|
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ सप्तदशोऽध्यायः ॥
श्रीपराशर उवाच -
मैत्रेय क्षूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदार चरितस्य महात्मनः ॥ १ ॥ दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ २ ॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥ ३ ॥ धनानामधिपः सोऽभूत् स एवासीत्स्वयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥ ४ ॥ देवाः स्वर्गं परित्यज्य तत् त्रासान् मुनिसत्तम । विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ ५ ॥ जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उपगीयमानो गन्धर्वैः बुभुजे विषयान्प्रियान् ॥ ६ ॥ पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासान् चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥ ७ ॥ अवादयन् जगुश्चान्ये जयशब्दं तथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥ ८ ॥ तत्र प्रनृत्तप्सरसि स्फाटिकाभ्रमयेऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥ ९ ॥ तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठ्यानि गुरुगेहङ्गतोऽर्भकः ॥ १० ॥ एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पुतुर्दैत्यपतेस्तदा ॥ ११ ॥ पादप्रणामावनतं तमुत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ १२ ॥ हिरण्यकशिपुः उवाच - पठ्यतां भवता वत्स सारभूतं सुभाषितम् । कालेनैतावता यत्ते सदोद्योक्तेन शिक्षितम् ॥ १३ ॥ प्रह्लाद उवाच - श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ १४ ॥ अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोऽस्म्यन्तमन्तानं सर्वकारणकारणम् ॥ १५ ॥ श्रीपराशर उवाच - एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥ १६ ॥ हिरण्यकशिपुरुवाच - ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥ १७ ॥ गुरुरुवाच - दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितं नायं वदति ते सुतः ॥ १८ ॥ हिरण्यकशिपुरुवाच - अनुशिष्टोसि केनेदृग् वत्स प्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ १९ ॥ प्रह्लाद उवाच - शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानं तात कः केन शास्यते ॥ २० ॥ हिरण्यकशिपुः उवाच - कोयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभं मम ॥ २१ ॥ प्रह्लाद उवाच - न शब्दगोचरं यस्य योगिध्येयं परं पदम् । यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः ॥ २२ ॥ हिरण्यकशिपुः उवाच - परमेश्वरसंज्ञोऽज्ञ किमन्यो मय्यवस्थिते । तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥ २३ ॥ प्रह्लाद उवाच - न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश्च विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम् ॥ २४ ॥ हिरण्यकशिपुः उवाच - प्रविष्टः कोऽस्य हृदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ २५ ॥ प्रह्लाद उवाच - न केवलं मद्धृदयं स विष्णुः आक्रम्य ललोकानखिलानवस्थितः । स मां त्वदान्दीश्च पितःसमस्तान् समस्तचेष्टासु युनक्ति सर्वगः ॥ २६ ॥ हिरण्यकिशिपुः उवाच - निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ २७ ॥ श्रीपारशर उवाच - इत्युक्तोऽसौ तदा दैत्यैः नीतो गुरुगृहं पुनः । जग्राह विद्यामनिशं गुरुशुश्रूषणोद्यतः ॥ २८ ॥ कालोतीतेति महति प्रह्लादमसुरेश्वरः । समाहूयाब्रवीद्गाथा काचित्पुत्रक गीयताम् ॥ २९ ॥ प्रह्लाद उवाच - यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ ३० ॥ हिरण्यकशिपुः उवाच - दुरात्मा वध्यतामेष नानेनार्थोस्ति जीवता । स्वपक्षहानिकर्तृत्वात् यः कुलाङ्गारतां गतः ॥ ३१ ॥ श्रीपराशर उवाच - इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः ॥ ३२ ॥ प्रह्लाद उवाच - विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥ ३३ ॥ श्रीपराशर उवाच ततस्तैः शतशो दैत्यैः शस्त्रोघैः आहतोऽपि सन् । नावाच वेदनामल्पामभूच्चैव पुनर्नवः ॥ ३४ ॥ हिरण्यकशिपुः उवाच - दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवादतः । अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥ ३५ ॥ प्रह्लाद उवाच - भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन्स्मृते जन्मजरान्तकादि भयानि सर्वाम्यपयान्ति तात ॥ ३६ ॥ हिरण्यकशिपुः उवाच - भोभोः सर्पाः दुराचारं एनमत्यन्तदुर्मतिम् । विषज्वालाकुलैः वक्रैः सद्यो नयतः संक्षयम् ॥ ३७ ॥ श्रीपराशर उवाच - इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ ३८ ॥ स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥ ३९ ॥ सर्पा ऊचुः - दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कम्पः । नास्य त्वचः स्वल्पमपीह भिन्नं प्रशाधि दैत्येश्वर कार्यमन्यत् ॥ ४० ॥ हिरण्यकशिपुः उवाच - हे दिग्गजाः संकटदन्तमिश्रा घ्नतैनमस्मद् रिपुपक्षभिन्नम् । तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः ॥ ४१ ॥ श्रीपराशर उवाच - ततः स दिग्गजैः बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठे विषाणैः वावपीडितः ॥ ४२ ॥ स्मरतस्तस्य गोविन्दमभिदन्ताः सहस्रशः । शीर्णा वक्षस्थलं प्राप्य स प्राह पितरं ततः ॥ ४३ ॥ दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेतेन बलं ममैतत् । महाविपत्तापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ ४४ ॥ हिरण्यकशिपुः उवाच - ज्वाल्यतामसुरा बह्निः अपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्यतामेष पापकृत् ॥ ४५ ॥ श्रीपराशर उवाच - महाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ ४६ ॥ प्रह्लाद उवाच - तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् । पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि ॥ ४७ ॥ श्रीपराशर उवाच - अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्विजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ ४८ ॥ पुरोहिता ऊचुः - राजन्नियम्यतां कोपो बालेपि तनये निजे । कोपो देवनिकायेषु तेषु ते शपलो यतः ॥ ४९ ॥ तथातथैनं बालं ते शासितारो वयं नृपः । यथा विपभनाशाय विनीतस्ते भविष्यति ॥ ५० ॥ बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ ५१ ॥ न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामोऽनिवर्तिनीम् ॥ ५२ ॥ श्रीपराशर उवाच - एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैः निष्कासयामास पुत्रं पावकसञ्चयात् ॥ ५३ ॥ ततो गुरुगृहे वालः स वसन्बालदानवान् । अध्यापयामास मुहुः उपदेशान्तरे गुरोः ॥ ५४ ॥ प्रह्लाद उवाच - श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥ ५५ ॥ जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जराः ॥ ५६ ॥ ततश्च सृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृस्यते चैतद् अस्माकं भवतां तथा ॥ ५७ ॥ मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमोऽयं तथा यच्च नोपादानं विनोद्भवः ॥ ५८ ॥ गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । सह स्तावस्थकं तावद् दुःखमेवावगम्यताम् ॥ ५९ ॥ क्षुत्तृष्णोपशमं तद्वद् शीताद्युपशमं मुखम् । मन्यते बालबुद्धित्वाद् दुःखमेव हि तत्पुनः ॥ ६० ॥ अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥ ६१ ॥ क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः । क्व कान्तिशोभासौन्दर्य रमणीयादयो गुणाः ॥ ६२ ॥ मांसासृक् पूयविण्मूत्र स्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान् मूढो भविता नरकेऽप्यसौ ॥ ६३ ॥ अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ ६४ ॥ करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ ६५ ॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ ६६ ॥ यद्यद्गृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशदाहोपकरणं तस्य तत्रैव तिष्ठति ॥ ६७ ॥ जन्मन्यत्र महद्दुखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥ ६८ ॥ गर्भेषु सुखलेशोऽपि भवद्भिः अनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ ६९ ॥ तदेवमतिदुखानां आस्पदेऽत्र भवार्णेवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥ ७० ॥ मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्य धर्मा देहस्य नात्मनः ॥ ७१ ॥ बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्धके प्राप्ते करिष्याम्यात्मनो हितम् ॥ ७२ ॥ वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ ७३ ॥ एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कादाचित्पिपासितः ॥ ७४ ॥ बाल्ये क्रिडनकासक्ता यौवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्धकं समुपस्थितम् ॥ ७५ ॥ तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्वाद्यैः देहभावैः असंयुतः ॥ ७६ ॥ तदेतद्वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ ७७ ॥ प्रयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् । पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥ ७८ ॥ सर्वभूतस्थिते तस्मिन् मतिर्मैत्री दिवानिशम् । भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ ७९ ॥ तापत्रयेणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥ ८० ॥ अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तदापि कुर्वीत हानिर्द्वेषफलं यतः ॥ ८१ ॥ बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ ८२ ॥ एते भिन्नदृसां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संक्षेपः श्रूयतां मम ॥ ८३ ॥ विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत् तस्मात् अभेदेन विचक्षणैः ॥ ८४ ॥ समुत्सृज्यासुरं भावं तस्माद् यूयं यथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ ८५ ॥ या नाग्निना न चार्केण नेन्दुना न च वायुना । पर्जन्यवरुणाभ्यां वा न सिद्धेर्न च राक्षसैः ॥ ८६ ॥ न यक्षैः न च दैत्येन्द्रैः नोरगैः न च किन्नरैः । न मनुष्यैः न पशुभिः दोषैः नैवात्मसम्भवैः ॥ ८७ ॥ ज्वाराक्षिरोगातीसार प्लीहगुल्मादिकैस्तथा । द्वेषेर्ष्यामत्सराद्यैर्वा रागलोभादिभिः क्षयम् ॥ ८८ ॥ न चान्यैः नीयते कैश्चित् नित्या यात्यन्तनिर्मला । तामाप्नोत्यमलेन्यस्य केशवे हृदयं नरः ॥ ८९ ॥ असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्याःसमतामुपेत समत्वमाराधनमच्युतस्य ॥ ९० ॥ तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैः अलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्ता निःसंशयं प्राप्स्यथ वै महत्फलम् ॥ ९१ ॥ इति श्रीविष्णुपुराणे प्रथमेंऽशे प्रह्लादानुचरितं नाम सप्तदशोध्यायः |