सत्संगधारा - विष्णुपुराण - द्वितीयः अंशः - प्रथमोऽध्यायः



॥ विष्णुपुराणम् ॥

द्वितीयः अंशः

॥ प्रथमोऽध्यायः ॥

मैत्रेय उवाच
भगवन्सम्यगाख्यातं ममैतदखिलं त्वाया ।
जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया ॥ १ ॥
योऽयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम ॥ २ ॥
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥ ३ ॥
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥ ४ ॥
श्रीपराशर उवाच
कर्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः ।
सम्राट् कुक्षिश्च तत्कन्ये दशपुत्रस्तथापरे ॥ ५ ॥
महाप्रज्ञा महावीर्या विनीता दयिता पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥ ६ ॥
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥ ७ ॥
ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतोऽभवत् ।
प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥ ८ ॥
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मारा महाभागा न राज्याय मनो दधुः ॥ ९ ॥
निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुःक्रियां यथान्यायमफलाकाङ्‌क्षिणो हि ते ॥ १० ॥
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ।
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥ ११ ॥
जम्बूद्वीपं महाभाग साग्नीध्राय ददौ पिता ।
मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥ १२ ॥
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः ॥ १३ ॥
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः ॥ १४ ॥
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥ १५ ॥
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ।
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ॥ १६ ॥
रम्यो हिरण्वान्षष्ठश्च कुरुभद्राश्व एव च ।
केतुमालस्तथैवान्यः साधुचेष्टोऽभवन्नृपः ॥ १७ ॥
जन्बूद्वीपविभागांश्च तेषां विप्र निशामय ।
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥ १८ ॥
हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥ १९ ॥
इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता ॥ २० ॥
श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥ २१ ॥
यदुत्तरं शृङ्‍गवतो वर्ष तत्कुरवे ददौ ।
मेरोः पुर्वेण यद्वर्षं भद्राश्वाय प्रदत्तवान् ॥ २२ ॥
गन्धमाधनवर्षं तु केतुमालाय दत्तवान् ।
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥ २३ ॥
वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः ।
शालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ २४ ॥
यनि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने ।
तेषां स्वाभाविकिसिद्धिः सुखप्रायाह्ययत्‍नतः ॥ २५ ॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्मधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ २६ ॥
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा ।
हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः ।
तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ २७ ॥
ऋषभाद्‍भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथैष्ट्‌वा विविधान्मखान् ॥ २८ ॥
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः ।
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ २९ ॥
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः ॥ ३० ॥
तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ ३१ ॥
ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ ३२ ॥
सुमतीर्भरतस्याभूत्पुत्रः परमधार्मिकः ।
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता ॥ ३३ ॥
पुत्रसंक्रामितश्रीस्तु भरतः स महीपतिः ।
योगाभ्यासरतः प्राणान् शालग्रामेऽत्यजन्मुने ॥ ३४ ॥
अजायत च विप्रोऽसौ योगीनां प्रवरे कुले ।
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ ३५ ॥
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ ३६ ॥
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद्‍गीथः प्रस्ताविस्तत्सुतो विभुः ॥ ३७ ॥
पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः ।
नरो गयस्य नतयस्तत्पुत्रोऽभूद्‌विराट् ततः ॥ ३८ ॥
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ ३९ ॥
त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ॥ ४० ॥
विष्वग्ज्योतिप्रधानास्ते यैरिमा वर्धिताः प्रजाः ।
तैरिदं भारतं वर्षं नवभेदमलङ्‍कृतम् ॥ ४१ ॥
तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा ।
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥ ४२ ॥
एष स्वायम्भुवः सर्गौ येनेदं पूरितं जगत् ।
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ ४३ ॥
इति श्रीविष्णुपुराणे द्वितीयेंऽशे प्रथमोऽध्यायः (१)



GO TOP