|
॥ विष्णुपुराणम् ॥ द्वितीयः अंशः ॥ षष्ठोऽध्यायः ॥
पराशर उवाच
ततश्च नरका विप्र भुवोऽधः सलिलस्य च । पापिनो येषु पात्यन्ते ताञ्छृणुष्व महामुने ॥ १ ॥ रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विलोहितः ॥ २ ॥ रूधिराम्भो वैतरणिः कृमिशः कृमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ ३ ॥ तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः । सन्दंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ ४ ॥ श्वभोजनोऽथाप्रतिष्ठश्चाप्रचिश्च तथा परः । इत्येवमादयश्चान्ये नरका भृशदारूणाः ॥ ५ ॥ यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ ६ ॥ कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ ७ ॥ भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ ८ ॥ सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे । प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ ९ ॥ राजन्यवैश्यहा ताले तथैव गुरुतल्पगः । तप्तकुण्डे स्वसृगामी हन्ति राजभटांश्च यः ॥ १० ॥ साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी । तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ ११ ॥ स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ १२ ॥ वेददूषयितायश्च वेदविक्रयिकश्च यः । अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ १३ ॥ चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ १४ ॥ देवद्विजपितृद्वेष्टा रत्नद्वषयिता च यः । स याति कृमिभक्षे वै कृमिशे च दुरिष्टकृत् ॥ १५ ॥ पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः । लालाभक्षे स यात्ययुग्रे शरकर्ता च वेधके ॥ १६ ॥ करोति कर्णनो यश्च यश्च खङ्गादिकृन्नरः । प्रयान्त्येते विशसने नरके भृशदारुणे ॥ १७ ॥ असत्प्रतिगृहीता तु नरके यात्यधोमुखे । अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ १८ ॥ वेगी पूयवहे चैको याति मिष्टान्नभुङ्गरः ॥ १९ ॥ लाक्षामांसरसानां च तिलानां लवणस्य च । विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ २० ॥ मार्जारकुक्कुटच्छागश्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २१ ॥ रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ २२ ॥ अगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः । रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २३ ॥ मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ २४ ॥ रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये । ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ २५ ॥ असिपत्रवनं याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ २६ ॥ यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ २७ ॥ व्रतानां लोपको यश्च स्वाश्रमाद्विच्युतश्च यः । सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २८ ॥ दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ २९ ॥ एते चान्ये च नरकाः शतशोथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ ३० ॥ यथैव पापान्येतानि तथान्यानि सहस्रशः । भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥ ३१ ॥ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ ३२ ॥ अधः शिरोभिदृश्यन्ते नारकैर्दिवि देवताः । देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ ३३ ॥ स्थावराः क्रिमयोऽब्जाश्च पक्षिणः पशवो नराः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ ३४ ॥ सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा । सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ ३५ ॥ यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ ३६ ॥ पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ ३७ ॥ पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भुवादयः ॥ ३८ ॥ प्रायश्चित्तान्यशेषाणि तपःकर्मत्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ ३९ ॥ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ ४० ॥ प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयन्नरः । विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः । मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोऽनुमीयते ॥ ४२ ॥ वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ ४३ ॥ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ ४४ ॥ तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने । न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ ४५ ॥ मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ ४६ ॥ वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ ४७ ॥ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ ४८ ॥ तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । मनसः परिमामोयं सुखदुःखादिलक्षणः ॥ ४९ ॥ ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानत्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ ५० ॥ विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ ५१ ॥ एवमेतन्मयाख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथैव नरका द्विज ॥ ५२ ॥ समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ५३ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे षष्ठोऽध्यायः (६) |