|
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ चतुर्दशोऽध्यायः ॥
पराशर उवाच
पृथोः पुत्रौ महावीर्यौ जज्ञातेऽन्तर्द्धिवादिनौ । शिखण्ड्इनी हविर्धानमन्तर्धानाद्व्यजायत ॥ १ ॥ हविर्धानात् षडाग्नेयी धिषणाजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ २ ॥ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानिर्महाभाग येन संवर्धिताः प्रजाः ॥ ३ ॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने । प्राचीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥ ४ ॥ समुद्रतनयायां तु कृतदारो महीपतिः । महतस्तपसः पारे सवर्णायां महीपतेः ॥ ५ ॥ सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ ६ ॥ अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः । दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ ७ ॥ मैत्रेय उवाच यदर्थं ते महात्मानस्तपस्तेपुर्महामुने । प्रचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ ८ ॥ पराशर उवाच पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना । प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥ ९ ॥ प्राचीनबर्हिरुवाच ब्रह्मणा देवदेवेन समादिष्टोऽस्म्यहं सुताः । प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत् ॥ १० ॥ तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः । कुरुध्वं माननीया च सम्यगाज्ञा प्रजापतेः ॥ ११ ॥ पराशर उवाच ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः । तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥ १२ ॥ प्रचेतस ऊचुः येन तात प्रजावृद्धौ समर्थाः कर्मणा वयम् । भवेम तत् समस्तं नः कर्म व्याख्यातुमर्हसि ॥ १३ ॥ पितोवाच आराध्य वरदं विष्णुमिष्टप्राप्तिमसंशयम् । समेति नान्यथा मर्त्यः किमन्यत्कथयामि वः ॥ १४ ॥ तस्मात् प्रजाविवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् । आराधयत गोविन्दं यदि सिद्धिमभीप्सथ ॥ १५ ॥ धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा । आराधनीयो भगवाननादिपुरुषोत्तमः ॥ १६ ॥ यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः । तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥ १७ ॥ पराशर उवाच इत्येवमुक्तास्ते पित्रा पुत्राः प्रचेतसो दश । मग्नाः पयोधिसलिले तपस्तेपुः समाहिताः ॥ १८ ॥ दश वर्षसहस्राणि न्यस्तचित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ १९ ॥ तत्रैव ते स्थिता देवमेकाग्रमनसो हरिम् । तुष्टुवुर्यस्स्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥ २० ॥ मैत्रेय उवाच स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः । चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥ २१ ॥ पराशर उवाच शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः । तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥ २२ ॥ प्रचेतस ऊचुः नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती । तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ २३ ॥ ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् । योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥ २४ ॥ यस्याहः प्रथमं रूपमरूपस्य तथा निशा । संध्या च परमेशस्य तस्मै कालात्मने नमः ॥ २५ ॥ भुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः । जीवभूतः समस्तस्य तस्मै सोमात्मने नमः ॥ २६ ॥ यस्तमांस्यत्ति तीव्रात्मा स्वभाभिर्भासयन्नभः । घर्मशीताम्भसां योनिस्तस्मै सूर्यात्मने नमः ॥ २७ ॥ काठिन्यवान् यो बिभर्ति जगदेतदशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ २८ ॥ यद्योनिभूतं जगतो बीजं यत्सर्वदेहिनाम् । तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ २९ ॥ यो मुखं सर्वदेवानां हव्यभुक् कव्यभुक् तथा । पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ ३० ॥ पञ्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिशम् । आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ ३१ ॥ अवकाशमशेषाणां भूतानां यः प्रयच्छति । अनन्तमूर्तिमाञ्छुद्धस्तस्मै व्योमात्मने नमः ॥ ३२ ॥ समस्तेन्द्रियवर्गस्य यः सदा स्थानमुत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ ३३ ॥ गृह्णाति विषयान्नित्यमिन्द्रियात्मा क्षराक्षरः । यस्तस्मै ज्ञानमूलाय नताः स्म हरिमेधसे ॥ ३४ ॥ गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति । अन्तःकरणभूताय तस्मै विश्वात्मने नमः ॥ ३५ ॥ यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् । लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ ३६ ॥ शुद्धः सँल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः । तमात्मरूपिणं देवं नताः स्म पुरुषोत्तमम् ॥ ३७ ॥ अविकारमजं शुद्धं निर्गुणं यन्निरञ्जनम् । नताः स्म तत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ ३८ ॥ अदीर्घह्रस्वमस्थूलमनण्वश्यामलोहितम् । अस्नेहच्छायमतनुमसक्तमसमीरणम् ॥ ३९ ॥ अनाकाशमसंस्पर्शमगन्धमरसं च यत् । अचक्षुःश्रोत्रमचलमवाक्पाणिममानसम् ॥ ४० ॥ अनामगोत्रमसुखमतेजस्कमहेतुकम् । अभयं भ्रान्तिरहितमनिद्रमजरामरम् ॥ ४१ ॥ अरजोऽशब्दममृतमप्लुतं यदसंवृतम् । पूर्वापरे न वै यस्मिंस्तद्विष्णोः परमं पदम् ॥ ४२ ॥ परमेशत्वगुणवत्सर्वभूतमसंश्रयम् । नताः स्म तत् पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ ४३ ॥ पराशर उवाच एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः । दश वर्षसहस्राणि तपश्चेरुर्महार्णवे ॥ ४४ ॥ ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः । ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः ॥ ४५ ॥ पतत्रिराजमारूढमवलोक्य प्रचेतसः । प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥ ४६ ॥ ततस्तानाह भगवान् व्रियतामीप्सितो वरः । प्रसादसुमुखोऽहं वो वरदः समुपस्थितः ॥ ४७ ॥ ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ ४८ ॥ स चापि देवस्तं दत्त्वा यथाभिलषितं वरम् । अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥ ४९ ॥ इति श्रीविष्णुपुराणे प्रथमेंऽशे चतुर्दशोऽध्यायः |