सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - पञ्चदशोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ पञ्चदशोऽध्यायः ॥

पराशर उवाच
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ १ ॥
नाशकन्मरुतो वातुं वृतं खमभवद्‌द्रुमैः ।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २ ॥
तान्दृष्ट्‍वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः ।
मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ ३ ॥
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् ।
तानग्निरदहद्‌घोरस्तत्राभूद्‌द्रुमसङ्‍क्षयः ॥ ४ ॥
द्रुमक्षयमथो दृष्ट्‍वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥ ५ ॥
कोपं यच्छत राजानः शृणुध्वं च वचो मम ।
संधानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ ६ ॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
भविष्यं जानता पूर्वं मया गोभिर्विवर्धिता ॥ ७ ॥
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ ८ ॥
युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ ९ ॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ १० ॥
कण्डुर्नाम मुनिः पूर्वमासीद्‌वेदविदां वरः ।
सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥ ११ ॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ १२ ॥
क्षोभितः स तया सार्द्धं वर्षाणामधिकं शतम् ।
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ १३ ॥
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ १४ ॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
दिनानि कतिचिद्‌भद्रे स्थीयतामित्यभाषत ॥ १५ ॥
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस्तन्वी तेन सार्द्धं महात्मना ॥ १६ ॥
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
उक्तस्तथेति स मुनिः स्थीयतामित्यभाषत ॥ १७ ॥
पुनर्गते वर्षशते साधिके सा शुभानना ।
यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १८ ॥
उक्तस्तयैवं स मुनिरुपगुह्यायतेक्षणाम् ।
प्राहास्यतां क्षणं सुभ्रु चिरकालं गमिष्यसि ॥ १९ ॥
सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किञ्चिदूनं वर्षाणामन्वतिष्ठत ॥ २० ॥
गमनाय महाभागो देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ २१ ॥
तस्य शापभयाद्‌भीता दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्‌गार्तिवेदिनी न जहौ मुनिम् ॥ २२ ॥
तया च रमतस्तस्य परमर्षेरहर्निशम् ।
नवं नवमभूत्प्रेम मन्मथाविष्टचेतसः ॥ २३ ॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ २४ ॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
संध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥ २५ ॥
ततः प्रहस्य मुदिता तं सा प्राह महामुनिम् ।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ २६ ॥
बहूनां विप्र वर्षाणां परिणाममहस्तव ।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ २७ ॥
मुनिरुवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
मया दृष्टा च तन्वङ्‌गि प्रविष्टा च ममाश्रमम् ॥ २८ ॥
इयं च वर्तते संध्या परिणाममहर्गतम् ।
उपहासः किमर्थोऽयं सद्‌भावः कथ्यतां मम ॥ २९ ॥
प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा ।
किन्त्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ ३० ॥
सोम उवाच
ततस्ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ ३१ ॥
प्रम्लोचोवाच
सप्तोत्तराण्यतीतानि नव वर्षशतानि ते ।
मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ ३२ ॥
ऋषिरुवाच
सत्यं भीरु वदस्येतत् परिहासोऽथ वा शुभे ।
दिनमेकमहं मन्ये त्वया सार्धमिहासितम् ॥ ३३ ॥
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके ।
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ ३४ ॥
सोम उवाच
निशम्य तद्‌वचः तस्याः स मुनिर्नृपनन्दनाः ।
धिग्‌धिङ्‌ मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ ३५ ॥
मुनिरुवाच
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
हृतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥ ३६ ॥
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
मतिरेषा हृता येन धिक् तं कामं महाग्रहम् ॥ ३७ ॥
व्रतानि वेदवेद्याप्तिकारणान्यखिलानि च ।
नरकग्राममार्गेण सङ्‌गेनापहृतानि मे ॥ ३८ ॥
विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना ।
तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ ३९ ॥
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया ।
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ ४० ॥
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां सप्तपदं मैत्रमुषितोऽहं त्वया सह ॥ ४१ ॥
अथ वा तव को दोषः किं वा कुप्याम्यहं तव ।
ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ ४२ ॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
त्वया धिक्‌तां महामोहमञ्जूषां सुजुगुप्सिताम् ॥ ४३ ॥
सोम उवाच
यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् ।
तावद्‌गलत्स्वेदजला सा बभूवातिवेपथुः ॥ ४४ ॥
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ ४५ ॥
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ ४६ ॥
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ।
वृक्षाद्‌वृक्षं ययौ बाला तदग्रारुणपल्लवैः ॥ ४७ ॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्‌गतः ॥ ४८ ॥
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ ४९ ॥
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ ५० ॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्‌गता ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ ५१ ॥
श्रीपराशर उवाच
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमाः ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ ५२ ॥
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः ।
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ ५३ ॥
प्रचेतस ऊचुः
ब्रह्मपारं मुनेः श्रोतुमिच्छामः परमं स्तवम् ।
जपता कण्डुना देवो येनाराध्यत केशवः ॥ ५४ ॥
सोम उवाच
पारं परं विष्णुरपारपारः
परः परेभ्यः परमार्थरूपी ।
स ब्रह्मपारः परपारभूतः
परः पराणामपि पारपारः ॥ ५५ ॥
स कारणं कारणतस्ततोऽपि
तस्यापि हेतुः परहेतुहेतुः ।
कार्येषु चैवं सह कर्मकर्तृ-
रूपैरशेषैरवतीह सर्वम् ॥ ५६ ॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो
ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
ब्रह्माव्ययं नित्यमजं स विष्णु-
रपक्षयाद्यैरखिलैरसङ्‌गि ॥ ५७ ॥
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ ५८ ॥
एतद्‌ब्रह्मपराख्यं वै संस्तवं परमं जपन् ।
अवाप परमां सिद्धिं स समाराध्य केशवम् ॥ ५९ ॥
[ इमं स्तवं यः पठति शृणुयाद्‌वापि नित्यशः ।
स कामदोषैरखिलैर्मुक्तः प्राप्त्नोति वाञ्छितम् ॥ ]
इयं च मारिषा पूर्वमासीद्‌या तां ब्रवीमि वः ।
कार्यगौरवमेतस्याः कथने फलदायि वः ॥ ६० ॥
अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः ।
भूपपत्नी महाभागा तोषयामास भक्तितः ॥ ६१ ॥
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः ।
वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ ६२ ॥
भगवन् बालवैधव्याद्‌ वृथाजन्माहमीदृशी ।
मन्दभाग्या समुद्‌भूता विफला च जगत्पते ॥ ६३ ॥
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि ।
त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोऽस्तु मे ॥ ६४ ॥
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता।
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ ६५ ॥
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना ।
अयोनिजा च जायेयं त्वत्प्रसादादधोक्षज ॥ ६६ ॥
सोम उवाच
तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् ।
प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ ६७ ॥
देव उवाच
भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि ।
प्रख्यातोदारकर्माणो भवत्याः पतयो दश ॥ ६८ ॥
पुत्रं च सुमहावीर्यं महाबलपराक्रमम् ।
प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ ६९ ॥
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति ।
त्रैलोक्यमखिलं सूतिस्तस्य चापूरयिष्यति ॥ ७० ॥
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता ।
मनःप्रीतिकरी नॄणां मत्प्रसादाद्‌भविष्यसि ॥ ७१ ॥
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् ।
सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ ७२ ॥
पराशर उवाच
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मेण मारिषाम् ॥ ७३ ॥
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ ७४ ॥
स तु दक्षो महाभागस्सृष्ट्यर्थं सुमहामते ।
पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ ७५ ॥
अवरांश्च वरांश्चैव द्विपदोऽथ चतुष्पदः ।
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ ७६ ॥
स सृष्ट्‍वा मनसा दक्षः पञ्चाशदसृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ७७ ॥
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः ।
गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ ७८ ॥
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।
सङ्‌कल्पाद्‌दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः ।
तपोविशैषैरिद्धानां तदात्यन्ततपस्विनाम् ॥ ७९ ॥
मैत्रेय उवाच
अङ्‌गुष्ठाद्‌दक्षिणाद्‌दक्षः पूर्वं जातः श्रुतो मया ।
कथं प्राचेतसो भूयः स सम्भूतो महामुने ॥ ८० ॥
एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
यद्‌दौहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ ८१ ॥
पराशर उवाच
उत्पत्तिश्च निरोधश्च नित्यो भूतेषु सत्तम ।
ऋषयोऽत्र न मुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ ८२ ॥
युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तम ।
पुनश्चैव निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ ८३ ॥
कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्‌द्विजोत्तम ।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥ ८४ ॥
मैत्रेय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ ८५ ॥
पराशर उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा शृणु महामते ॥ ८६ ॥
मनसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा ।
देवानृषीन् सगन्धर्वानसुरान्पन्नगांस्तथा ॥ ८७ ॥
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
ततः सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः ॥ ८८ ॥
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असिक्नीमावहत्कन्यां वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ ८९ ॥
अथ पुत्रसहस्राणि वैरिण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ ९० ॥
तान् दृष्ट्‍वा नारदो विप्र संविवर्द्धयिषून्प्रजाः ।
सङ्‌गम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ ९१ ॥
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ ।
ईदृशो लक्ष्यते यत्नो भवतां श्रूयतामिदम् ॥ ९२ ॥
बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ ९३ ॥
ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः ।
तदा कस्माद्‌भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ ९४ ॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ९५ ॥
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरिण्यामथ पुत्राणां सहस्रमसृजत् प्रभुः ॥ ९६ ॥
विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः ।
पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव चोदिताः ॥ ९७ ॥
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ ९८ ॥
ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजाः स्रक्ष्यामहे ततः ।
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ९९॥
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १०० ॥
तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ १०१ ॥
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः ।
षष्टिं दक्षोऽसृजत्कन्या वैरिण्यामिति नः श्रुतम् ॥ १०२ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १०३ ॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्‌गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १०४ ॥
अरुन्धती वसुर्जामिर्लम्बा भानुर्मरुत्वती ।
सङ्‌कल्पा च मुहूर्ता च साध्या विश्वा च तादृशी ।
धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे शृणु ॥ १०५ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत ।
मरुत्वत्या मरुत्वन्तो वसोस्तु वसवः स्मृताः ।
भानोस्तु भानवस्तत्र मुहूर्ताया मुहूर्तजाः ॥ १०६ ॥
लम्बायाश्चैव घोषोऽथ नागवीथी तु यामिजा ॥ १०७ ॥
पृथिवीविषयं सर्वमरुन्धत्यामजायत ।
सङ्‌कल्पायास्तु सर्वात्मा जज्ञे सङ्‌कल्प एव च ॥ १०८ ॥
ये त्वनेकवसुप्राणादेवा ज्योतिःपुरोगमाः ।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ १०९ ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ११० ॥
आपस्य पुत्रो वैतण्डः श्रमः श्रान्तोऽधुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १११ ॥
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ॥ ११२ ॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायां शिशिरः प्राणोऽथ वरुणस्तथा ॥ ११३ ॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ ११४ ॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ ११५ ॥
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ ११६ ॥
प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्ना तु देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ ११७ ॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ११८ ॥
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः ॥ ११९ ॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
यः सर्वेषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १२० ॥
तस्य पुत्रास्तु चत्वारस्तेषां नामानि मे शृणु ।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च बुद्धिमान् ।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १२१ ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दी रैवतः स्मृतः ॥ १२२ ॥
मृगव्याधश्च शर्वश्च कपाली च महामुने ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ॥ १२३ ॥
कश्यपस्य तु भार्या यास्तासां नामानि मे शृणु ।
अदितिर्दितिर्दनुश्चैवारिष्टा सुरसा स्वसा ॥ १२४ ॥
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १२५ ॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ १२६ ॥
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
समवायीकृताः सर्वे समागम्य परस्परम् ॥ १२७ ॥
आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १२८ ॥
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात्कश्यपाज्जातास्तेऽदित्या दक्षकन्यया ॥ १२९ ॥
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १३० ॥
विवस्वान्सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १३१ ॥
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १३२ ॥
सप्तविंशति याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।
सर्वा नक्षत्रयोगिन्यस्तन्नाम्न्यश्चैव ताः स्मृताः ॥ १३३ ॥
तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १३४ ॥
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ १३५ ॥
प्रत्यङ्‌गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ॥ १३६ ॥
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ॥ १३७ ॥
तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १३८ ॥
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह ।
एवं देवनिकायास्ते सम्भवन्ति युगे युगे ॥ १३९ ॥
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ १४० ॥
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १४१ ॥
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।
अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिवान् ।
संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ १४२ ॥
तेषां मध्ये महाभागः सर्वत्र समदृग्वशी ।
प्रह्लादः परमां भक्तिं य उवाच जनार्दने ॥ १४३ ॥
दैत्येन्द्रदीपितो वह्निः सर्वाङ्‌गोपचितो द्विज ।
न ददाह च यं पूर्वं वासुदेवे हृदि स्थिते ॥ १४४ ॥
महार्णवान्तःसलिले स्थितस्य चलतो मही ।
चचाल सकला यस्य पाशबद्धस्य धीमतः ॥ १४५ ॥
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः ।
शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १४६ ॥
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १४७ ॥
शैलैराक्रान्तदेहोऽपि यः स्मरन् पुरुषोत्तमम् ।
तत्याज नात्मनः प्राणान् विष्णुस्मरण दंशितः ॥ १४८ ॥
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् ।
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १४९ ॥
यस्य संशोषको वायुर्देहे दैत्येन्द्रयोजितः ।
अवाप सङ्‍क्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १५० ॥
विषाणभङ्‌गमुन्मत्ता मदहानिं च दिग्गजाः ।
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १५१ ॥
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १५२ ॥
शम्बरस्य च मायानां सहस्रमतिमायिनः ।
यस्मिन् प्रयुक्तं चक्रेण कृष्णस्य वितथीकृतम् ॥ १५३ ॥
दैत्येन्द्रसूदोपहृतं यश्च हालाहलं विषम् ।
जरयामास मतिमानविकारममत्सरी ॥ १५४ ॥
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु ।
यथात्मनि तथान्यत्र परं मैत्रगुणान्वितः ॥ १५५ ॥
धर्मात्मा सत्यशौचादिगुणानामाकरः परः ।
उपमानमशेषाणां साधूनां यः सदाभवत् ॥ १५६ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चदशोऽध्यायः



GO TOP