॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ षोडशोऽध्यायः ॥

मैत्रेय उवाच
कथितो भवता वंशो मानवानां महामुने ।
कारणं चास्य जगतो विष्णुरेव सनातनः ॥ १ ॥
यत्त्वेतद्‌ भगवानाह प्रह्लादं दैत्यसत्तमम् ।
ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥ २ ॥
जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते ।
पाशैर्बद्धे विचलति विक्षिप्ताङ्‌गैः समाहता ॥ ३ ॥
शैलैराक्रान्तदेहोऽपि न ममार च यः पुरा ।
त्वयैवातीव माहात्म्यं कथितं यस्य धीमतः ॥ ४ ॥
तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने ।
श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥ ५ ॥
किंनिमित्तमसौ शस्त्रैर्विक्षतो दितिजैर्मुने ।
किमर्थं चाब्धिसलिले निक्षिप्तो धर्मतत्परः ॥ ६ ॥
आक्रान्तः पर्वतैः कस्मात् द्दष्टश्चैव महोरगैः ।
क्षिप्तः किमद्रिशिखरात्किं वा पावकसञ्चये ॥ ७ ॥
दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरूपितः ।
संशोषकोऽनिलश्चास्य प्रयुक्तः किं महासुरैः ॥ ८ ॥
कृत्यां च दैत्यगुरवो युयुजुस्ते तु किं मुने ।
शम्बरश्चापि मायानां सहस्रं किं प्रयुक्तवान् ॥ ९ ॥
हालाहलं विषमहो दैत्यसूदैर्महात्मनः ।
कस्माद्‌दत्तं विनाशाय यज् जीर्णं तेन धीमता ॥ १० ॥
एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः ।
चरितं श्रोतुमिच्छामि महामाहात्म्यसूचकम् ॥ ११ ॥
न हि कौतूहलं तत्र यद्‌दैत्यैर्न हतो हि सः ।
अनन्यमनसो विष्णौ कः समर्थो निपातने ॥ १२ ॥
तस्मिन् धर्मपरे नित्यं केशवाराधनोद्यते ।
स्ववंशप्रभवैर्दैत्यैः कर्तुं द्वेषोऽतिदुष्करः ॥ १३ ॥
धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे ।
दैतेयैः प्रहृतं कस्मात्तन्ममाख्यातुमर्हसि ॥ १४ ॥
प्रहरन्ति महात्मानो विपक्षे अपि नेदृशे ।
गुणैस्समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥ १५ ॥
तदेतत् कथ्यतां सर्वं विस्तरान्मुनिपुङ्‍गव ।
दैत्येश्वरस्य चरितं श्रोतुमिच्छाम्यशेषतः ॥ १६ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे षोडशोऽध्यायः



GO TOP