|
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ त्रयोदशोऽध्यायः ॥
पराशर उवाच
ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत । शिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥ १ ॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् । रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ २ ॥ अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ३ ॥ मनोरजायन्त दश नड्वलायां महौजसः । कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥ ४ ॥ कुरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाञ्छुचिः । अग्निष्टोमोऽतिरात्रश्च सुद्युम्नश्चेति ते नव । अभिमन्युश्च दशमो नड्वलायां महौजसः ॥ ५ ॥ कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् । अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥ ६ ॥ अङ्गात्सुनीथापत्यं वै वेनमेकमजायत । प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥ ७ ॥ वेनस्य पाणौ मथिते सम्बभूव महामुने । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्यते ॥ ८ ॥ येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥ ९ ॥ मैत्रेय उवाच किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः । यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम ॥ १० ॥ पराशर उवाच सुनीथा नाम या कन्या मृत्योः प्रथमजाभवत् । अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥ ११ ॥ स मातामहदोषेण तेन मृत्योः सुतात्मजः । निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥ १२ ॥ अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः । घोषयामास स तदा पृथिव्यां पृथिवीपतिः ॥ १३ ॥ न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन । भोक्ता यज्ञस्य कस्त्वन्यो ह्यहं यज्ञपतिः प्रभुः ॥ १४ ॥ ततस्तमृषयः पूर्वं सम्पूज्य पृथिवीपतिम् । ऊचुः सामकलं वाक्यं मैत्रेय समुपस्थिताः ॥ १५ ॥ ऋषय ऊचुः भो भो राजन् शृणुष्व त्वं यद्वदाम महीपते । राज्यदेहोपकाराय प्रजानां च हितं परम् ॥ १६ ॥ दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥ १७ ॥ यज्ञेन यज्ञपुरुषो विष्णुः सम्प्रीणितो नृप । अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥ १८ ॥ यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे सम्पूज्यते हरिः । तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥ १९ ॥ वेन उवाच मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः । कोऽयं हरिरिति ख्यातो यो वै यज्ञेश्वरो मतः ॥ २० ॥ ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः । हुतभुग्वरुणो धाता पूषा भूमिर्निशाकरः ॥ २१ ॥ एते चान्ये च ये देवाः शापानुग्रहकारिणः । नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥ २२ ॥ एवं ज्ञात्वा मयाज्ञप्तं यद्यथा क्रियतां तथा । न दातव्यं न होतव्यं न यष्टव्यं च भो द्विजाः ॥ २३ ॥ भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः । ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥ २४ ॥ ऋषय ऊचुः देह्यनुज्ञां महाराज मा धर्मो यातु सङ्क्षयम् । हविषां परिणामोऽयं यदेतदखिलं जगत् ॥ २५ ॥ पराशर उवाच इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः । यदा ददाति नानुज्ञां तदा प्रोक्तः पुनः पुनः ॥ २६ ॥ ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः । हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥ २७ ॥ यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् । विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥ २८ ॥ इत्युक्त्वा मन्त्रपूतैस्तैः कुशैर्मुनिगणा नृपम् । निजघ्नुर्निहतं पूर्वं भगवन्निन्दनादिना ॥ २९ ॥ ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज । किमेतदिति चासन्नान्पप्रच्छुस्ते जनांस्तदा ॥ ३० ॥ आख्यातं च जनैस्तेषां चौरीभूतैरराजके । राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥ ३१ ॥ तेषामुदीर्णवेगानां चौराणां मुनिसत्तमाः । सुमहान् दृश्यते रेणुः परवित्तापहारिणाम् ॥ ३२ ॥ ततः संमन्त्र्य ते सर्वे मुनयस्तस्य भूभृतः । ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥ ३३ ॥ मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल । दग्धस्थूणाप्रतीकाशः खर्वाटास्योऽतिह्रस्वकः ॥ ३४ ॥ किं करोमीति तान्सर्वान्स विप्रानाह चातुरः । निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत् ॥ ३५ ॥ ततस्तत्सम्भवा जाता विन्ध्यशैलनिवासिनः । निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥ ३६ ॥ तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः । निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥ ३७ ॥ ततोऽस्य दक्षिणं हस्तं ममन्थुस्ते द्विजोत्तमाः ॥ ३८ ॥ मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् । दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ ३९ ॥ आद्यमाजगवं नाम खात्पपात ततो धनुः । शराश्च दिव्या नभसः कवचं च पपात ह ॥ ४० ॥ तस्मिञ् जाते तु भूतानि सम्प्रहृष्टानि सर्वशः ॥ ४१ ॥ सत्पुत्रेण च जातेन वेनोऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात् त्रातः स तेन सुमहात्मना ॥ ४२ ॥ तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥ ४३ ॥ पितामहश्च भगवान्देवैराङ्गिरसैः सह । स्थावराणि च भूतानि जङ्गमानि च सर्वशः । समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ॥ ४४ ॥ हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ ॥ ४५ ॥ विष्णुचिह्नं करे चिह्नं सर्वेषां चक्रवर्तिनाम् । भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि ॥ ४६ ॥ महता राजराज्येन पृथुर्वैन्यः प्रतापवान् । सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ॥ ४७ ॥ पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥ ४८ ॥ आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४९ ॥ अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥ ५० ॥ तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ५१ ॥ तस्मिन्नेव महायज्ञो जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ ५२ ॥ स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान् । कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥ ५३ ॥ ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली । अद्यजातस्य नो कर्म ज्ञायतेऽस्य महीपतेः ॥ ५४ ॥ गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः । स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम् ॥ ५५ ॥ ऋषय ऊचुः करिष्यत्येष यत् कर्म चक्रवर्ती महाबलः । गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ॥ ५६ ॥ पराशर उवाच ततः स नृपतिस्तोषं तच्छ्रुत्वा परमं ययौ । सद्गुणैः श्लाघ्यतामेति तस्माल्लभ्या गुणा मम ॥ ५७ ॥ तस्माद्यदद्य स्तोत्रे मे गुणनिर्वर्णनं त्विमौ । करिष्येते करिष्यामि तदेवाहं समाहितः ॥ ५८ ॥ यदिमौ वर्जनीयं च किञ्चिदत्र वदिष्यतः । तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः ॥ ५९ ॥ अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः । भविष्यैः कर्मभिः सम्यक् सुस्वरौ सूतमागधौ ॥ ६० ॥ सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः । ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥ ६१ ॥ धर्मज्ञाश्च कृतज्ञाश्च दयावान् प्रियभाषकः । मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुवत्सलः ॥ ६२ ॥ समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥ ६३ ॥ सूतेनोक्तान् गुणानित्थं स तदा मागधेन च । चकार हृदि तादृक् च कर्मणा कृतवानसौ ॥ ६४ ॥ ततः स पृथिवीपालः पालयन् वसुधामिमाम् । इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ ६५ ॥ तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः । ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके । तमूचुस्तेन ताः पृष्टास्तत्रागमनकारणम् ॥ ६६ ॥ प्रजा ऊचुः अराजके नृपश्रेष्ठ धरित्र्या सकलौषधीः । ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥ ६७ ॥ त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः । देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥ ६८ ॥ पराशर उवाच ततोऽथ नृपतिर्दिव्यमादायाजगवं धनुः । शरांश्च दिव्यान्कुपितः सोऽन्वधावद्वसुंधराम् ॥ ६९ ॥ ततो ननाश त्वरिता गौर्भूत्वा तु वसुंधरा । सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही ॥ ७० ॥ यत्र यत्र ययौ देवी सा तदा भूतधारिणी । तत्र तत्र तु सा वैन्यं ददृशेऽभ्युद्यतायुधम् ॥ ७१ ॥ ततस्तं प्राह वसुधा पृथुं पृथुपराक्रमम् । प्रवेपमाना तद्बाणपरित्राणपरायणा ॥ ७२ ॥ पृथिव्युवाच स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि । येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥ ७३ ॥ पृथुरुवाच एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ ७४ ॥ पृथिव्युवाच प्रजानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥ ७५ ॥ पृथुरुवाच त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम् । आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ ७६ ॥ पराशर उवाच ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम् । प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥ ७७ ॥ पृथिव्युवाच उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः । तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥ ७८ ॥ समस्ता या मया जीर्णा नरनाथ महौषधीः । यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥ ७९ ॥ तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर । तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥ ८० ॥ समां च कुरु सर्वत्र येन क्षीरं समन्ततः । वरौषधीबीजभूतं वीर सर्वत्र भावये ॥ ८१ ॥ पराशर उवाच तत उत्सारयामास शैलान् शतसहस्रशः । धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्धिताः ॥ ८२ ॥ न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वा तदाभवत् ॥ ८३ ॥ न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥ ८४ ॥ यत्र यत्र समं त्वस्या भूमेरासीन्नराधिपः । तत्र तत्र प्रजाः सर्वा निवासं समरोचयत् ॥ ८५ ॥ आहारः फलमूलानि प्रजानामभवत्तदा । कृच्छ्रेण महता सोऽपि प्रणष्टास्वोषधीषु वै ॥ ८६ ॥ स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः । सस्यजातानि सर्वाणि प्रजानां हितकाम्यया ॥ ८७ ॥ तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ॥ ८८ ॥ प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता । ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी ॥ ८९ ॥ ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रिभिः । गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥ ९० ॥ तत्तत् पात्रमुपादाय तत्तद्दुग्धं मुने पयः । वत्सदोग्धृविशेषाश्च तेषां तद्योनयोऽभवन् ॥ ९१ ॥ सैषा धात्री विधात्री च धारिणी पोषणी तथा । सर्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा ॥ ९२ ॥ एवं प्रभावः स पृथुः पुत्रो वेनस्य वीर्यवान् । जज्ञे महीपतिः पूर्वं राजाभूज्जनरञ्जनात् ॥ ९३ ॥ य इदं जन्म वैन्यस्य पृथोः सङ्कीर्तयेन्नरः । न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते ॥ ९४ ॥ दुस्स्वप्नोपशमं नृणां शृण्वतामेतदुत्तमम् । पृथोर्जन्म प्रभावश्च करोति सततं नृणाम् ॥ ९५ ॥ इति श्रीविष्णुपुराणे प्रथमेंऽशे त्रयोदशोऽध्यायः |