|
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ विंशोऽध्यायः ॥
श्रीपराशर उवाच -
एवं सञ्चिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवाप्यग्र्यं मेने चात्मानमच्युतम् ॥ १ ॥ विसस्मार तथात्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥ २ ॥ तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोऽच्युतः ॥ ३ ॥ योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे । चलत्युरगबन्धैस्तैर्मैत्रेय त्रुटितं क्षणात् ॥ ४ ॥ भ्रान्तग्राहगणः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥ ५ ॥ स च तं शैलसङ्घातं दैत्यैर्न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ ६ ॥ दृष्ट्वा च स जगद्भूयो गगनाद्युपलक्षणम् । प्रह्लादोऽस्मीति सस्मार पुनरात्मानमात्मनि ॥ ७ ॥ तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्वायमानसः ॥ ८ ॥ प्रह्लाद उवाच - ॐ नमः परमार्थार्थ स्थूल सूक्ष्म क्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥ ९ ॥ गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित । मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ १० ॥ करालसौम्यरूपात्मन्विद्याऽविद्यामयाच्युत । सदसद्रूपसद्भाव सदसद्भावभावन ॥ ११ ॥ नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ १२ ॥ यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश्चैतदविश्वहेतो- नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ १३ ॥ पराशर उवाच - तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकृर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ १४ ॥ ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोस्तु विष्णवेत्येतद् व्याजहारासकृद् द्विज ॥ १५ ॥ प्रह्लाद उवाच - देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ १६ ॥ श्रीभगवान् उवाच - कुर्वतस्ते प्रसन्नोऽहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रीयतां वरः ॥ १७ ॥ प्रह्लाद उवाच - नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युताभक्तिरच्युतास्तु सदा त्वयि ॥ १८ ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ १९ ॥ श्रीभगवानुवाच - मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रीयतां यस्तवेप्सितः ॥ २० ॥ प्रह्लाद उवाच - मयि द्वेषानुबन्धोऽभूत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रमश्यतु ॥ २१ ॥ शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चोरगैर्दत्तं यद्विषं मम भोजने ॥ २२ ॥ बद्धा समुद्रे यत्क्षिप्तो यच्चितोऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृताति मे ॥ २३ ॥ त्वयि भक्तिमतो द्वेषादघं तत्सम्भवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्येत मे पिता ॥ २४ ॥ श्रीभगवानुवाच - प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भाविष्यति । अन्यच्च ते वरं दद्मि व्रीयतामसुरात्मज ॥ २५ ॥ प्रहलाद उवाच - कृतकृत्योस्मि भगवन्वरेणानेन यत्त्वयि । भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥ २६ ॥ धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ २७ ॥ श्रीभगवानुवाच - यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणण् परमाप्स्यसि ॥ २८ ॥ श्रीपराशर उवाच - इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ २९ ॥ तं पिता मूर्ध्न्युपाघ्राय परिष्वज्य च पीडितम् । जीवसीत्याह वत्सेति बाष्पार्द्रनयनो द्विज ॥ ३० ॥ प्रीतिमांश्चाऽभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥ ३१ ॥ पितर्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ ३२ ॥ ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्वीज । पुत्रपौत्रांश्च सुबहूनवाप्यैश्वर्यमेव च ॥ ३३ ॥ क्षीणाधिकारः स यदा पुण्यपापविविर्जितः । तदा स भगवद्ध्यानात्परं नीर्वाणमाप्तवान् ॥ ३४ ॥ एवं प्रभावो दैत्योऽसौ मैत्रेयासीन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ ३५ ॥ यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥ ३६ ॥ अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृण्वन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥ ३७ ॥ पौर्णमास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां तदाप्नोति गोप्रदानफलं द्विज ॥ ३८ ॥ प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः । तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ ३९ ॥ इति श्रीविष्णुपुराणे प्रथमेंऽशे विंऽशोध्यायः (२०) |