|
॥ विष्णुपुराणम् ॥ द्वितीयः अंशः ॥ त्रयोदशोऽध्यायः ॥
मैत्रेय उवाच
भगवन्सम्यगाख्यातं यत्पृष्टोसि मया किल । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः ॥ १ ॥ विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् । परमार्थस्तु ते प्रोक्तो यथाज्ञानं प्रधानतः ॥ २ ॥ यत्त्वेतद्भगवानाह भरतस्य महीपतेः । श्रोतुमिच्छमि चरितं तन्ममाख्यातुमर्हसि ॥ ३ ॥ भरतः स महीपालः शालग्रामेऽवसत्किल । योगयुक्तः समाधाय वासुदेवे सदा मनः ॥ ४ ॥ पुण्येदेशप्रभावेण ध्यायतश्च सदा हरिम् । कथं तु नाभवन्मुक्तिर्यदभूत्स द्विजः पुनः ॥ ५ ॥ विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना । भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि ॥ ६ ॥ श्रीपराशर उवाच शालग्रामे महाभागो भगवन्न्यस्तमानसः । स उवास चिरं कालं मैत्रेय पृथिवीपतिः ॥ ७ ॥ अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश्चापि संयमे ॥ ८ ॥ यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥ ९ ॥ इति राजाह भरतो हरेर्नामानि केवलम् । नान्यज्जगाद मैत्रेय किञ्चित्स्वप्रान्तरेपि च । एतत्पदं तदर्थं च विना नान्यदचिन्तयत् ॥ १० ॥ समित्पुष्पकुशादानं चक्रे देवक्रियाकृते । नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः ॥ ११ ॥ जगाम सोभिषेकार्थमेकदा तु महानदीम् । सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः ॥ १२ ॥ अथाजगाम तत्तीरं जलं पातुं पिपासिता । आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ॥ १३ ॥ ततः समभवत्तत्र पीतप्राये जले तथा । सिंहस्य नादः सुमहान्सर्वप्राणिभयङ्करः ॥ १४ ॥ ततः सा सहसा त्रासादाप्लुता निम्नगातटम् । अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह ॥ १५ ॥ तमूह्यमानं वेगेन वीचिमालापरिप्लुतम् । जग्राह स नृपो गर्भात्पतितं मृगपोतकम् ॥ १६ ॥ गर्भप्रच्युतिदोषेण प्रोत्तुङ्गाक्रमणेन च । मैत्रेय सापि हरिणी पपात च ममार च ॥ १७ ॥ हरिणीं तां विलोक्याथ विपन्नां नृपतापसः । मृगपोतं समादाय निजमाश्रममागतः ॥ १८ ॥ चकारानुदिनं चासौ मृगपोतस्य वै नृपः । पोषणं पुष्यमाणश्च स तेन ववृधे मुने ॥ १९ ॥ चचाराश्रमपर्यन्ते तृणानि गहनेषु सः । दूरं गत्वा च शार्दुलत्रासादभ्याययौ पुनः ॥ २० ॥ प्रातर्गत्वातिदूरं च सायमायात्यथाश्रमम् । पुनश्च भरतस्यभूदाश्रमस्योटजाजिरे ॥ २१ ॥ तस्य तस्मिन्मृगे दूरसमीपपरिवर्तिनि । आसीच्चेतः समासक्तं न ययावन्यतो द्विज ॥ २२ ॥ विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारोच्चैस्तस्मिन्हरिणबालके ॥ २३ ॥ किं वृकैर्भक्षितो व्याघ्रैः किं सिंहेन निपातितः । चिरायमाणे निष्क्रान्ते तस्यासीदिति मानसम् ॥ २४ ॥ एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ॥ २५ ॥ प्रीतये मम जातोसौ क्व ममैणकबालकः । विषामाग्रेण मद्बाहुं कण्डूयनपरो हि सः । क्षेमेणाभ्यागतोरण्यादपि मां सुखयिष्यति ॥ २६ ॥ एते लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशाः काशा विराजन्ते बटवः सामागा इव ॥ २७ ॥ इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ २८ ॥ समाधिभङ्गस्तस्यासीत्तन्मयत्वादृतात्मनः । सन्त्यक्तराज्यभोगर्धिस्वजनस्यापि भूपतेः ॥ २९ ॥ चपलं चपले तस्मिन्दूरगं दूरगामिनि । मृगपोतेऽभवच्चित्तं स्थैर्यवत्तस्य भूपतेः ॥ ३० ॥ कालेन गच्छता सोऽथ कालं चक्रे महीपतिः । पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ॥ ३१ ॥ मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि । तन्मयत्वेन मैत्रेय नान्यत्किञ्चिदचिन्तयत् ॥ ३२ ॥ ततश्च तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जातो जातिस्मरो मृगः ॥ ३३ ॥ जातिस्मरत्वदुद्विग्नः संसारस्य द्विजोत्तम । विहाय मातरं भूयः सालग्राममुपाययो ॥ ३४ ॥ शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् । मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥ ३५ ॥ तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतां शुद्धे योगिनां प्रवरे कुले ॥ ३६ ॥ सर्वविज्ञानसम्पन्नः सर्वशास्त्रार्थतत्त्ववित् । अपश्यत्स च मैत्रेय आत्मानं प्रकृतेः परम् ॥ ३७ ॥ आत्मनोऽधिगतज्ञानो देवादीनि महामुने । सर्वभूतान्यभेदेन स ददर्श तदात्मनः ॥ ३८ ॥ न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥ ३९ ॥ उक्तोपि बहुशः किञ्चिज्जडवाक्यमभाषत । तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥ ४० ॥ अपध्वस्तवपुः सोऽपि मलिनाम्बरधृग्द्विजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥ ४१ ॥ संमाननापरां हानिं योगर्धे कुरुते यतः । जनेनावमतो योगी योगसिद्धं च विन्दति ॥ ४२ ॥ तस्माच्चरेत वै योगी सतां धर्ममदूषयन् । जना यथावमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ ४३ ॥ हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ॥ ४४ ॥ भुक्ते कुल्माषव्रीह्यादिशाकं वन्यं फलं कणान् । यद्यदाप्नोति सुबहु तदत्ते कालसंयमम् ॥ ४५ ॥ पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥ ४६ ॥ समाक्षपीनावयवो जडकारी च कर्मणि । सर्वलोकोपकरणं बभूवाहारचेतनः ॥ ४७ ॥ तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् । क्षत्ता पृषतराजस्य काल्यै पशुमकल्पयत् ॥ ४८ ॥ रात्रौ तं समलङ्कृत्य वैशसस्य विधानतः । अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ॥ ४९ ॥ ततः खङ्गं समादाय निशितं निशि सा तथा । क्षत्तारं क्रूरकर्माणमच्छिनत्कण्ठमूलतः । स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम् ॥ ५० ॥ ततःसौवीरराजस्य प्रयातस्य महात्मनः । विष्टकर्ताथ मन्येत विष्टियोग्योऽयमित्यपि ॥ ५१ ॥ तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ॥ ५२ ॥ स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज । बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥ ५३ ॥ श्रेयः किमत्र संसारे दुःखप्राये नृणामिति । प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥ ५४ ॥ उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः । नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ॥ ५५ ॥ गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् । जातिस्मरोसौ पपास्य क्षयकाम उवाह ताम् ॥ ५६ ॥ ययौ जडमतिः सोथ युगमात्रावलोकनम् । कुर्वन्मतिमतां श्रेष्ठस्तदन्ये त्वरितं ययुः ॥ ५७ ॥ विलोक्य नृपतिः सोथ विषमां शिबिकागतिम् । किमेतदित्याह समं गम्यतां शिबिकावहाः ॥ ५८ ॥ पुनस्तथैव शिबिकं विलोक्य विषमां हि सः । नृपः किमेतदित्याह भवद्भिर्गम्यतेन्यथा ॥ ५९ ॥ भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः । शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥ ६० ॥ राजोवाच किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिबिका मम । किमाया ससहो न त्वं पीवानसि निरीक्ष्यसे ॥ ६१ ॥ ब्राह्मण उवाच नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रान्तोस्मि न चायासो सोढव्योस्ति महीपते ॥ ६२ ॥ राजोवाच प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि । श्रमश्च भारोद्वहने भवत्येव हि देहिनाम् ॥ ६३ ॥ ब्राह्मण उवाच प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ ६४ ॥ त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्यैतदत्र तु भवाञ्चृणोतु वचनं मम ॥ ६५ ॥ भूमौ पादयुगं त्वास्ते जङ्घे पादद्वये स्थिते । ऊर्वोर्जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ ६६ ॥ वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोत्र किं कृतः ॥ ६७ ॥ शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥ ६८ ॥ अहं त्वं च तथान्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ ६९ ॥ कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ ७० ॥ आत्मा शुद्धोक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥ ७१ ॥ यदा नोपचयस्तस्य न चैवापचयो नृप । तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥ ७२ ॥ भूपादजङ्घाकट्यूरुजठरादिषु संस्थिते । शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया ॥ ७३ ॥ तथान्यैर्जन्तुभिर्भूप शिबिकोढा न केवलम् । शैलद्रुमगृहोत्थोऽपि पृथिवी सम्भवोपि वा ॥ ७४ ॥ यदा पुंसः पृथग्भावः प्राकृतैः कारणेर्नृप । सोढव्यस्तु तदायासः कथं वा नृपते मया ॥ ७५ ॥ यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसङ्ग्रहः । भवतो मेऽकिलस्यास्य ममत्वेनोपबृंहितः ॥ ७६ ॥ श्रीपराशर उवाच एवमुक्त्वाभवन्मौनी स वहञ्छिबिकां द्विज । सोऽपि राजावतीर्योव्यां तत्पादौ जगृहे त्वरन् ॥ ७७ ॥ राजोवाच भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विजः । कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः ॥ ७८ ॥ यो भवान्यन्निमित्तं वा यदागमनकारणम् । तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ ७९ ॥ ब्राह्मण उवाच श्रूयतां सोऽहमित्येतद्वक्तुं भूप न शक्यते । उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥ ८० ॥ सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ ८१ ॥ सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मौ यतः कस्मात्कारणं पृच्छते त्वया ॥ ८२ ॥ राजोवाच धर्माधर्मौ न सन्देहःसर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ ८३ ॥ यस्त्वेतद्भवता प्रोक्तं सोहमित्येतदात्मनः । वक्तुं न शक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥ ८४ ॥ योस्ति सोऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोहमिति यो द्विज ॥ ८५ ॥ ब्राह्मण उवाच शब्दोहमिति दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ ८६ ॥ जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप । एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ ८७ ॥ किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयम् । अतः पीवानसीत्येतद् वक्तुमित्थं न युज्यते ॥ ८८ ॥ पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः । ततोहमिति कुत्रैतां संज्ञां राजन्करोम्यहम् ॥ ८९ ॥ यद्यन्योस्ति परः कोऽपि मत्तः पार्थिवसत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥ ९० ॥ यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान्सोहमित्येतद्विफलं वचः ॥ ९१ ॥ त्वं राजा शिबिका चेयमिमे वाहाः पुरःसराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ ९२ ॥ वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठिता । किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथ वा नृप ॥ ९३ ॥ वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥ ९४ ॥ शिबिकादारुसङ्घातो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥ ९५ ॥ एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् । क्व यातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ ९६ ॥ पुमान् स्त्री गौरजो वाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ ९७ ॥ पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ ९८ ॥ वस्तु राजेति यल्लोके यच्च राजभटात्मकम् । तथान्यच्च नृपेत्थं तन्न सत्संकल्पनामयम् ॥ ९९ ॥ यत्तु कालान्तेरेणापि नान्यां संज्ञामुपैति वै । परिणामादिसम्भूतां तद्वस्तु नृप तच्च किम् ॥ १०० ॥ त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः किं त्वं भूप वदाम्यहम् ॥ १०१ ॥ त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् । किमु पादादिकं त्वं वा तवैतत्किं महीपते ॥ १०२ ॥ समस्तावयवेभ्यस्त्वं पृथग्भूय व्यवस्थितः । कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पर्थिव ॥ १०३ ॥ एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् । पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥ १०४ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे त्रयोदशोऽध्यायः (१३) |