॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ द्वितीयोऽध्यायः ॥

श्रीमैत्रेय उवाच
कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश्च मे ।
श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥ १ ॥
यावन्तः सागर द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सतितः पुर्यो देवादीनां तथा मुने ॥ २ ॥
यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् ।
संस्थानमस्य च मुने यथावद्‌वक्तुमर्हसि ॥ ३ ॥
श्रीपराशर उवाच
मैत्रेय श्रूयतामेतत्सङ्‌क्षेपाद् गदतो मम ।
नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥ ४ ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज ।
कुशः क्रैञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ ५ ॥
एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ ६ ॥
जम्बूद्विपः समस्तानामेतेषां मध्यसंस्थितः ।
तस्यापि मेरुर्मैत्रेय मध्ये कनकपर्वतः ॥ ७ ॥
चतुराशीतिसाहस्रो योजनैरस्य चोच्छ्रयः ॥ ८ ॥
प्रविष्टः षोडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्रि विस्तृत ।
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥ ९ ॥
भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ १० ॥
हिमवान्हेमकूटश्च विषधश्चास्य दक्षिणे ।
नीलः श्वेतश्च शृङ्‍गी च उत्तरे वर्षपर्वताः ॥ ११ ॥
लक्षप्रमाणो द्वौ मध्यौ दशहीनास्तथापरे ।
सहस्रद्वितयोच्छ्रायास्तावद्‌विस्तारिणश्च ते ॥ १२ ॥
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥ १३ ॥
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १४ ॥
नवसाहस्रमेकैकमेतेषां द्विजसत्तम ।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १५ ॥
मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् ।
इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥ १६ ॥
विष्कम्भारचिता मेरोर्योजनायुतमुच्छ्रिताः ॥ १७ ॥
पुर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १८ ॥
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ।
एकादशशतायामाः पादपा गिरिकेतवः ॥ १९ ॥
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने ।
महागजप्रमामानि जम्ब्वास्तस्याः फलानि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ २० ॥
रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै ।
सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥ २१ ॥
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानात्स्वच्छमनासां जनानां तत्र जायते ॥ २२ ॥
तीरमृत्तद्‌रसं प्राप्य सुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ २३ ॥
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥ २४ ॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २५ ॥
अरुणोदं महाभद्रमसितोदं समानसम् ।
सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ २६ ॥
शीताम्भश्च कुमुन्दश्च कुररी माल्यवांस्तथा ।
वैकङ्‍कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ २७ ॥
त्रिकूटः शिशिरश्चैव पतङ्‍गो रुचकस्तथा ।
निषदाद्या दक्षिणतस्तस्य केसरपर्वताः ॥ २८ ॥
शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः ।
जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ २९ ॥
मेरोरनन्तराङ्‍गेषु जठरादिष्ववस्थिताः ।
शंखकूटोऽथ ऋषभो हंसो नागस्तथापरः ।
कालञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥ ३० ॥
चतुर्दशसहस्राणि योजनानां महापुरी ।
मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ ३१ ॥
तस्यास्समन्ततश्चाष्टौ दिशासु विदिशासु च ।
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥ ३२ ॥
विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद्‍ ब्रह्मणः पुर्यां गङ्‍गा पतति वै दिवः ॥ ३३ ॥
सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते ।
सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥ ३४ ॥
पूर्वेण शैलात्सीता तु शैलं यात्यन्तरीक्षगा ।
ततश्च पूर्ववर्षैण भद्राश्वैनैति सार्णवम् ॥ ३५ ॥
तथैवालकनन्दापि दक्षिणेनैत्य भारतम् ।
प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥ ३६ ॥
चक्षुश्चं पश्चिमगिरीनतीत्य सकलांस्ततः ।
पश्चिमं केतुमालाख्यं वर्षं गत्वैति सागरम् ॥ ३७ ॥
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ।
अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥ ३८ ॥
आनीलनिषधायामौ माल्यवद्‍गन्धमादनौ ।
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३९ ॥
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ४० ॥
जठरो देवकूटश्च मर्यादापर्वतावुभौ ।
तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥ ४१ ॥
गन्धमादनकैलासौ पूर्वपश्चायतावुभौ ।
अशीतियोजनायामावर्णवान्तव्यवस्थितौ ॥ ४२ ॥
निषधः पारियात्रश्च मर्यादापर्वतावुभौ ।
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥ ४३ ॥
त्रिशृङ्‍गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ ४४ ॥
इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव ।
जठराद्याः स्थिता मेरोस्तेषां द्वौ द्वौ चतुर्दिशम् ॥ ४५ ॥
मेरोश्चतुर्दिशं येतु प्रोक्ताः केसरपर्वताः ।
शीतान्ताद्या मुने तेषामतीव हि मनोरमाः ।
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥ ४६ ॥
सुरम्याणि तथा तासु काननानि पुराणि च ।
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम ।
तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥ ४७ ॥
गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः ।
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निसम् ॥ ४८ ॥
भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने ।
नैतुषु पापकर्माणो यान्ति जन्मशतैरपि ॥ ४९ ॥
भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज ।
वराजः केतुमाले तु भारते कूर्मरूपधृक् ॥ ५० ॥
मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते जनार्दनः ।
विश्वरूपेण सर्वत्र सर्वः सर्वत्रगो हरिः ॥ ५१ ॥
सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः ॥ ५२ ॥
यानि किम्पुरुषादिनि वर्षाण्यष्टौ महामुने ।
न तेषु शौको नायासो नोद्वेगः क्षुद्‍भयादिकम् ॥ ५३ ॥
स्वस्थाः प्रजा निरातङ्‍कास्सर्वदुःखविवर्जिताः ।
दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ५४ ॥
न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै ।
कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना ॥ ५५ ॥
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ।
नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम ॥ ५६ ॥
इति श्रिविष्णुमहापुराणे द्वितीयेंऽशे द्वितीयोऽध्यायः (२)



GO TOP