६ ॥
धर्माय त्यज्यते किन्तु परमार्थो धनं यदि ।
व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥ १७ ॥
पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर ।
परमार्थभूतः सोऽन्यस्य परमार्थो हि तत्पिता ॥ १८ ॥
एवं न परमार्थोऽस्ति जगत्यस्मिञ्चराचरे ।
परमार्थो हि कार्याणि कारणानामशेषतः ॥ १९ ॥
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।
परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ २० ॥
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।
परमार्थभूतं तत्रापि श्रुयतां गदतो मम ॥ २१ ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।
तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ २२ ॥
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ २३ ॥
अनाशो परमार्थश्च प्राज्ञौरभ्युपगम्यते ।
तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ २४ ॥
तदेवाफलदं कर्म परमार्थो मतस्तव ।
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ २५ ॥
ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २६ ॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्‌द्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २९ ॥
परज्ञानमयो सद्‍भिर्नामजात्यादिभिर्विभुः ।
न योगवान्न युक्तोऽभून्नैव पार्थिव योक्ष्यते ॥ ३० ॥
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ॥ ३१ ॥
वेणुरन्ध्रप्रभेदेन भेदः षड्जादिसंज्ञितः ।
अभेदव्यापिनो वायोस्तथास्य परमात्मनः ॥ ३२ ॥
एकस्वरूपभेदश्च ब्राह्मकर्मावृत्तिजः ।
देवादिभेदेऽपध्वस्ते नास्त्येवावरणे हि सः ॥ ३३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे चतुर्दशोऽध्यायः (१४)



GO TOP