सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - अष्टादशोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ अष्टादशोऽध्यायः ॥

श्रीपराशर उवाच -
तस्यैतां दानवाश्चेष्टां दृष्ट्‌वा दैत्यपतेर्भयात् ।
आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥ १ ॥
हिरण्यकशिपुः उवाच -
हे सूदा मम पुत्रोसौ अन्येषामपि दुर्मतिः ।
कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ २ ॥
हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् ।
अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥ ३ ॥
श्रीपराशर उवाच -
ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने ।
विषदानं यथाज्ञाप्तं पित्रा तस्य महात्मनः ॥ ४ ॥
हालाहलं विषं घोरमनन्तोच्चारणेन सः ।
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ ५ ॥
अविकारं स तद्‌भुक्त्वा प्रह्लादः स्वस्थमानसः ।
अनन्तख्यातिनिर्विर्यं जरयामास तद्विषम् ॥ ६ ॥
ततः सूदा भयत्रस्ता जीर्णं दृष्ट्‌वा महद्विषम् ।
दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ ७ ॥
सूदा ऊचुः -
दैत्यराज विषं दत्तमस्माभिः अतिभीषणम् ।
जीर्णं तेन सहान्नेन प्रह्लादेन सुतेन ते ॥ ८ ॥
हिरण्यकशिपुः उवाच -
त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः ।
कृत्यां तस्य विनाशाय उत्पादयत मा चिरम् ॥ ९ ॥
श्रीपराशर उवाच -
सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः ।
सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ १० ॥
पुरोहिता ऊचुः -
जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणः कुले ।
दैत्यराजस्य तनयो हिरण्यकशिपोर्भवान् ॥ ११ ॥
किं देवैः किमनन्तेन किमन्येन तवाश्रयः ।
पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥ १२ ॥
तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् ।
श्लाघ्यः पिता समस्तानां गुरूणां परमो गुरुः ॥ १३ ॥
प्रह्लाद उवाच -
एवम् एतन् महाभागाः श्लाघ्यमेतन्महाकुलम् ।
मरिचेः सकलेप्यस्मिन् त्रैलोक्ये नान्याथा वदेत् ॥ १४ ॥
पिता च मम सर्वास्मिन् जगत्युत्कृष्टचेष्टितः ।
एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ॥ १५ ॥
गुरूणामपि सर्वेषां पिता परमको गुरुः ।
यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥ १६ ॥
पिता गुरुर्न सन्देहः पूजनीयः पूयत्‍नतः ।
तत्रापि नापराध्यामि इत्येवं मनसि से स्थितम् ॥ १७ ॥
यत्त्वेतत्किमनन्तेन इत्युक्तं युष्माभिरीदृशम् ।
को ब्रवीति यथान्याय्यं किं तु नैतद्वचोर्थवत् ॥ १८ ॥
इत्युक्त्वा सोऽभवन्मौनी तेषां गौरवयन्त्रितः ।
प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ १९ ॥
साधु भोः किमनन्तेन साधु भो गुरुवो मम ।
श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ २० ॥
धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः ।
चतुष्टयमिदं यस्मात् तस्मात्किं किमिदं वच ॥ २१ ॥
मरीचिमिश्रैः दक्षाद्यैस्तथैवान्यैः अनन्ततः ।
धर्म प्राप्तस्तथा चान्यैः अर्थः कामस्तथाऽपरैः ॥ २२ ॥
तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः ।
अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ २३ ॥
सम्पदैश्वर्यमाहात्म्य-ज्ञानसन्ततिकर्मणाम् ।
विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ २४ ॥
यतो धर्मार्थकामाख्यं मुक्तिश्चपि फलं द्विजाः ।
तेनापि किं किमित्येवमनन्तेन किमुच्यते ॥ २५ ॥
किं चापि बहुनोक्तेन भवन्तो गुरवो मम ।
वदन्तु साधु वासाधु विवेकोऽस्माकमल्पकः ॥ २६ ॥
बहुनात्र किमुक्तेन स एव जगतः पतिः ।
स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः ॥ २७ ॥
स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः ।
भवद्‌भिः एतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ २८ ॥
पुरोहिता ऊचुः -
दह्यमानस्त्वमस्माभिः अग्निना बाल रक्षितः ।
भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान् ॥ २९ ॥
यदास्मद्वचनान्मोह-ग्राहं न त्यक्षते भवान् ।
ततः कृत्यां विनाशाय तव स्रक्ष्याम दुर्मते ॥ ३० ॥
प्रह्लाद उवाच -
कः केन हन्यते जन्तुः जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥ ३१ ॥
कर्मणा जायते सर्वं कर्मैव गतिसाधनम् ।
तस्मात्सर्वप्रयत्‍नेन साधु कर्म समाचरेत् ॥ ३२ ॥
श्रीपराशर उवाच -
इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः ।
कृत्यामुत्पादयामासुः ज्वालामालोज्ज्वलाकृतिम् ॥ ३३ ॥
अतिभीमा समागम्य पादन्यासक्षतक्षितिः ।
शुलेन साधु संक्रुद्धा तं जघानाशु वक्षसि ॥ ३४ ॥
तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् ।
जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥ ३५ ॥
यत्रानपायी भगवान् हृद्यास्ते हरिरिश्वरः ।
भङ्‍गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ ३६ ॥
अपापे तत्र पापैश्च पातिता दैत्यायाजकैः ।
तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ ३७ ॥
कृत्यया दह्यमानान् तान् विलोक्य स महामतिः ।
त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ॥ ३८ ॥
प्रह्लाद उवाच -
सर्वव्यापिन् जगद्‍रूप जगत्स्रष्टर्जनार्दन ।
पाहि विप्रानिमानस्माद् दुःसहान् मन्त्रपावकात् ॥ ३९ ॥
यथा सर्वेषु भूतेषु सर्वव्यापी जगद्‍गुरुः ।
विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ ४० ॥
यथा सर्वगतं विष्णुं मन्यमानोऽनपायिनम् ।
चिन्तयाम्यरिपक्षेऽपि जीवन्त्वेते पुरोहिताः ॥ ४१ ॥
ये हन्तुमागता दत्तं योर्विषं यैर्हुताशनः ।
यैः दिग्गजैः अहं क्षुण्णो दष्टः सर्पैश्च यैरपि ॥ ४२ ॥
तेष्वहं मित्रभावेन समः पापोस्मि न क्वचित् ।
यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥ ४३ ॥
श्रीपराशर उवाच -
इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः ।
समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ ४४ ॥
पुरोहिता ऊचुः -
दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः ।
पुत्रपौत्रधनश्वर्यैः युक्तो वत्स भवोत्तमः ॥ ४५ ॥
श्रीपराशर उवाच -
इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः ।
दैत्यराजाय सकलं आचचख्युर्महामुने ॥ ४६ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे प्रह्लादचरितेऽष्टादशोऽध्यायः (१८)



GO TOP