॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ सप्तमोऽध्यायः ॥

मैत्रेय उवाच
कथितं भूतलं ब्रह्मन्भमैतदखिलं त्वया ।
भुवर्लोकादिकांल्लोकाञ्छ्रोतुमिच्छाम्यहं मुने ॥ १ ॥
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा ।
समाचक्ष्व महाभाग तन्मह्यं परिपृच्छते ॥ २ ॥
श्रीपराशर उवाच
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते ।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ ३ ॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् ।
नभस्तावन्प्रमाणं वै व्यासमण्डलतो द्विज ॥ ४ ॥
भूमेर्योजनलक्षे तु सौरं मैत्रेय मण्डलम् ।
लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥ ५ ॥
पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ ६ ॥
द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ ७ ॥
अङ्‍गारकोपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥ ८ ॥
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समवस्थितः ।
सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमा ॥ ९ ॥
ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ १० ॥
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ ११ ॥
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनाः ।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ १२ ॥
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ १३ ॥
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितम् ।
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ १४ ॥
षड्गुणेन तपोलोकान्सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥ १५ ॥
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तरोऽस्य मयोदितः ॥ १६ ॥
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ॥ १७ ॥
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश ।
स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः ॥ १८ ॥
त्रैलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते ।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ १९ ॥
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः ।
शुन्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति ॥ २० ॥
एते सप्त मया लोका मैत्रेय कथितास्तव ।
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २१ ॥
एतदण्डकटाहेन तिर्यक् चोध्वमधस्तथा ।
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २२ ॥
दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वृतम् ।
सर्वोम्बुपरिधानोऽसौ वह्निना वेष्टितो बहिः ॥ २३ ॥
वह्निश्च वायुना वायुर्मैत्रेय नभसा वृतः ।
भूतादिना नभः सोऽपि महता परिवेष्टितः ।
देशोत्तराम्यशेषाणि मैत्रेयैतानि सप्त वै ॥ २४ ॥
महान्तं च समावृत्य प्रधानं समवस्थितम् ।
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ॥ २५ ॥
तदनन्तमसंख्यातप्रमाणं चापि वै यतः ।
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥ २६ ॥
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ।
ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ २७ ॥
दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि ।
प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः ॥ २८ ॥
प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया ।
विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥ २९ ॥
तयोः सैव पृथग्भावकारणं संश्रयस्य च ।
क्षोभकारणभूता च सर्गकाले महामते ॥ ३० ॥
यथा सक्तं जले वातो बिभर्ति कणिकाशतम् ।
शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥ ३१ ॥
यथा च पादपो मूलस्कन्धशाखादिसंयुतः ।
आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥ ३२ ॥
प्रभवन्ति ततस्तेभ्यः सम्भवन्त्यपरे द्रुमाः ।
तेपि तल्लक्षणद्रव्यकारणानुगता मुने ॥ ३३ ॥
एवमव्याकृतात्पूर्वं जायन्ते महदादयः ।
विशेषान्तास्ततस्तेभ्यः सम्भवन्त्यसुरादयः ।
तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः ॥ ३४ ॥
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ ३५ ॥
सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः ।
तथैवापरिणामेव विश्वस्य भगवान्हरिः ॥ ३६ ॥
व्रीहिबीजे यथा मूलं नालं पत्राङ्‍कुरौ तथा ।
काण्डं कोषस्तु पुष्पं च क्षीरं तद्वच्च तण्डुलाः ॥ ३७ ॥
तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः ।
प्ररोहहेतुसामग्रीमासाद्य मुनिसत्तम ॥ ३८ ॥
तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः ।
विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ ३९ ॥
स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् ।
जगच्च यो यत्र चेदं यस्मिंश्च लयमेष्यति ॥ ४० ॥
तद्‍ब्रह्म तत्परं धाम सदसत्परमं पदम् ।
यस्य सर्वमभेदेन यतश्चैतच्चराचरम् ॥ ४१ ॥
स एव मूल प्रकृतिर्व्यक्तरूपी जगच्च सः ।
तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ ४२ ॥
कर्ता क्रियाणां स च इज्यते क्रतुः      स एवतत्कर्मफलं च तस्य ।
स्त्रुगादियत्साधनमप्यशेषं      हरेर्न किञ्चिद्‌व्यतिरिक्तमस्ति ॥ ४३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे सप्तमोऽध्यायः (७)



GO TOP