सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - एकोनविंशोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ एकोनविंशोऽध्यायः ॥

श्रीपराशर उवाच -
हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् ।
आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥ १ ॥
हिरण्यकशिपुः उवाच -
प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् ।
एतन्मन्त्रादिजनितमुताहो सहजं तव ॥ २ ॥
श्रीपराशर उवाच -
एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः ।
प्रणिपत्य पितुः पादौ इदं वचनमब्रवीत् ॥ ३ ॥
न मन्त्रादिकृतं तात न च नैसर्गिको मम ।
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ ४ ॥
अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ ५ ॥
कर्मणा मनसा वाचा परपीडां करोति यः ।
तद्वीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ ६ ॥
सोऽहं न पाप मिच्छामि न करोमि वदामि वा ।
चिन्तयन् सर्वभूतस्थं आत्मन्यपि च केशवम् ॥ ७ ॥
शारीरं मानसं दुःखं दैवं भूतभवं तथा ।
सर्वत्र शुभचित्तस्य तस्य मे जायते कुतः ॥ ८ ॥
एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
कर्तव्या पण्डितैः ज्ञात्वा सर्वभूतमयं हरिम् ॥ ९ ॥
श्रीपराशर उवाच -
इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः ।
क्रोधान्धकारितमुखः प्राह दैतेयकिङ्‍करान् ॥ १० ॥
हिरण्यकशिपुः उवाच -
दुरात्मा क्षिप्यतामस्मात् प्रासादात् शतयोजनात् ।
गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्‍गसंहतिः ॥ ११ ॥
ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः ।
पपात सोऽप्यधः क्षिप्तो हृदयेनोद्वहन्हरिम् ॥ १२ ॥
पतमानं जगद्धात्री जगद्धातरि केशवे ।
भक्तियुक्तं दधारैनमुपसङ्‍गम्य मेदिनी ॥ १३ ॥
ततो विलोक्य तं स्वस्थमविशिर्णस्थिपञ्जरम् ।
हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ १४ ॥
हिरण्यकशिपुः उवाच -
नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः ।
मायां वेत्ति भवान् तस्मान् माययैनं निषूदय ॥ १५ ॥
शम्बर उवाच -
सूदयाम्येव दैत्यैन्द्र पश्य मायाबलं मम ।
सहस्रमत्र मायानां पश्य कोटिशतं तथा ॥ १६ ॥
श्रीपराशर उवाच -
ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः ।
विनाशमिच्छन् दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ १७ ॥
समाहितमतिर्भूत्वा शम्बरेऽपि विमत्सरः ।
मैत्रेय सोऽपि प्रह्लादः सस्मार मधुसूदनम् ॥ १८ ॥
श्रीपराशर उवाच -
ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् ।
आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ १९ ॥
तेन मायामहस्रं तत् शम्बरस्याशुगामिना ।
बालस्य रक्षता देहं एकैकं च विशोधितम् ॥ २० ॥
संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् ।
शीग्रमेष ममादेशाद् दुरात्मा नीयतां क्षयम् ॥ २१ ॥
तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु ।
शीतोऽतिरुक्षः शोषाय तद्देहस्यातिदुःसहः ॥ २२ ॥
तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः ।
हृदयेन महात्मानं दधार धरणीधरम् ॥ २३ ॥
हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् ।
पपौ जनार्धनः क्रुद्धः स ययौ पवनः क्षयम् ॥ २४ ॥
क्षीणासु सर्वमायासु पवने च क्षयं गते ।
जगाम सोऽपि भवनं कुरोरेव महामतिः ॥ २५ ॥
अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् ।
ग्राहयामास तं बालं राज्ञामुशनसा कृताम् ॥ २६ ॥
गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः ।
मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ २७ ॥
आचार्य उवाच -
गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः ।
प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ २८ ॥
हिरण्यकशिपुः उवाच -
मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः ।
प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् ॥ २९ ॥
कथं मन्त्रिष्वमात्येषु बाह्योष्वाभ्यन्तरेषु च ।
चारेषु पौरवर्गेषु शंकितेष्वितरेषु च ॥ ३० ॥
कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् ।
प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥ ३१ ॥
एतच्चान्यच्च सकलमधीतं भवता यथा ।
तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ ३२ ॥
श्रीपराशर उवाच -
प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः ।
प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस्तथा ॥ ३३ ॥
प्रह्लाद उवाच -
ममोपदिष्टं सकलं गुरुणा नात्र संशयः ।
गृहीतन्तु मया किन्तु न सदेतन्मतं मम ॥ ३४ ॥
साम चोपप्रदानं च भेददण्डौ तथापरौ ।
उपायाः कथिताः सर्वे मित्रादिनां च साधने ॥ ३५ ॥
तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुद्धः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ ३६ ॥
सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ ३७ ॥
त्वाय्यस्ति भगवान् विष्णुः मयि चान्यत्र चास्ति सः ।
यतस्ततोऽयं मित्रं मे शत्रुश्चेति पृथक्कुतः ॥ ३८ ॥
तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः ।
अविद्यान्तर्गतैः यत्‍नः कर्तव्यस्तात शोभेने ॥ ३९ ॥
विद्याबुद्धिरविद्यायामज्ञानात्तात जायते ।
बालोऽग्निं किं न खद्योतमसुरेश्वर मन्यते ॥ ४० ॥
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ४१ ॥
तदेतद् अवगम्याहमसारं सारमुत्तमम् ।
निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ ४२ ॥
न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।
तथापि भाव्यमेवैतद् उभयं प्राप्यते नरैः ॥ ४३ ॥
सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः ।
तथापि पुंसां भग्यानि नोद्यमा भूतिहेतवः ॥ ४४ ॥
जडानामविवेकानामशूराणामपि प्रभो ।
भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥ ४५ ॥
तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।
यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ ४६ ॥
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।
रूपमेतद् अनन्तस्य विष्णोः भिन्नमिव स्थितम् ॥ ४७ ॥
एतद्विजानता सर्वं जगत्स्थावरजङ्‍गमम् ।
द्रष्टव्यमात्मवद्विष्णुः यतोऽयं विश्वरूपधृक् ॥ ४८ ॥
एवं ज्ञाते स भगवान् अनादिः परमेश्वरः ।
प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥ ४९ ॥
श्रीपराशर उवाच -
एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् ।
हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् ॥ ५० ॥
उवाच च स कोपेन सामर्षः प्रज्यलन्निव ।
निष्पिष्य पाणिना पिणिं हन्तुकामो जगद्यथा ॥ ५१ ॥
हिरण्यकशिपुः उवाच -
हे विप्रचित्ते हे राहो हे बलैष महार्णवे ।
नागापाशैः दृढैः बद्ध्वा क्षिप्यतां मा विलम्ब्यताम् ॥ ५२ ॥
अन्यथा सकला लोकास्तथा दैतेयदानवाः ।
अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥ ५३ ॥
बहुशो वारितोऽस्माभिः अयं पापस्तथाप्यरेः ।
स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥ ५४ ॥
पराशर उवाच -
ततस्ते सत्वरा दैत्या बद्ध्वा तं नागबन्धनैः ।
भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ ५५ ॥
ततश्चचाल चलता प्रह्लादेन महार्णवः ।
उद्वेलोऽभूत्परं क्षोभमुपेत्य च समन्ततः ॥ ५६ ॥
भुर्लोकमखिलं दृष्ट्‌वा प्लाव्यमानं महाम्भसा ।
हिरण्यकशिपुर्दैत्यान् इदमाह महामते ॥ ५७ ॥
हिरण्यकशिपुः उवाच -
दैतेयाः सकलैः शैलैः अत्रैव वरुणालये ।
निश्छिद्रैः सर्वशः सर्वैश्चीयतामेष दुर्मतिः ॥ ५८ ॥
नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः ।
क्षयं नीतो न वातेन न विषेण न कृत्यया ॥ ५९ ॥
न मायाभिः न चैवोच्चात् पातितो न च दिग्गजैः ।
बालोऽतिदुष्टचित्तोयं नानेनार्थोऽस्ति जीवता ॥ ६० ॥
तदेष तोयमध्ये तु समाक्रान्तो महीधरैः ।
तिष्ठत्वब्दसहस्रान्तं प्राणान् हास्यति दुर्मतिः ॥ ६१ ॥
ततो दैत्या दानवाश्च पर्वतैस्तं महोदधौ ।
आक्रम्य चयनं चक्रुः योजनानि सहस्रशः ॥ ६२ ॥
स चितः पर्वतेरन्तः समुद्रस्य महामतिः ।
तुष्टावाह्निक वेलायां एकाग्रमतिरच्युतम् ॥ ६३ ॥
प्रह्लाद उवाच -
नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम ।
नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे ॥ ६४ ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ ६५ ॥
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः ।
रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ ६६ ॥
देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः ।
पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ ६७ ॥
पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः ।
भूम्यापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः ॥ ६८ ॥
रूपं गन्धो मनो बुद्धिः आत्मा कालस्तथा गुणाः ।
एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ ६९ ॥
विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते ।
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ ७० ॥
समस्तकर्मभोक्ता च कर्मोपकरणानि च ।
त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ ७१ ॥
मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च ।
तवैवाव्याप्तिरैश्वर्य गुणसंसूचिकी प्रभो ॥ ७२ ॥
त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः ।
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ ७३ ॥
रूपं महत्ते स्थितमत्र विश्वं
ततश्च सूक्ष्मं जगदेतदीश ।
रूपामि सर्वाणि च भूतभेदाः
तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ ७४ ॥
तस्माच्च सूक्ष्मादिविशेषणानां
अगोचरे यत्परमात्मरूपम् ।
किमप्यचिन्त्यं तव रूपमस्ति
तस्मै नमस्ते पुरुषोत्तमाय ॥ ७५ ॥
सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव ।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ ७६ ॥
यातीतगोचरा वाचां मनसां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ॥ ७७ ॥
ॐ नमो वासुदेवाय तस्मै भगवते सदा ।
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ ७८ ॥
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने ।
नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते ॥ ७९ ॥
यस्यावताररूपाणि समर्चन्ति दिवौकसः ।
अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ ८० ॥
य्ॐतस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ ८१ ॥
नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् ।
ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ ८२ ॥
यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् ।
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ ८३ ॥
ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः ।
यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ ८४ ॥
सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ ८५ ॥
अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः ।
ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ॥ ८६ ॥
इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशोऽध्यायः (१९)



GO TOP