|
॥ विष्णुपुराणम् ॥ द्वितीयः अंशः ॥ द्वादशोऽध्यायः ॥
श्रीपराशर उवाच
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥ १ ॥ वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा ॥ २ ॥ अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः ॥ ३ ॥ क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥ ४ ॥ क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्याययत्यनुदिनं भास्करो वारितस्करः ॥ ५ ॥ सम्भृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्दि देवा मैत्रेय सुधाहारा यतोऽमराः ॥ ६ ॥ त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ॥ ७ ॥ कलाद्वयावशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यारश्मौ वसति अमावास्या ततः स्मृता ॥ ८ ॥ अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चन्द्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ ९ ॥ छिनत्ति विरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥ १० ॥ सोमं पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके । अपाराह्णे पितृगणा जघन्यं पर्युपासते ॥ ११ ॥ पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने ॥ १२ ॥ निःसृतं तदमावास्यां गभस्तिभ्यः सुधामृतम् । मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ॥ १३ ॥ एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः ॥ १४ ॥ वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु ॥ १५ ॥ वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतश्च च । पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥ १६ ॥ सवरूथः सानुकर्षो युक्तो भूसम्भवैर्हयैः । सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ॥ १७ ॥ अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः ॥ १८ ॥ अष्टाभिः पाण्डुरैर्युक्तो वाजिभिः काञ्चनो रथः । तस्मिंस्तिष्ठति वर्षान्ते राशौ राशौ बृहस्पतिः ॥ १९ ॥ आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर्याति मन्दगामी शनैश्चरः ॥ २० ॥ स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा ॥ २१ ॥ आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ २२ ॥ तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ २३ ॥ एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥ २४ ॥ ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यशेषतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥ २५ ॥ यावान्त्यश्चैव तारास्तास्तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् ॥ २६ ॥ तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥ २७ ॥ अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहति प्रवहस्तेन स स्मृतः ॥ २८ ॥ शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥ २९ ॥ यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते । यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि । तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानि च ॥ ३० ॥ उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः । यज्ञोऽधरश्च विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ ३१ ॥ हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ ३२ ॥ शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥ ३३ ॥ पुच्छेग्निश्च महेन्द्रश्च कस्यपोथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥ ३४ ॥ इत्येष सन्निवेशोऽयं पृथिव्या ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ॥ ३५ ॥ वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रुयतां पुनः ॥ ३६ ॥ यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥ ३७ ॥ ज्योतींषि विष्णुर्भुवनानि विष्णु- र्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ ३८ ॥ ज्ञानस्वरूपो भगवान्यतोसा- वशेषमूर्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदा- ञ्जानीहि विज्ञानविजृम्भितानि ॥ ३९ ॥ यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् । तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ ४० ॥ वस्त्वस्ति किं कुत्राचिदादिमध्य- पर्यन्तहीनं सततैकरूपम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ ४१ ॥ मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयै- रालक्ष्यते ब्रूहि किमत्र वस्तु ॥ ४२ ॥ तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्- क्वचित्कदाचिद्द्विज वस्तुजातम् । विज्ञानमेकं इजकर्मभेद- विभिन्नचित्तैर्बहुधाभ्युपेतम् ॥ ४३ ॥ ज्ञानं विशुद्धं विमलं विशोक- मशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ॥ ४४ ॥ सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ ४५ ॥ यज्ञः पशुर्वह्निरशेषऋत्विक् सोमः सुराः स्वर्गमयश्च कामः । इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश्च फलानि तेषाम् ॥ ४६ ॥ यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः । ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम् ॥ ४७ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे द्वादशोऽध्यायः (१२) |