|
॥ विष्णुपुराणम् ॥ द्वितीयः अंशः ॥ तृतीयोऽध्यायः ॥
श्रीपराशर उवाच
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ १ ॥ नवयोजनसाहस्रो विस्तारोऽस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ २ ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥ ३ ॥ अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयान्ति वै । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥ ४ ॥ इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ ५ ॥ भारतस्यास्य वर्षस्य नवभेदान्निशामय । इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥ ६ ॥ नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागारसंवृतः ॥ ७ ॥ योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ ८ ॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥ ९ ॥ शतद्रूचन्द्रभागाद्या हिमवत्पादनिर्गताः । वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥ १० ॥ नर्मदा सुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥ ११ ॥ गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ १२ ॥ कृतमाला ताम्रपर्णिप्रमुखा मलयोद्भवाः । त्रिसामा चार्यकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ १३ ॥ ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥ १४ ॥ तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ १५ ॥ पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश्च सर्वशः । तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥ १६ ॥ कारूषा मालवाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणाः साल्वाः कोशलवासिनाः । माद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १७ ॥ आसां पिबन्ति सलिलं वसन्ति सहिताः सदा । समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ १८ ॥ चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ १९ ॥ तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ २० ॥ पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ २१ ॥ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोऽन्या भोगभूमयः ॥ २२ ॥ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २३ ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २४ ॥ कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते । अवाप्य तां कर्ममहीमनन्ते तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ २५ ॥ जानीम नैतत् क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ २६ ॥ नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ २७ ॥ जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २८ ॥ इति श्रिविष्णुमहापुराणे द्वितीयेंऽशे तृतीयोध्यायः (३) |