|
॥ विष्णुपुराणम् ॥ द्वितीयः अंशः ॥ अष्टमोऽध्यायः ॥
पराशर उवाच
व्याख्यातमैतद्ब्रह्मण्डसंस्थानं तव सुव्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मै ॥ १ ॥ योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥ २ ॥ सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ ३ ॥ त्रिनाभिमति पञ्चारे षण्नेमिन्यत्रयात्मके । संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम् ॥ ४ ॥ हयाश्च सप्तच्छदांसि तेषां नामानि मे शृणु । गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च । अनुष्टुप्पङ्क्तिरित्युक्ता छन्दांसि हरयो रवेः ॥ ५ ॥ चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो विवस्वतः । पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥ ६ ॥ अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयो । ह्रस्वोऽक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वै । द्वितीयेऽक्षे तु तच्चक्रं सस्थितं मानसाचले ॥ ७ ॥ मानसोत्तरशैलस्य पूर्वतो वासवी पुरी । दक्षिणे तु यमस्यान्या प्रतीच्यां वरुणस्य च । उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥ ८ ॥ वस्वौकसारा शक्रस्य याम्या संयमनी तथा । पुरी सुखा जलेशस्य सोमस्य च विभावरी ॥ ९ ॥ काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः ॥ १० ॥ अहोरात्रव्यवस्थानकारणं भगवान् रविः । देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥ ११ ॥ दिवसस्य वरिर्मध्ये सर्वाकालं व्यवस्थितः । सर्वद्वीपेषु मैत्रेय निशार्धस्य च सन्मुखः ॥ १२ ॥ उदयास्तमने चैव सर्वकालं तु सम्मुखे । विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥ १३ ॥ यैर् यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ १४ ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ १५ ॥ शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा ॥ १६ ॥ उदितो वर्धमानाभिरामध्याह्नात्तपन् रविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति ॥ १७ ॥ उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥ १८ ॥ ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् । ये ये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम् । ते ते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ॥ १९ ॥ तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि । सर्वेषां द्वीपवर्षाणां सेरुरुत्तरतो यतः ॥ २० ॥ प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे । विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते ॥ २१ ॥ वह्नोः प्रभा तथा भानुर्दिनेष्वाविशति द्विज । अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥ २२ ॥ तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ २३ ॥ दक्षिणोत्तरभूम्यर्धे समुत्तिष्ठति भास्करे । आहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् ॥ २४ ॥ आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात् । दिनं विशति चैवाम्भो भास्करेस्तमुपेयुषि । तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ २५ ॥ एवं पुष्करमध्येन यदा याति दिवाकरः । त्रिंशद्भागन्तु मेदिन्यास्तदा मौहूर्तिकी गतिः ॥ २६ ॥ कुलालचक्रपर्यन्तो भ्रमन्नेष दिवाकरः । करोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः ॥ २७ ॥ अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥ २८ ॥ त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥ २९ ॥ ततो रात्रिः क्षयं याति वर्धतेऽनुदिनं दिनम् ॥ ३० ॥ ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः । राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥ ३१ ॥ कुलालचक्रपर्यन्तो यथाशीघ्रं प्रवर्तते । दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्तते ॥ ३२ ॥ अतिवेगितया कालं वायुवेगबलाच्चरन् । तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ ३३ ॥ सूर्यो द्वादशभिः शैघ्र्यान्मुहूर्ते दक्षिणायने । त्रयोदशार्धमृक्षाणामह्ना तु चरति द्विज । मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ३४ ॥ कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ३५ ॥ तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छति । अष्टादशसुहूर्तं यदुत्तरायणपश्चिमम् ॥ ३६ ॥ अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ ३७ ॥ त्रयोदशार्धमह्ना तु ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥ ३८ ॥ अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ ३९ ॥ कुलालचक्रनाभिस्तु यथा तत्रैववर्तते । ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ॥ ४० ॥ उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥ ४१ ॥ मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः । शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥ ४२ ॥ एक प्रमाणमेवैष मार्गं याति दिवाकरः । अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज ॥ ४३ ॥ षडेव राशीन् यो भुङ्क्ते रात्रावन्यांश्च षड्दिवा ॥ ४४ ॥ राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने । तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ॥ ४५ ॥ दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥ ४६ ॥ दक्षिणे त्वयने चैव विपरीतां विवस्वतः ॥ ४७ ॥ उषा रात्रिः समाख्याता व्युष्टिश्चाप्युच्यते दिनम् । प्रोच्यते च तथा सन्ध्या उषाव्युष्ट्योर्यदन्तरम् ॥ ४८ ॥ सन्ध्याकाले च सम्प्राप्ते रौद्रे परमदारुणे । मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति खादितुम् ॥ ४९ ॥ प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणं च दिने दिने ॥ ५० ॥ ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् । ततो द्विजोत्तमास्तोयं संक्षिपन्ति महामुने ॥ ५१ ॥ ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् । तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥ ५२ ॥ अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः । सूर्योज्योतिः सहस्रांशुस्तया दीप्यति भास्करः ॥ ५३ ॥ ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः । तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ ५४ ॥ वैष्णुवोंऽशः परः सूर्यो योऽन्तर्ज्योतिरसम्प्लवम् । अभिधायक ओङ्कारस्तस्य तत्प्रेरकं परः ॥ ५५ ॥ तेन सम्प्रेरितं ज्योतिरोंकारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै ॥ ५६ ॥ तस्मान्नोल्लङ्घनं कार्यं सन्ध्योपासनकर्मणः । स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ॥ ५७ ॥ ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥ ५८ ॥ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां च । त्रिंशत्कलश्चैव भवेन्मुहूर्त- स्तैस्त्रिंशता रात्र्यहनी समेते ॥ ५९ ॥ ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम् । सन्ध्यामुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता ॥ ६० ॥ रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ । प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ॥ ६१ ॥ तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्तस्तु सङ्गवः । मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्गवात् ॥ ६२ ॥ तस्मान्माध्याह्निकात्कालादपराह्न इति स्मृतः । त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥ ६३ ॥ आपराह्णे व्यतीते तु कालः सायाह्न एव च । दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ॥ ६४ ॥ दशपञ्च मुहूर्तं वै अहर्वैषुवतं स्मृतम् ॥ ६५ ॥ वर्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ॥ ६६ ॥ शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते । तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥ ६७ ॥ कर्कटावस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ ६८ ॥ त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया । तानिपञ्चदश ब्रह्मन् पक्ष इत्यभिधीयते ॥ ६९ ॥ मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः । ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ॥ ७० ॥ संवत्सरादयः पञ्च चतुर्मासविकल्पिताः । निश्चयः सर्वकालस्य युगमित्यभिधीयते ॥ ७१ ॥ संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः । वत्सरः पञ्चमश्चात्र कालोयं युगसंज्ञितः ॥ ७२ ॥ यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतः । त्रीणि तस्य तु शृङ्गाणि यैरयं शृङ्गवान्स्मृतः ॥ ७३ ॥ दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा । शरद्वसन्तयोर्मध्ये तद्भानुः प्रतिपद्यते । मेषादौ च तुलादौ च मैत्रेय विषुवस्थितम् ॥ ७४ ॥ तदा तुल्यमहोरात्रं करोति तिमिरापहः । दशपञ्च मुहूर्तं वै तदेतदुभयं स्मृतम् ॥ ७५ ॥ प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी । विशाखानां चतुर्थेंऽशे मुने तिष्ठत्यसंशयम् ॥ ७६ ॥ विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम् । तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ ७७ ॥ तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते । तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ॥ ७८ ॥ ब्रह्मणेभ्यः पितृभ्यश्च मुखमेतत्तु दानजम् । दत्तदानस्तु विषुवे कृतकृत्योऽभिजायते ॥ ७९ ॥ अहोरात्रार्धमासास्तु कलाः काष्ठाः क्षणास्तथा । पौर्णमासी तथा ज्ञेया अमावास्या तथैव च । सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ ८० ॥ तपस्तपस्यै मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात् । नभोनभस्यौ च इषस्तथोर्ज- स्सहसहस्याविति दक्षिणं तत् ॥ ८१ ॥ लोका लोकश्च यश्शैलः प्रागुक्तो भवतो मया । लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ॥ ८२ ॥ सुधामा शङ्खपाच्चैव कर्दमस्यात्मजो द्विज । हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ॥ ८३ ॥ निर्द्वन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ ८४ ॥ उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयानः स वै पन्था वैश्वानरपथाद्बहिः ॥ ८५ ॥ तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः । भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः । प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ॥ ८६ ॥ चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे । सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ ८७ ॥ जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै । पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ॥ ८८ ॥ एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः । सवितुर्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम् ॥ ८९ ॥ नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानश्च स स्मृतः ॥ ९० ॥ तत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः । सन्ततिं ते जुगुप्सन्ति तस्मान्मृत्युर्जितश्च तैः ॥ ९१ ॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । उदक्पन्थानमर्यम्णः स्थितान्याभूतसम्प्लवम् ॥ ९२ ॥ ते सम्प्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ॥ ९३ ॥ पुनश्च कामासंयोगाच्छब्दादेर्देषदर्शनात् । इत्येभिः कारणैः शुद्धास्तेऽमृतत्वं हि भेजिरे ॥ ९४ ॥ आभूतसम्प्लवं स्थानममृतत्वं विभाव्यते । त्रैलोक्यस्थितिकालोऽयमपुनर्मार उच्यते ॥ ९५ ॥ ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः । आभूतसम्प्लवान्तन्तु फलमुक्तं तयोर्द्विज ॥ ९६ ॥ यावन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः । क्षयमायाति तावत्तु भूमेराभूतसम्प्लवात् ॥ ९७ ॥ ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ॥ ९८ ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ ९९ ॥ अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परपं पदम् ॥ १०० ॥ धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥ १०१ ॥ यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम् । भव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ १०२ ॥ दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥ १०३ ॥ यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः । ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज ॥ १०४ ॥ मेघेषु सङ्गता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम् । आप्यायनं च सर्वेषां देवादीनां महामुने ॥ १०५ ॥ ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः । वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥ १०६ ॥ एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् । आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥ १०७ ॥ ततः प्रभवति ब्रह्मन्सर्वपापहरा सरित् । गङ्गा देवाङ्गनाङ्गानामनुलेपनपिञ्जरा ॥ १०८ ॥ वामपादाम्बुजाङ्गुष्ठनखस्त्रोतोविनिर्गताम् । विष्णोर्बिभार्ति यां भक्त्या शिरस्साहर्निशं ध्रुवः ॥ १०९ ॥ ततः सप्तर्षयो यस्याः प्राणायामपरायणाः । तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ॥ ११० ॥ वार्योघैः सन्ततैर्यस्याः प्लावितं शशिमण्डलम् । भूयोधिकतरां कान्तिं वहत्येतदुह क्षये ॥ १११ ॥ मेरुपृष्टे पतत्युच्चैर्निष्क्रान्ता शशिमण्डलात् । जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥ ११२ ॥ सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिता । एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥ ११३ ॥ भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम् । दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ॥ ११४ ॥ शम्भोर्जटाकलापाच्च विनिष्क्रान्तास्थिशर्कराः । प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥ ११५ ॥ स्त्रातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ॥ ११६ ॥ दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः । समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥ ११७ ॥ यस्यामिष्ट्वा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् । द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च ॥ ११८ ॥ स्नानाद्विधूतपापाश्च यज्जलैर्यतयस्तथा । केशवासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ॥ ११९ ॥ श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता । या पावयति भूतानि कीर्तिता च दिने दिने ॥ १२० ॥ गङ्गा गङ्गेति यैर्नाम योजनानां शतेष्वपि । स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥ १२१ ॥ यतः सा पावनायालं त्रयाणां जगतामपि । समुद्भूता परं तत्तु तृतीयं भगवत्पदम् ॥ १२२ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंऽशेऽष्टमोऽध्यायः (८) |